अष्टमः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टमः, त्रि, अष्टानां पूरणः । इति व्याकरणं ॥ (तस्य पूरणे डट् । नान्तादसङ्ख्यादेर्मट् ।) यथा । कात्यायनः । “अष्टमेऽशे चतुर्द्दश्याः क्षीणो भवति चन्द्रमाः । अमावास्याष्टमांशे च ततः किल भवेदणुः” ॥ इति श्राद्धतत्त्वं ॥ अपि च । “सावर्णिः सूर्य्यतनयो यो मनुः कथ्यतेऽष्टमः । निशामय तदुत्पत्तिं विस्तराद्गदतो मम” ॥ इति देवीमाहात्म्यं ॥

"https://sa.wiktionary.org/w/index.php?title=अष्टमः&oldid=489691" इत्यस्माद् प्रतिप्राप्तम्