आर्त्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आर्त्तः, त्रि, (आङ् + ऋ + क्तः ।) पीडितः । असुस्थः । यथा, -- “आर्त्तानां मार्गमाणानां प्रायश्चित्तानि ये द्विजाः । जानन्तो न प्रयच्छन्ति तेऽपि तद्दोषभागिनः” ॥ इति प्रायश्चित्ततत्त्वं ॥ (दुःखितः, कातरः, शोका- भिभूतः, उद्वेजितः, विरक्तः, अपकृतः, उत्पी- डितः । यथा शाकुन्तले, प्रथमाङ्के । “आर्त्तत्राणाय वः शस्त्रं न प्रहर्त्तुमनागसि” । “द्वेष्योऽपि सम्मतः शिष्टस्तस्यार्त्तस्य यथौषधम्” । इति रघौ । १ । २८ । (तथा च चरके ॥ “नाश्विनावार्त्तं भेषजेनोपपादयेतां” । इति ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आर्त्त¦ त्रि॰ आ + ऋ--क्त।

१ पीडिते,

२ दुःखिते,

३ असुस्थे च। अप्राप्तलिङ्गसंज्ञकस्यैव धातोर्वृद्धिं वदन् दुर्गादासः अर्त्तप-दसिद्धिं कर्त्तुमशक्नुवन् प्रत्याख्येयः। आर्त्तरवः आर्तनादःइत्यादि।
“द्वेष्योऽपि सम्मतः शिष्टस्तस्यार्त्तस्य यथौषधम्”
“तुमुलेनार्त्तरवेण वेजिताः”।
“बलमार्त्तभयोपशान्तये”
“तदीयमाक्रन्दितमार्त्तसाधोः”।
“राजापि यद्वियोगार्त्तः”
“अभिपेदे निदाघार्त्ता” इति च रघुः।
“न दुर्वहश्रोणिपयोध-रार्त्ता” कुमा॰
“विदितवात्तावार्त्तौ” दश॰ अत्र विदितवार्त्तौ आर्त्तौ इत्येव च्छेदः साधुः तद्व्याख्यानेऽस्माभिर्य-दन्यथाच्छेदमभिप्रेत्य व्याख्यातं न तत् साधु।
“नार्त्तोऽप्य-पवदेद्विप्रान्” मनुः।
“सुस्थेनार्त्तेन वा दत्तं श्रावितं धर्म-कारणात्” शु॰ त॰ स्मृतिः
“आर्त्तार्त्तेमुदिता हृष्टे प्रवासेमलिना कृशाः” शु॰ त॰ स्क॰ पु॰
“आर्त्तिर्नाशोऽ-स्त्यस्य अच्”।

४ विनाशिनि
“अतोन्यदार्त्तम्” वृह॰ उ॰।
“अतएतस्माद् ब्रह्मणोऽशनायाद्यतीतात्मस्वरूपान्नित्यतृ-प्ताद्यदन्यदविद्याविषयमेषणालक्षणं वस्त्वन्तरम् तद् आर्त्तंविनाशि, आर्तिपरिगृहीतम्” शाङ्क॰ भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आर्त्त¦ mfn. (-र्त्तः-र्त्ता-र्त्तं)
1. Pained, afflicted.
2. Disturbed, confounded. E. ऋत to hate, to move, participial affix क्त।

"https://sa.wiktionary.org/w/index.php?title=आर्त्त&oldid=218835" इत्यस्माद् प्रतिप्राप्तम्