अनुक्रमणिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुक्रमणिका, स्त्री, (अनुक्रम्यते उत्तरोत्तरं परि- पाट्या आरभ्यतेऽनया, अनु + क्रम + करणे ल्युट्, स्त्रियां ङीप्, ततः स्वार्थे कन् स्त्रियां टाप् ।) भूमिका । ग्रन्थादेर्मूखबन्धः । पुराणादेरुक्तविव- रणस्य संक्षेपेण पुनः कथनं । इति पुराणं ॥ (“अनुक्रमणिकाध्यायं वृत्तान्तानां सपर्ब्बणाम्” । इति महाभारते ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुक्रमणिका¦ स्त्री अनुक्रम्यते यथोत्तरं परिपाट्या आर-भ्यतेऽनया अनु + क्रम--करणे ल्युट् स्त्रीत्वात् ङीप् स्वार्थेकनि ह्रस्वः। अनुक्रमज्ञापके, ग्रन्थाद्यंशभेदे उक्तस्यवक्तव्यस्य वार्थसङ्घस्य ग्रन्थशेषे, क्वचिदादौ वा संग्रा-हके पुराणादेरंशविशेषे। स्वार्थे काभावेऽनुक्रमणीत्यपि,तत्रैव। तत्र आदो यथा
“भारतस्येतिहासस्य श्रूयतांपर्वसंग्रहःपर्ब्बानुक्रमणी पूर्ब्बं द्वितीयः पर्व्वसंग्रह” भार॰आदि॰। अन्ते यथा
“अनुक्रमणिकाध्यायं तथा माहा-त्म्यमुत्तममिति” काशीख॰। एवमन्यत्र दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुक्रमणिका¦ f. (-का) A table or chapter of contents. E. कन् fem. form add- ed to the last.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुक्रमणिका/ अनु-क्रमणिका f. a table or chapter of contents , index to a collection of Vedic hymns (giving the first word of each hymn , the number of verses , name and family of poets , names of deities and metres).

"https://sa.wiktionary.org/w/index.php?title=अनुक्रमणिका&oldid=486034" इत्यस्माद् प्रतिप्राप्तम्