आरोग्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरोग्यम्, क्ली, (अरोगस्य भावः । ष्यञ् ।) व्याध्यभावः । तत्पर्य्यायः । अनामयं २ । इत्यमरः ॥ पाटवं ३ लाघवं ४ वार्त्तं ५ । इति राजनिर्घण्टः ॥ (“आ- रोग्यं तत् सुखावहं” । इति शार्ङ्गधरः ॥ “धर्म्मार्थकाममोक्षाणामारोग्यं मूलमुत्तमम्” । “सुखसंज्ञकमारोग्यम्,” “वेदाध्ययनशब्दाश्च सुखो वायुः प्रदक्षिणः । पथि वेश्मप्रवेशे तु विद्यादारोग्यलक्षणम् ॥” इति चरकः ॥ “सुखमात्रं समासेन सद्वृत्तस्यैतदीरितं । आरोग्यमायुरर्थो वा नासद्भिः प्राप्यते नृभिः” ॥ इति सुश्रुतः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरोग्य नपुं।

रोगाभावः

समानार्थक:अनामय,आरोग्य

2।6।50।1।2

अनामयं स्यादारोग्यं चिकित्सा रुक्प्रतिक्रिया। भेषजौषधभैषज्यान्यगदो जायुरित्यपि॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरोग्य¦ न॰ अरोगस्य भावः ष्यञ्। रोगशून्यत्वे
“आरोग्यंवित्तसम्पत्तिर्गङ्गास्मरणजं फलम्” प्रा॰ त॰ पु॰ वैश्यं क्षेमंसमागम्य शूद्रमारोग्यमेव च” मनुः।
“धर्मार्थकाममो-क्षाणामारग्यं साधनं यतः” वैद्य॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरोग्य¦ n. (-ग्यं) Health. E. आङ् reverse, रुज् to be sick, यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरोग्यम् [ārōgyam], (अरोगस्य भावः ष्यञ्] Freedom from disease, good health; लघुत्वमारोग्यमलोलुपत्वम् Śvet.2.13. -Comp. -अम्बु n. Healthful water. -चिन्तामणिः N. of a work.-प्रतिपद्व्रतम् A ceremony for gaining health. -शालाa hospital.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरोग्य n. (fr. अ-रोग) , freedom from disease , health MBh. R. Sus3r. Mn. Gaut. A1p.

आरोग्य n. a particular ceremony

आरोग्य mfn. healthy

आरोग्य mfn. giving health L.

"https://sa.wiktionary.org/w/index.php?title=आरोग्य&oldid=491218" इत्यस्माद् प्रतिप्राप्तम्