आपत्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपत्तिः, स्त्री, (आङ् + पद् + क्तिन् ।) दोषः । इति हेमचन्द्रः ॥ प्रापणं । आपत् । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपत्ति¦ स्त्री आ + पद--क्तिन्। आपदि आपच्च रोगाद्यभि-भूततावस्था सम्यग्वर्त्तनोपायानुपलम्भश्च। आपदिधर्माचरणञ्च या॰ स्मृ॰ दर्शितम् यथा
“क्षात्रेण कर्म्मणा जीयेद्विशां वाप्यापदि द्विजः। निस्तीर्य्यतामथात्मानं पावयित्वा न्यसेत् पथि। फलोपलक्षौमसोम-मनुष्यापूपवीरुधः। तिलौदनरसक्षारान् दधि क्षीरं घृतंजलम्। शस्त्रासवमधूच्छिष्टमधुलाक्षाश्च वर्हिषः। मृ-च्चर्म्मपुष्पकुतपकेशतक्रविषक्षितीः। कौशेयनीललवणमां-सैकशफसीसकान्। शाकार्द्रौषधिपिण्याकपशुगन्धांस्त-थैव च। वैश्यवृत्त्यापि जीवन्नो विक्रीणीत कदाचन। धर्म्मार्थं विक्रयं नेयास्तिला धान्येन तत्समाः। लाक्षाल-बणमांसानि पतनीयानि विक्रये। पयोदधि च मद्यञ्चहीनवर्णकराणि च। आषद्गतः सम्प्रगृह्णन् भुञ्जानो कायतस्ततः। न लिप्येतैनसा विप्रोज्वलनार्कसमो हि सः। कृषिः शिल्पं भृतिर्विद्या कुसीदं शकटं गिरिः। सेवाऽ-नूपं नृपोभैक्षमापत्तौ जीवनानि तु। बुभुक्षितस्त्र्यहंस्थित्वा धान्यमब्राह्मणाद्धरेत्। प्रतिगृह्य तदाख्येयम-भियुक्तेन धर्मतः। तस्य वृत्तं कुलं शीलं श्रुतमध्ययनंतपः। ज्ञात्वा राजा कुटुम्बञ्च धर्म्म्यां वृत्तिं प्रकल्पयेत्”। विस्तरस्तु भा॰ शा॰ प॰ आपद्धर्म्म पर्व्वणि दृश्यः।

२ प्राप्तौ।
“स्थानापत्तेर्द्रव्येषु धर्मलाभः” कात्या॰

४ ,

३ ,

१९
“इतरेतरभावापत्तिः” शा॰ भा॰ व्यतिरेकव्याप्त्या

३ अर्थादेःसिद्धौ। अर्थापत्तिः

४ अनिष्टप्रसङ्गे स च व्याप्यस्याहार्य्या-रोपात् व्यापकस्याहार्य्यरोपः। यदि निर्वह्निः स्यात्निर्धूमः स्यादित्येवं रूपः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपत्ति¦ f. (-त्तिः)
1. Misfortune, calamity.
2. Obtaining, procuring.
3. Fault, Transgression.
4. Remonstrance, expostulation. E. आङ् be- fore पद् to go, क्तिन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपत्तिः [āpattiḥ], f. [आ-पद्-क्तिन्]

Turning or changing into, entering into any state or condition.

Obtaining, procuring, getting; स्थानापत्तेर्द्रव्येषु धर्मलाभः Kāty.

Misfortune, calamity, adversity; Y.3.42.

A fault, transgression.

Remonstrance, expostulation.

(In phil.) An undesirable conclusion or occurrence (अनिष्टप्रसङ्ग).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपत्ति/ आ-पत्ति f. happening , occurring

आपत्ति/ आ-पत्ति f. entering into a state or condition , entering into relationship with , changing into Ka1tyS3r. APra1t. etc.

आपत्ति/ आ-पत्ति f. incurring , misfortune , calamity Ya1jn5.

आपत्ति/ आ-पत्ति f. fault , transgression L.

"https://sa.wiktionary.org/w/index.php?title=आपत्ति&oldid=490908" इत्यस्माद् प्रतिप्राप्तम्