अव्ययः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्ययः, पुं, (नास्ति व्ययो यस्य ।) विष्णुः । (“नमस्कृत्य सुरेशाय विष्णवे प्रभविष्णवे । पुरुषायाप्रमेयाय शाश्वतायाव्ययाय च” ॥ इति मार्कण्डेयपुराणे ॥) व्ययरहिते, त्रि । इति मेदिनी ॥ (अविनाशी । नित्यपुरुषः । यथा, -- “तमसः परमापदव्ययं पुरुषं योगसमाधिना रघुः” ॥ इति रघुवंशे । “सूक्ष्माभ्यो मूर्त्तिमात्राभ्यः संभवत्यव्ययाद्व्ययम्” । इति मानवे ॥)

"https://sa.wiktionary.org/w/index.php?title=अव्ययः&oldid=507619" इत्यस्माद् प्रतिप्राप्तम्