अधिकम्

विकिशब्दकोशः तः

आधाराधेययोरानुरूप्याभावोऽधिको मत:।

श्रिय: पति: श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि।वसन्ददर्शावतरन्तमम्बराद्धिरण्यगर्भाङ्गभुवं मुनिं हरि:॥ शि.वधम् १.१
गतं तिरश्चीनमनूरुसारथेः प्रसिद्धमूर्ध्वं ज्वलनम हविर्भुजः ।

पतत्यधो धाम विसारि सर्वतः किमेतदित्याकुलमीक्षितं जनैः ॥ २ ॥ शिशुपालवधमहाकाव्ये प्रथमसर्गे 2

चयस्त्विषामित्यवधारितं पुरस्ततः शरीरिति विभाविताकृतिम् ।
विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः ॥ ३ ॥ शिशुपालवधमहाकाव्ये प्रथमसर्गे 3 ।

विपुलेन सागराशयस्य कुक्षिणा भुवनानि यस्य पपिरे युगक्षये।मदविभ्रमासकलया पपे पुन: स पुरस्त्रियैकतमयैकया दृशा॥ शि.वधम् १३.४०

ममौ पुर: क्षणमिव पश्यतो महत्तनूदरस्थितभुवनस्य तत्।विशालतां दधति नितान्तमायते बलं द्विषां मधुमथनस्य चक्षुषि॥ शि.वधम् १७.४७

शि.वधम् प्रथमसर्गे 23 ।
शि.वधम् चतुर्दशसर्गे 75।

वर्ग: काव्यालङ्कारकोश:

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिकम्, क्ली, (अधि + स्वार्थे कन् ।) काव्यालङ्कार- भेदः । तस्य लक्षणं । अधिकं पृथुलाधारादाधे- याधिक्यवर्णनं । उदाहरणं यथा । ब्रह्माण्डानि जले यत्र तत्र मान्ति न ते गुणाः ॥ इति कुव- लयानन्दे अप्पेयदीक्षितः ॥

"https://sa.wiktionary.org/w/index.php?title=अधिकम्&oldid=111028" इत्यस्माद् प्रतिप्राप्तम्