इच्छा

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

काम्क्षा,स्पृहा,आग्रहः

क्रिया[सम्पाद्यताम्]

इच्छति, स्पृहयति काम्क्षति

अनुवादाः[सम्पाद्यताम्]

आम्गलम्-wants, मलयाळम्-മോഹിക്കുക ഇച്ഛിക്കുക,

  अऱबिक् : أمنية (ar) ('umniya) f, رغبة (ar) (rághba) f, منية (ar) (múnya) f
   अर्मॆनियन्: ցանկություն (hy) (c’ankut’yun), իղձ (hy) (iġj)
बलूचि: واہگ, ارمان
   बळ्गेरियन्: желание (bg) (želánie)
   चैनीस्:
       Mandarin: 願望 (cmn), 愿望 (cmn) (yuànwàng)
चॆक्: přání (cs) n
   डानिष्: ønske (da)
   डच्च्: wens (nl)
   एस्टोनियन्: soov
   फ़्रन्च्: souhait (fr)
       प्राचीन फ़्र्न्च्: vuel m
   जोर्जियन्: სურვილი (का)
   जॆर्मन्: Wunsch (de) m
   ग्ग्रीक्: ευχή (el) (efkhí) f, επιθυμία (el) (epithimía) f
   हिन्दि: इच्छा (hi) (ićčā)
   हङगॆऱियन्: kívánság (hu)
   ऐस्लान्डिक्: ósk (is) f	
   ईटालियन्: desiderio (it) m
   जापानिस्: 願い (ja) (ねがい, negai), 願望 (ja) (がんぼう, ganbō), 希望 (ja) (きぼう, kibō)
   कोऱियन्: 소원 (ko) (soweon)
   Krymchak: акибат (akibat)
   कूर्धिष्:
       Sorani: هیوا
   लाटिन्: desiderium (la) n, cupiditas (la) f, studium (la) n
   Macedonian: желба (mk) (žélba) f
   मऱात्ती: इच्छा (इच्छा), वासना (वासना)
   पेर्सियन्: آرزو (fa)
   पोलिष्: życzenie (pl) n
   प्पॊर्चुगीस्: desejo (pt) m, pedido (pt) m
   ऱुस्सिअन्: желание (ru) (želánije) n
   सिसिलियन्: disiu m
   स्पानिष्: deseo (es) m
   स्वीडिष्: önskan (sv)
   तॆलुगु: కోరిక (कॊरिका), అభిలాష (अभिलाषा)
   टॆर्किष्: dilek (tr), istek (tr)

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इच्छा, स्त्री, (एषणं इच्छा । इष् + श + टाप् ।) मनोधर्म्मविशेषः । तत्पर्य्यायः । आकाङ्क्षा २ वाञ्छा ३ दोहदः ४ स्पहा ५ ईहा ६ तृट् ७ लिप्सा ८ मनोरथः ९ कामः १० अभिलाषः ११ तर्षः १२ । इत्यमरः ॥ रुक् १३ इषा १४ श्रद्धा १५ तृष्णा १६ रुचिः १७ मतिः १८ दोहलं १९ छन्दः २० इट् २१ । इति जटाधरः ॥ (यथा मनौ ५ । ४५ “योऽहिं सकानि भूतानि हिनन्त्यात्मसुखेच्छया” ।) । न्यायमते अस्याः कारणम् । (यथा, भाषापरि- च्छेदे । १४८, १४९ ।) “निर्दुःखत्वे सुखे चेच्छा तज्ज्ञानादेव जायते । इच्छा तु तदुपाये स्यादिष्टोपायत्वधीर्य्यदि ॥ चिकीर्षाकृतिसाध्यत्वप्रकारेच्छा तु या भवेत् । तद्धेतुः कृतिसाध्येष्टसाधनत्वमतिर्भवेत्” ॥ अस्याः प्रतिबन्धः । “बलवद्दिष्टहेतुत्वमतिः स्यात् प्रतिबन्धिका” । इति भाषापरिच्छेदे १४८ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इच्छा स्त्री।

स्पृहा

समानार्थक:दोहद,इच्छा,काङ्क्षा,स्पृहा,ईहा,तृष्,वाञ्छा,लिप्सा,मनोरथ,काम,अभिलाष,तर्ष,भग,रुचि,तृष्णा,श्रद्धा,प्रतियत्न,छन्दस्

1।7।27।2।1

प्रेमा ना प्रियता हार्दं प्रेमस्नेहोऽथ दोहदम्. इच्छा काङ्क्षा स्पृहेहा तृड्वाञ्छा लिप्सा मनोरथः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इच्छा¦ स्त्री इष--भावे श। इदं मे भूयादिति वेदान्तादिमतेमनोधर्मभेदे सुखतत्साधनविषयचित्तवृत्तौ न्यायमते,सुखादिज्ञानेन तत्साधनत्वज्ञानेन च जायमाने इदंमेभूयादित्येवंरूपे आत्मधर्म्मे

२ अभिलाषे च।
“आत्मजन्याभवेदिच्छा इच्छाजन्या भवेत् कृतिः। कृतिजन्याभवेच्चेष्टा चेष्टाजन्या भवेत् क्रिया” न्यायसिद्धान्तः।
“कामः संकल्पोविचित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्द्रीर्धीभीरित्येतत् सर्व्वं मन एवेति” श्रुतेः मनोधर्म्मत्व-मिति सांख्यवेदान्तिनः।
“विगतेच्छाभयक्रोधाः” गीता
“जन्मनि क्लेशबहुलं किं न दुःखमतः परम् इच्छासं-पद्यतो नास्ति यत्नेच्छा न निवर्त्तते” हिता॰।
“नीतो रात्रिःक्षणैव मया सार्द्धमिच्छारतैर्या” मेघ॰।
“महीं महे-च्छः परिकीर्य्य सूनौ”
“विषमप्यसृतं क्वचिद्भवेदमृतंवा विषमीश्वरेच्छया” रघुः।
“योऽहिंसकानि भूतानि हिन-स्त्यात्मसुखेच्छया”
“देवदत्तां पतिर्भार्य्यां विन्दते नेच्छयात्मनः”
“लक्षं शस्त्रभृतां वासाद्विदुषामिच्छयात्मनः” इति च मनुः।
“स्वेच्छया विभजेत् सुतान्” दायभा॰ स्मृतिः। सा च द्वि-विधाफलोपायरूपविषयभेदात् यथाह भाषा॰
“सुखन्तुजगतामेव काम्यं धर्मेण जन्यते। अधर्म्मजन्यं दुःखं स्यात्प्रतिकूलं सचेतसाम्। निर्दुखत्वे सुखे चेच्छा तज्ज्ञाना-देव जायते। इच्छा तु तदुपायेस्यादिष्टोपायत्वधीर्यदि। चिकीर्षा कृतिसाध्यत्वप्रकारेच्छा च या भवेत्। तद्धेतुःकृतिसाध्येष्टसाधनत्वमतिर्भवेत्। बलवद्द्विष्टहेतुत्वमतिःस्यात् प्रतिबन्धिका। तदहेतुत्वबुद्धेस्तु हेतुत्वं कस्यचि-न्मते”। व्याख्यातं च मुक्ता॰। ‘ इच्छा हि फलवि-षयिणी उपायविषयिणी च। फलन्तु सुखं दुःखाभावश्च। तत्र फलेच्छां प्रति फलज्ञानं कारणम्। अतएव स्वतःपुरुषार्थः सम्भवति। यज्ज्ञातं सत् स्ववृत्तितयेष्यते सस्वतः पुरुषार्थ इति तल्लक्षणात्। इतरेच्छानधीनेच्छा-विषयत्वं फलितोऽर्थः। उपायेच्छां प्रतीष्टसाधनताज्ञानंकारणम्। कृतिसाध्यत्वप्रकारिका कृतिसाध्यक्रियाविष-यिणीच्छा चिकीर्षा पाकं कृत्या साधयामीति तदनुभवात्। [Page0914-a+ 38] चिकीर्षां प्रति कृतिसाध्यताज्ञानमिष्टसाधनताज्ञानञ्चकारणम्। अतएव वृष्ट्यां कृतिसाध्यताज्ञानाभावान्न चि-कीर्षा। बलवदिति बलवद्द्विष्टसाधनताज्ञानं तत्र प्रतिबन्ध-कम्। अती मधुविषसंपृक्तान्नभोजने न चिकीर्षा। बलवद्-द्वेषः प्रतिबन्धक इत्यन्ये। कस्यचिन्मत इति। बलवद-निष्टाजनकत्वज्ञानं कारणमित्यर्थः। कृतिसाध्यताज्ञानादि-मतो बलवदनिष्टसाधनताज्ञानशून्यस्य बलवदनिष्टजनकत्व-ज्ञानं विनापि चिकीर्षायां विलम्बाभावात् कस्यचिन्मतइत्यस्वरसो दर्शितः”। ( विवृतमेतत् दिनक॰ यथा
“तत्र तयोर्मध्ये। अतएव फ-लज्ञानस्य फलेच्छां प्रति हेतुत्वादेव पुरुषार्थः संभवतीतिसुखं दुःखाभावश्च पुरुषार्थः संभवतीत्यर्थः। ननु यज्-ज्ञातं सदित्यादेः स्वविषयज्ञानजन्येच्छाविषयत्वमर्थस्त-थाचोपायेऽतिव्याप्तिः तस्यापि स्वविषयकेष्टसाधनताज्ञान-जन्येच्छाविषयत्वात् अत आह। इतरेच्छेति”। ( अत्र ईश्वरेच्छामादायातिव्याप्तिवारणार्थं द्वितीयेच्छायांजन्यत्वं विशेषणीयम्। असम्भववारणाय आद्येच्छायामपिजन्यत्वं विशेषणीयम्। भवति च सुखेच्छायाः इतरविषय-केच्छानधीनत्वम् उपायेच्छायाश्च फलेच्छाधीनत्वञ्च। इष्ट-साधनस्य फलेच्छाधोनेच्छाविषयित्वात् न तत्र लक्षणप्रसरः। पुरुषान्तरीयेच्छामादायातिव्याप्तिवारणाय समवायद्वयघटितसामानाधिकरण्यं निवेशनीयम् वस्तुतः स्वसमवायिसम-वेतत्वप्रयोज्यत्वोभयसम्बन्धेन स्ववत्यास्वभिन्नाया जन्येच्छ-याविषयत्व तत्त्वम् स्वपदमिच्छापरम् इत्यन्यत्र विस्तरः। तत्रेदं बोध्य फलेच्छायां कारणं यत् सुखज्ञानमुक्तं तत्स्मरणानुमित्यादिसाधारणम्। प्रत्यक्षत्वे प्रत्यक्षं प्रति-विषयस्य हेतुतया विषयज्ञानजन्यसुखादेर्वर्त्तमानत्वे एवतत्सम्भवेन वर्त्तमानस्य सुखस्य सिद्धत्वात् सिद्धे च इच्छाविरहात् न तद्विषयकेच्छासम्भव इति सूचितं चैतत्कणादसूत्रोपस्करयोः” यथा।
“सुखाद्रागः” का॰सू॰।
“स्रक्चन्दनवनितासेवनजन्मनः सुखादुत्तरो-त्तरं तज्जातीये सुखे तत्साधने वा राग इच्छा जायते” उप॰
“तन्मयत्वाच्च” सू॰ विषयासङ्गजनितो दृढतरः सस्का-रविशेषस्तन्मयत्वम् तद्वशात् कामातुरस्य कामिनीमल-भमानस्य सर्व्वत्र कामिनीदर्शनम्” उप॰।
“तन्मयत्वे तत्-प्रकाशो बाह्याभ्यन्तरतस्तथा” इत्यन्यत्राप्युक्तम्। अत्र सं-स्कारादेव इच्छा जायते इत्युक्तेः संस्कारसाध्यस्मृतिद्वारैवसस्कारस्य हेतुत्वमवसीयते। क्वचिददृष्टवशात् क्वचित्[Page0914-b+ 38] जातिभेदवशाच्च इच्छासम्भवः तदप्युक्तम् तत्रैव
“अदृष्टाच्च”
“जातिघिशेषाच्च” सू॰। यद्यप्यदृष्टं साधारणं कारणंतथापि क्वचिदसाधारणकारणतामनुभवति शैशवे तज्जन्मा-ननुभूतकामिनीसेवनसुखस्यापि यौवनोद्भेदे कामिनीरागः” उप॰। न च तत्रापि अद्यप्रसूतबालकस्य स्तन्यपा-नरागैव जन्मान्तरीयतत्संस्कारजज्ञानस्यैव हेतुत्वमस्तुकिमदृष्टस्य साधारणकारणस्यासाधारणकारणताकल्पनेनेति चेत् तत्कल्पनेऽपि तत्र जीवनादृष्टस्येव अत्रापिअदृष्टविशेषस्यैवोद्बोधकस्थानीयतया अवश्यकल्पनीयत्वेतस्यैव हेतुत्वौचित्यात्। पदार्थभेदे जातिभेदकृतएव रागः। यथा मनुष्यजातीतानामन्नदौ रागः मृग-जातीयानां तृणादौ, करभजातीयानां कण्टकादौ,शूकरादेर्विष्ठादौ रागोत्पत्तिः। तथा च विषयविशे-षरागं प्रति जातिविशेष एव कारणतया कल्पनीयः। त-त्रापि जातिविशेषोत्पादकतयादृष्टस्यकारणत्वेऽपि जाति-विशेषस्य कारणत्वमस्त्येव तमनुत्पाद्यादृष्टस्याकारणत्वादितिवोध्यम् सुखं मे मूयादिति दुःखं मे मा भूयादित्येवं रूपःसुखदुःखाभिलापः। ( उपायेच्छां प्रति तु इष्टसाधनताज्ञानं हेतुः। भवति चपाके भोजनसाधनतया, भोजने च क्षुन्निवृत्तिसाधनतयाज्ञानात् इच्छा। तदुल्लेखिवाक्यन्तु पाको जायताम्इत्येवं रूपम्। सेयमिच्छा ज्ञानकृत्यादिवत् सविषयातद्विषयश्च द्विविधः बाधिताबाधितभेदात्। यत्र इष्ट-साधने वस्तुनि इष्टसाधनत्वज्ञानादिच्छासा सद्विषयिणीयत्र तु अनिष्टसाधने वस्तुनि इष्टसाधनत्व भ्रमजाअसद्विषयिणी। सा च प्राणिमात्रसाधारणी ईश्वचेरेच्छातु सदा सद्विषयिणीतस्या बाधितपदार्थविषयकत्वाभावादेवतथात्वम् तेन तस्या नित्यत्वेन इष्टसाधनत्वज्ञानाधीनत्वाभा-वेऽपि न क्षतिः। योगिनां तु प्राकाम्यकामावसायि-तारूपैश्वर्य्ययोगात् कामानुसारिणएव विषयाभवन्तीतिनासद्विषयिणीति भेदः यथोक्तं सां॰ कौ॰।
“प्राकाम्यमिच्छानभिधातः यतो भूमावुन्मज्जति निमज्जति यथोदके। कामावसायित्वं सा सत्थसङ्कल्पता। यथाऽस्य सङ्कल्पोभवति भूतेषु, तथैव भूतानि भवन्ति। अन्येषां निश्चयानिश्चेतव्यमनुविधीयन्ते योगिनान्तु निश्चेतव्याः पदार्थाःनिश्चयम्”। निश्चेतव्यनिश्चयशब्दौ काव्यकामावुप-लक्षयतः तथा च यथाकामं तेषां विषया भवन्तीतिन असद्विषयकत्वं तेषां कामानामिति विवेच्यम्। इयमिच्छा[Page0915-a+ 38] प्रवृत्तौ हेतुः इच्छाया बाधितविपयकत्वे प्रवृत्तिर्विसं-वादिनी तदुत्तरं फललाभाभावेन तस्याः विसंवादित्वात्। सद्विषयकत्वे संवादिन्येवेति भेदः तथा च प्राणि-मात्राणां प्रवृत्तौ इच्छा हेतुर्नेश्वरस्य प्रवृत्तौ तस्यानित्यत्वात्। गवादीनामपि हरिततृण दर्शनादिना जाय-मानायाः प्रवृत्तेसपलम्भात् तत्कारणमिच्छास्तीत्यनुमीयतेइयांस्तु भेदः तेषां वस्तुनः सदसद्विवेकशून्यतया-ऽसद्विषयेऽपीच्छा जायते। सेयमिच्छा सुबन्तोत्तरविहितकाम्यच्क्यजादिना, घातूत्तरविहितसनादिना च वाच्या। तत्र पुत्रकाम्या, अशनाया, उदन्या इत्यादौ काम्य-जादिवाच्या, पिपासा बुभुक्षा लिप्सा इत्यादौ सन्-वाच्या। सर्व्वत्र च इष्टसाधनज्ञानादेव तत्ततद्विषयेषुइच्छा जायते सन्प्रत्ययवाच्यायां चिकीर्षायां तु नैवकिन्तु तत्र मतभेदे कारणान्तरमप्यस्ति तथा हिकृतिसाध्यत्वप्रकारकेच्छा चिकीर्षा पाकः कृत्था साध्यता-नित्यारिका। तत्र च कृतिसाध्यत्वज्ञानं कारणमितिगुरवः तेन वृष्टिजलादौ कृतिसाध्यत्वाभावेन न तत्रचिकीर्षा। कृतिसाध्येष्टसाधनत्वज्ञानं बलवदनिष्टानुबन्धि-त्वज्ञानञ्च हेतुरिति नैयायिकाः। तेन वृथाजलताड-नादो कृतिसाध्यत्वग्रहेऽपि न चिकीर्षा तत्र इष्टसाधनत्व-ग्रहाभावात्। विषनिश्रितान्नादेरिष्टसाधनत्वग्रहेऽपि बल-वदनिष्टसाधनत्वग्रहान्न चिकीर्षा। तदेतत् मुक्ता॰ उक्तंतच्च प्राक् दर्शितं तत्रत्यदिनकरीशेषो यथा।
“ननु कृतिसाध्यताज्ञानस्य स्वातन्त्र्येण चिकिर्षां प्रति हेतुत्वेमानाभावः। तद्धर्मावच्छिन्नविशेष्यकेष्टसाधनताज्ञानस्यतद्धर्मप्रकारकेच्छां प्रति हेतुतायाः कॢप्तत्वात् कृतिसाध्यपा-कत्वावच्छिन्नविशेष्यकेष्टसाधनताज्ञानादेव चिकीर्षायाःसम्भवादिति चेन्न यत्र कृतिसाध्यपाकत्वेनेष्टसाधनत्वंन गृहीतमपि तु शुद्धपाकत्वेन कृतिसाध्यत्वं शुद्धपाकत्वेने-ष्टसाधनत्वं च गृहीतं तत्रापि पाकगोचरप्रवृत्तेरानुभाविक-तया तदनुरोधेन चिकीर्षाया अप्यावश्यकत्वेन तन्निर्वाहायकृतिसाध्यताज्ञानस्य स्वातन्त्येण हेतुताया आवश्यकत्वात्। अथ कृत्यसाध्यताज्ञानस्य प्रतिबन्धकत्वादेव वृष्ट्यादौचिकीर्षामुत्पादात् कृतिसाध्यताज्ञानस्य चिकीर्षां प्रति-हेतुत्वे मानाभावैति चेन्न कृतिसाध्यत्वाभाव तद्व्याप्य-तदवच्छेदकधर्मज्ञानानां प्रतिबन्धकत्वकल्पनापेक्षया कृ-तिसाध्यताज्ञानस्य हेतुत्वे लाघवात्। इष्टसाधनताज्ञान-मिति। अन्यथा निष्फलत्वज्ञानेऽपि चैत्यवन्दनादौ[Page0915-b+ 38] चिकीर्षापत्तिरिति भावः। अत्रेदम्बोध्यम्। पाकविशेष्य-केष्टसाधनताज्ञानस्य कार्य्यतावच्छेदकं न कृतिसाध्यपाक-गोचर चिकीर्षात्वम् कृतिसाध्यत्वप्रकारकत्वनिवेशे प्रयोजनवि-रहात् पाकोजायतामितीच्छाया असंग्रहापत्तेश्चकिन्तु पाकत्वावच्छिन्नमुख्यविशेष्यकेच्छात्वम् पाकसाध्यंसुखं जायतामितीच्छायां व्यभिचारवारणाय मुख्येति। इष्टसाधनतेत्यत्रेच्छा स्वरुपसती विशेषणम्। तेनेच्छा-ज्ञानशून्यकालेऽपि चिकीर्षानिर्वाह इति। अतएव कृतिसा-ध्यताज्ञानस्य हेतुत्वादेव। बलवद्द्विष्टेति। द्विष्टं द्वेषविष-यभूतं द्वेषश्च दुःखे ताद्रूप्येण ज्ञानात्, सर्पादौ तत्साधनताज्ञानात्। द्वेषे बलवत्त्वं च जातिविशेषः। प्रतिबन्धकमिति। ननु वलवद्द्वेषविषयसाधनत्वज्ञानस्य प्रतिबन्धकत्वे चै-त्रस्यागम्यागमनजन्यनरके यदा बलवान् द्वेषस्तदा मैत्रस्यतादृशद्वेषशून्थस्यागम्यागमने तादृशनरकसाधनत्वज्ञान-वतैच्छाप्रवृत्त्योरनुपपत्तिः एवं चैत्रस्यैव कालान्तरेतादृशद्वेषसत्त्वेपि। न च तत्कालीनतत्प रुषीयेच्छां प्रतिप्रवृत्तिं प्रति च तत्कालीनतत्पुरुषीयवलवद्द्विष्टजनकत्व-ज्ञानस्य प्रतिबन्धकत्वं कल्प्यते। यत्पुरुषस्य यदा न क्वापिद्वेषस्तत्कालपुरुषान्तर्भावेन तादृशप्रतिबन्वकत्वस्याक-ल्पनान्न तत्र तादृशप्रतिबन्धकाप्रसिद्धिरतस्ततदभावरूपका-रणस्याभावात् प्रवृत्त्यनुपपत्तिरिति वाच्यम् यत्पुरु-षस्य यदाऽगम्यागमनजन्यनरके बलवद्द्वेषसादा तत्पुरु-षस्य तत्रेच्छानुत्पादादगम्यागमनगोचरतत्पुर षीयतत्का-लीनेच्छाया अप्रसिद्ध्या तत्पुरुषतत्कालानार्भावेनतादृशकार्य्यकारणभावस्याभावेन तत्र तत्पुरुपीयान-म्यागमनगोचरेच्छानुत्पादप्रयोजकस्य दुर्भिक्षापत्तेरितिचेन्न तद्धर्मप्रकारकद्वेषविशिष्टस्य तद्धर्मावच्छिन्नजनकत्वज्ञानस्य तत्र प्रतिबन्धकत्वकल्पेनेनोक्तापत्यभावान्। तद्धर्मप्रकारकद्वेषानुत्तरतादृशेच्छायां तादृशद्वेष भावः, ता-दृशद्वेषोत्तरतद्गोचरेच्छायां तद्धर्मावच्छिन्नजनक{??}ज्ञानाभावःकारणम्। वलवद्द्वेष इति। पाकादिगेचरेच्छायांवलवद्द्वेषविषयसाधनत्वज्ञानजन्यः पाकगोचरोद्वेषःप्रतिबन्धकः पूर्बोक्तप्रतिबन्धकत्वद्वयकल्पनापेक्षया लाघ-वादिति भावः यत्र चोत्कठसुखोत्कटदुःखजनकमेकस्मिन्कर्म्मणि गृहीतं तत्र सत्प्रतिपक्षस्थल इवेच्छाद्वेषयोरनु-त्पत्तेस्त्वन्मते तत्र कार्य्यकाले द्वेषाभावस्य सत्त्वेनेच्छो-त्पादापत्तिः। न च यत्र बलवद्द्विष्टसाधनत्वज्ञानेन तृ-तीयक्षणे द्वेषोजनित{??}दुत्तरक्षणे इच्छोत्पादापत्तिस्तवा-[Page0916-a+ 38] पीति वाच्यम्। तत्रेच्छोत्प्रादस्येष्टत्वात् क्षणविलम्बस्यशपथनिर्णेयत्वादिति अत्यैत्यनेनास्वरसः सूचितः। वलवदनिष्टाजमकत्वज्ञानमिति। अत्रापि तद्धर्मप्रकारकद्वेषोत्तरेच्छायां तद्धर्म्मावच्छिन्नाजनकत्वज्ञानं कारणं तादृशद्वेषानुत्तरेच्छायां तु तद्धर्मप्रकारकद्वेषाभावः कारणमितिनिष्कर्षोबोध्यः। भूले कस्य चिन्मत इत्यनेनास्वरसःसूचितः। स च बलवदनिष्टाननुवन्धित्वज्ञानत्वस्य हेतुताव-च्छेदकत्वे बलवदनिष्टजनकत्वप्रकारतानिरूपिताभावविशे-ष्यताशालित्वादेस्तादृशनिरूप्यनिरूपकभावघटितत्वेन गौर-वात्तदघटितबलवदनिष्टसाधनत्वज्ञानाभावत्वेनैव हेतुत्वंयुक्तम्। नचाप्रामाण्यज्ञानानास्कन्दितबलवदनिष्टाननु-बन्घित्वज्ञानत्वापेक्षया प्रामाण्यनिश्चयानास्कन्दिततदनुबन्धित्वज्ञानत्वस्य प्रतिबन्धकतावच्छेदकत्वे गौरवमिति वा-च्यम्। युद्धादौ बलवदनिष्टसाध नत्वसन्देहेऽपीच्छाप्रवृत्त्योरुदयाद्बलवदनिष्टानुवन्धित्वनिश्चयस्यैवेच्छाप्रतिवन्धकतायास्त-दननुबन्धित्वसंशयस्यापि प्रतिबन्धकतायाश्च वाच्यतया च-विपरीतगौरवादिति। न च बलवदनिष्टाननुबन्धित्वज्ञा-नस्याप्रवर्त्तकत्वे तद्विषयस्य विध्यर्थत्वाभावात्
“न कलञ्जभक्षयेदित्यादि” --वाक्यानामप्रामाण्यापत्तिरिति वाच्यम्। तज्ज्ञानस्य प्रवृत्तिजनकत्वाभावेऽपि प्रवृत्तिप्रतिबन्धकबलव-दनिष्टसाधनत्वज्ञानविघटकत्वेन प्रवृत्तिप्रयोजकत्वात् प्रवृ-त्तिप्रयोजकज्ञानविषयस्य विध्यर्थत्वानपायात्। अत्रयद्यपि यत्र प्रथमक्षणे द्वेषः द्वितीयक्षणे फलेच्छा तृ-तीयक्षणे फलसाधनताज्ञानं तत्र तृतीयक्षणे द्वेषनाशाद्भ-वत्येव चतुर्थेक्षणे उपायेच्छा। यत्र फलेच्छादिक्रमेणैषामुत्प-त्तिस्तत्र फलेच्छारूपकारणाभावादेव नोपायेच्छा। एवम-न्यत्रापि। आत्मविशेषगुणानां यौगपद्यानङ्गीकारादितिबलवदनिष्ठानुवन्धिज्ञानस्य द्वेषस्य वा प्रतिबन्धकत्वं नयुक्तं न युक्तञ्च बलवदनिष्टाननुबन्धित्वज्ञानस्य हेतुत्वं त-थापि द्वित्निक्षणान्तरितेऽपि द्वेषे इच्छाप्रवृत्त्योरनुदयस्यानु-भविकतया ज्ञानयोरेव वा यौगपद्यमित्यभ्युपगमाद्वा पूर्वोक्त-प्रतिबन्धकत्वस्य हेतुत्वस्य वावश्यकत्वमिति ध्येयम्”। ( शब्दचिन्तामणौ तु प्रपञ्चः। तत्र कृतिसाध्यत्वनिश्चयस्यचिकीर्षादिहेतुत्रम् पूर्ब्बपक्षीकृत्य अत्रोच्यते इत्यादिनाखमतसिद्धं कारणं दर्शयित्वा सिद्धान्तितं यथा।
“विष-भक्षणादिव्यावर्त्तकं कृतिसाध्यत्वज्ञाने इष्टसाधनत्वं विषयतयावच्छेदकं लाघवात्॰ न तु स्वविशेषणवत्ताप्रतिस-न्वानजन्यत्वं गौरवात् न च सिद्ध्यसिद्ध्यवस्ययोःसा-[Page0916-b+ 38] ध्यत्वसाधनत्वयोर्विरोधः निर्विशेषितयोरविरोधात् पाको-ऽसिद्धः साध्यः सिद्धः साधनञ्चेत्यनुभवात् तदा साध्यत्वंहि तदा साधनत्वविरोधि नियमतस्तेनैव तस्य प्रतिक्षेपात्सहानवस्थाननियमात् न तु साधनत्वस्य अन्यदा साधन-त्वस्य वा तयोरप्रतिक्षेपात् अन्यदासाधनत्वेऽपि साधन-त्वमस्त्येव सामान्यभावे विशेषभावप्रसङ्गात् एवन्तदासिद्ध-त्वस्य तदऽसिद्धत्वेन विरोधः नियमयस्तस्यैव प्रतिक्षेपात् नतु सिद्ध्वत्वमात्रेण अन्यदाषि तत्र सिद्धत्वाभावप्रसङ्गात्। निर्विशेषितयोर्विरोधे च सिद्धत्वासिद्धत्वयोश्चान्यतरदेवपाकादौ स्यान्नतु समयभेदेऽप्युभयम् न च तदा कृतिसाध्य-त्वे सति तदेष्टसाधनत्वज्ञानं प्रवर्त्तकम्। अतएव
“वाजपेयेनयजेतेत्यत्र” यागस्य करणावस्थायां सिद्धत्वेन वाजपेयस्य नसाध्यता एकदाद्वयविरोधादिति कर्मनामधेयत्वं न तु कर-णस्य सिद्धत्वेन साध्यत्वविरोधः यागस्वरूपे तयोः सत्त्वात्अथ विरुद्धयोरवच्छेदभेदमादायैकत्र प्रतीतिःस्यात् नचकृतिसाध्यत्वेष्टसाधनत्वयोः समयभेदमादाय प्रतीतिरस्तितथा लिङ्गाभावादितिचेत् न साध्यत्वसाधनत्वयोरविरोधस्यो-क्तत्वात् एवं सिद्धासिद्धत्वयोर्भावाभावरूपत्वेऽपि न विरोधःएकधर्मिगतत्वेन मानसिद्धत्वात्। एवं संयोग तदभावयोरिवयेन प्रकारेण ययोर्विरोधस्तेन तयोरेकधर्मिगतत्वं न प्रतीयतेन तु रूपान्तरेणापीति। अपि च यदि साध्यत्वसाधनत्वयीर्विरोधस्तदापीष्टसाधनत्वेन कार्य्यसाधनत्वेन वा कार्य्य-त्वं नानुमीयेत हेतुसाध्ययोर्विरोधेन सामानाधिकरण्या-भावेन व्याप्त्यसिद्धेः पक्षे साध्यसाधनयोरन्यतरासत्त्वे बाधा-सिद्ध्योरन्यतरप्रसङ्गाच्च। न च वाच्यमिदानीं मत्कृतिसा-घ्यत्वं साध्यम् अग्रेमदिष्टसाधनत्वं हेतुः, दैवाद्यनधीनत्वेसति यदग्रे मदिष्टसाधनं तदिदार्नी मत्कृतिसाध्यमिति व्याप्तेःतथा च समयभेदमादाय साध्यत्वसाधनत्वयोरविरोधइति। इदानोमग्रिमपदार्थयोर्नानात्वादनुगतरूपाभावेनव्याप्तेरग्रहात् एवन्यायेनान्यत्रापि तत्तत्समयान्तर्भावेनसाध्यत्वसाधनत्वयोरप्रतीतेः। प्रतीतौ वा ममापीदानींकृतिसाध्यत्वे सत्यग्रे इष्टसाधनत्वज्ञानं प्रवर्त्तकामस्तु। नच पाकसाध्येष्टत्वेत कृतिसाध्यत्वमनुमेयं असिद्धावस्था-वतः पाकादिष्टानुत्पत्तेः पाकस्य सिद्धत्वमवगम्य तत्-साध्यत्वमिष्टस्यावगन्तव्यम् असिद्धत्वञ्चावगम्य कृतिसा-ध्यत्वमिति सिद्धत्वासिद्धत्वयोर्विरोधोऽत्रापि दुर्वारः। अपिच स्वविशेषणधीजन्यकार्य्यताज्ञानाभावात् सुखे कथंचिकीर्वा न हि कृतिसाध्यताज्ञानमात्रात् सा सञ्जातबा-[Page0917-a+ 38] धस्य विषभक्षणादौ चिकोर्षाप्रसङ्गात्। अथोपायचि-कीर्षायां तत्कारण इच्छाकारणसुखत्वज्ञाते कृतिसा-ध्यत्वं यदा विषयस्तदा सुखे चिकोर्षा नो चेदिच्छामात्रमिति द्वयमेव चिकीर्षाहेतुरिति चेत् तर्हीच्छाहेतु-ज्ञाने यदा कृतिसाध्यत्व भासते तदा चिकीर्षा नो चेदिच्छा-मात्रमित्येव सुखतदुपायचिकीर्षाकारणमस्तु लाघवात्सुखत्वज्ञानवदिष्टसाधनताज्ञानस्यापीच्छाकारणत्वात्। अ-तएव पाके इष्टसाधनताज्ञाने कृतिसाध्यत्वं विषय इतिचिकीर्षा न तु वृष्ट्यादिज्ञाने तद्विषयत्वमितीच्छामात्र सुखचिकीर्षायामिच्छाकारणज्ञाने कृतिसाध्यताविषयकेचिकीर्षाजनकत्वावधारणात् अन्यथा तत्र चिकीर्षा-नुत्पत्तेः। वस्तुतस्तु उपायचिकीर्षा इष्टसाधनताज्ञान-साध्या उपायेच्छात्वात् वृष्टीच्छावत् न च भोगचिकीर्षावत्तेन विनावि स्यादित्यप्रयोकत्वात् उपायेच्छायास्तदम्बयव्यतिरेकानुविधानात् वृष्टेश्च स्वतोऽसुकरत्वेन इच्छानुत्-पत्तेः। अनुगतोपायेच्छायामनुगतस्य प्रयोजकत्वे सम्भवतिबाधक विना त्यागायोगाच्च। न च चिकीर्षान्यत्वेसति उपा-येच्छात्वमिच्छात्वंवा तज्जन्यत्वे प्रयोजकं गौरवात् सुखेच्छ-यां तदभावाच्च। एवञ्चोपायचिकीर्षायामिष्टसाधन-ताज्ञाने ध्रुवेऽतिप्रसङ्गवारणार्थं कृतिसाध्यत्वप्रकारकत्वनिर्वा-हार्थञ्चकृतिसाध्यत्वमपि विषयतयावच्छेदकमस्तु न तुतद्विहाय तन्मात्र, कॢप्तकारणं विना कार्य्यानुत्पत्तेः। अतएव स्तनपानप्रवृत्तावप्युपायेच्छाकारणत्वेन गृहीतस्येष्ट-माधनताज्ञानस्यापि कल्यनं दृष्टानुरोधित्वात् कारणतायाः। ननु साधनत्वमिच्छाविरोधि तस्य सिद्धधर्म्मत्वात् वृष्ट्यादौतत्साध्येष्टज्ञानादिच्छेति चेत् न निर्विशेषितयोः सिद्धत्वा-सिद्धत्वयोरविरोधेनेच्छासाधनत्वयोरविरोधात् तदा असि-द्धत्वं तत्सिद्धत्वञ्च नेच्छासाधनत्वयोः प्रयोजकमितितथा न ज्ञायत एव। यत्तु तत्साध्येष्टज्ञानात् दृष्ट्यादावि-च्छेति तत्तुच्छं असिद्धावस्थाद्वृष्ट्यादेरिष्टानुत्पत्तेरवश्यसिद्धत्वमवगन्तव्यमिच्छाविरोधित्वाच्चासिद्धत्वमिति तत्रापिविरोधएव वृष्टौ संत्यामिष्टं तया विना नेत्यन्वयव्यतिरेकग्रहस्य वृष्टिसिद्धत्वमादाय वृष्टिनिरूपितेषु साध्यत्व-ग्राहकत्वात्। किञ्च चिकीर्षाजन्यकृतिसाध्यं मण्डली-करणमित्यर्थप्रतिपादकं मण्डलीं कुर्य्यादितिवाक्यं प्र-माणं स्यात् विषयाबाधात्। एतेन नवीनमतमपास्तं प-रस्य हि कृतिसाध्यत्वौदनकामनावत्त्वेष्टसाधनताज्ञानानांज्ञानं तथान्यस्य ओदनकामनावत्तेष्टसाधनताज्ञानस्थ[Page0917-b+ 38] ज्ञान न प्रवृत्तिकारण गौरषात् किन्तु मत्कृतिसाध्यत्वे सति मदिष्टसाधनताज्ञानमेव लाघवात् तथा च साध्य-साधनत्वयोर्न विरोधोऽनागतस्य पाकादेः कृतिसाध्यताज्ञा-नञ्च यथा, तथोपपादितं पुरस्तात्। किञ्च खकृतिसाध्यत्वम-न्तरेणापि स्वकृतिसाध्येष्टसाधनताज्ञानात् स्वकल्पितेलिप्यादौ,यौवने कामोद्भेदात् संभोगादौ प्रवृत्तेश्च अदृष्टं प्रव-वर्त्तकम्। वस्तुतस्तु सिद्धविषयककृतिसाध्यताज्ञानात् कथं
“पाकं कृत्या साधयामीतीच्छा” ? सिद्धे इच्छाविरहात् अ-सिद्धस्याज्ञानात् अथ सिद्धविषयादेव कृतिसाध्यताज्ञाना-दसिद्धविषया कृतिसाध्यत्वेनेच्छा जायते इच्छाया अ-सिद्धविषयत्वस्वभावत्वात्। एकप्रकारकत्वेन ज्ञानचिकीर्षयोःकार्य्यकारणभावोनत्वेकविषयत्वे सति गौरवात् इच्छायाअनागतविषयत्वात्तस्य चाज्ञानात्तथा कल्पनात् सु-खादीच्छायामप्येवमिति चेत् न असिद्धविषयेच्छानु-रोधेनानागतोपायज्ञानस्य दर्शितत्वात्। अस्तुचैवंतथापि कृतिसाध्यताज्ञाने इष्टसाधनत्वमेव व्यावर्त्तक-मस्तु स्वपरकीयेष्टसाधनताज्ञानस्य फलकामनाज्ञाना-पेक्षया लघुत्वात् ज्ञानज्ञानस्य फलकामनाज्ञानस्य हेतुत्वेमानाभावाच्च”। ( सेयमिच्छा अन्तःकरणधर्म्मोनात्मधर्म्मः इति वेदान्तिनःप्रतिपेदिरे। आत्मनो निर्गुणत्वात् प्रागुक्तया
“कामःसङ्खल्पः इत्यादि श्रुत्था मनोधर्म्मत्वावगमाच्च तथात्वम्। यथा च कामादीनां नात्मधर्म्मत्वं तथा शङ्कापूर्व्वकं वृ॰ उ॰भाष्ये समर्थितम्। यथा(
“सुखित्वदुःखित्वादिदर्शनान्नेति चेत् न
“न लिप्यते लोक-दुःखेन बाह्य” इति श्रुतेः। प्रत्यक्षादिविरोधादयुक्तमितिचेत् न उपाध्याश्रयजनितविशेषविशेषयत्वात्प्रत्यक्षा-देः
“न दृष्टेर्द्रष्टार पश्येर्विज्ञातारमरे केन विजानीया-दविज्ञातं विज्ञातृ” इत्यादिश्रुतिभ्यो नात्मविषयं विज्ञानम्,किन्तर्हि बुद्ध्याद्युपाध्यात्मप्रतिच्छायाविषयमेव सुखितोदुःखितोऽहमित्येवमादिप्रत्यक्षविज्ञानमयमहमिति विषयेणविषयिणःसामानाधिकरण्योपचारात्
“नान्यदतोऽस्ति द्रुष्टृ” इत्यन्यात्मप्रतिषेधाच्च। देहावयवविशेष्यत्वाच्च सुखदुःखयो-र्विषयधर्म्मत्वम्
“आत्मनस्तु कामाय” इत्यात्मार्थत्वश्रुतेरयुक्त-मिति चेन्न।
“यत्र वा अन्यदिव स्यात्” इत्यविद्याविषया-त्मार्थत्वाभ्युपगमात्
“तत्केन कं पश्येत्”
“नेह नानास्ति कि-ञ्चन”
“तत्र को मोहः कः शोक” इत्यादि विद्याविषयेतत्प्रतिषेधाच्च नात्मधर्म्मत्वम्। तार्क्किकसमयविरोधादयुक्तमिति[Page0918-a+ 38] चेन्न युक्त्याप्यात्मनो दुःखित्वानुपपत्तेः। न हि दुःखेनप्रत्यक्षविषयेणात्मनो विशेष्यत्वं, प्रत्यक्षाविषयत्वात्। आकाशस्यशब्दगुणवत्त्ववदात्मनो दुःखित्वमिति चेन्न एकप्रत्ययवि-षयत्वानुपपत्तेः। न हि सुखग्राहकेण प्रत्यक्षविषयेणप्रत्ययेन नित्यानुमेयस्यात्मनो विषयीकरणमुपपद्यते। तस्य च विषयीकरणे आत्मन एकत्वाद्विषय्यभावप्रसङ्गः।{??}कस्यैव विषयविषयित्वं दीपवदिति चेन्न युगपदस-म्भवादात्मन्यंशानुपपत्तेश्च। एतेन विज्ञानस्य ग्राह्य-ग्राहकत्वं प्रत्युक्तम्। प्रत्यक्षानुमानविषययोश्च दुःखा-त्मनोर्गुणगुणित्वेनानुमानम् दुःखस्य नित्यमेव प्रत्य-क्षविषयत्वाद्रूपादिसामानाधिकरण्याच्च मनःसंयोगजत्वे-ऽप्यात्मनि दुःखस्य, सावयवत्वविक्रियावत्त्वानित्यत्वप्रसङ्गात्। न ह्यविकृत्य संयोगि द्रव्यं गुणः कश्चिदुपयन्नपयन्वा दृष्टःक्वचित्। न च निरवयवं विक्रियमाणं दृष्टं क्वचित् अ-नित्यगुणाश्रयं वा नित्यम्। न चाकाश आगमवादिभि-र्नित्यतयावगम्यते। न चान्यो दृष्टान्तोऽस्ति विक्रियमा-णमपि तत्प्रत्ययानिवृत्तेर्नित्यमेवेति चेन्न द्रव्यस्यावयवा-न्यथात्वव्यतिरेकेण विक्रियानुपपत्तेः। सावयवत्वेऽपिनित्यत्वमिति चेन्न सावयवस्यावयवसंयोगपूर्व्वकत्वे सतिविभागोपपत्तेः। वज्रादिष्वदर्शनान्नेति चेन्नानुमेयत्वा-त्संयोगपूर्व्वत्वस्य। तस्मान्नात्मनो दुःखाद्यनित्यगुणाश्रय-त्वोपपत्तिः। परस्यादुःखित्वेऽन्यस्य च दुखिनोऽभावेदुःखोपशमनाय शास्त्रारम्भानर्थक्यमिति चेन्नाविद्या-ऽध्यारोपितदुःखित्वम्रमापौहार्थत्वात्”। ( यथा च कामस्य हृदयाश्रितत्वतथाप्तकामशब्दे

७१

८ पृष्ठेदर्शिते वृ॰ भा॰ वाक्ये प्रपञ्चितम्। एवमेव सांख्याःपातञ्जलाश्चज्ञानादिवत् सुखदुःखेच्छाद्वेषप्रयत्न धर्म्मा धर्म्मा अपिबुद्धेरेवधर्म्मा इत्याहुः। ईश्वरेच्छा तु समूहालम्बनात्मिका सर्व्वं जगत्भूयादित्याकारिका।
“सोऽकामयत बहु स्यां प्रजायेयेत्यादि” श्रुतिः।
“सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर्विविधाःप्रजाः” इति स्मृतिश्च तस्य तत्सत्त्वे प्रमाणम्। सा च नित्येतिनैयायिकादयः नित्यत्वाच्चर्न तत्र कारणापेक्षा। व्योमादि-वदनित्येति वेदान्तिनः। मित्यत्ववादिमतेऽपि सृज्य-मानजीवादृष्टरूपसहकारेणैवतत्तत्कार्य्योत्पत्तिरिति ईश्वरशब्दे वक्ष्यते। मनोधर्म्मत्ववादिमते मनसस्त्रिगुणात्म-कत्वेऽपि रजसएव तत्कारणत्वम्
“काम एष क्रोध एषरजोगुणसमुद्भवः” गोतायां कामस्य रजोगुणकार्य्यत्वोक्तेः। ततश्च बुद्धेस्त्रिगुणात्मकत्वेन{??} रजःकार्य्यकामस्य[Page0918-b+ 38] तद्गुणत्वमेवोचितम्। अतएव इच्छाशक्तिक्रियाशक्ति-ज्ञानशक्तिस्वरूपिणीत्यादौ प्रकृतेरिच्छाशक्त्यादिरूपत्वकथन-मपि सङ्गच्छते शक्तिशक्तिमतोरभेदात् प्रकृतिशक्तित्वाच्चतस्या बुद्धिगुणत्वमवगम्यते। अतएव
“या देवी सर्व्वभूतेषु इच्छारूपेणसंस्थिता” देवोमा॰ सर्व्वभूतेषु इच्छा-रूपेण प्रकृतिस्थितिरक्ता( ईश्वरोपाधिमायाया इच्छादिमत्त्वेनैवेश्वरस्य तद्वत्त्वंरत्नत्रयपरीक्षायामुक्तं यथा
“नित्यं निर्दोषगन्धं निरतिशयसुखं ब्रह्म चैतन्यमेकं धर्म्मोधर्म्मीति भेदद्वितयमपि पृथ-ग्भूय मायावशैन। धर्म्मस्तत्रानुभूतिः सकलविषयिणी सर्व-कार्य्यानुकूला शक्तिश्चेच्छादिरूपा भवति गुणगुणस्त्वाश्रय-स्त्वेक एव। कर्त्तृत्वं तत्र धर्म्मी कलयति जगतां पञ्च-सृष्ट्यादिकृत्ये धर्म्मः पुंरूपमाप्त्वा सकलजगदुपदानभावंबिभर्त्ति। स्त्रीरूपं प्राप्य दिव्या भवति च महिषी स्वाश्न-यस्यादिकर्त्तुः, प्रोक्तौ धर्म्मप्रभेदावपि निगमविदा धर्म्मि-वत् ब्रह्मकोटी” इति तथा च एकमेव ब्रह्मानादिसिद्धयामायया कर्म्मी धर्म्मश्चेति द्विविधमभूदित्यर्थः। तन्त्रोक्तेकालिकायाः

२ पीठशक्तिभेदे।
“इच्छाज्ञानक्रियाश्चैवकामिनी कामदायिनी। रतीरतिप्रिया नन्दा मघ्ये चैवमनोन्मनी” तन्त्रसा॰ कालिकापीठशक्ति कथने।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इच्छा¦ f. (-च्छा) Wish, desire. E. इष् to desire, affixes श and टाप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इच्छा [icchā], [इष् भावे श]

Wish, desire, inclination of mind, will; इच्छया according to one's desire, at will.

Willingness.

(In Math.) A question or problem.

(In gram.) The form of the Desiderative.-Comp. -दानम् fulfilment of a wish. -निवृत्तिः f. suppression of desire, indifference to worldly desires.-फलम् the solution of a question or problem. -रतम् desired sports, favourite pastimes; नीता रात्रिः क्षणमिव मया सार्धमिच्छारतैर्या Me.89. -रूपम् Desire (personified).

The first manifestation of divine power. -वसु a. 'possessing wealth according to wish', epithet of Kubera. -संपद् f. fulfilment of one's wishes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इच्छा f. wish , desire , inclination , K.: Mn. Ya1jn5. Pan5cat. Ragh. etc.

इच्छा f. (in math. ) a question or problem

इच्छा f. (in gram.) the desiderative form APra1t.

"https://sa.wiktionary.org/w/index.php?title=इच्छा&oldid=491719" इत्यस्माद् प्रतिप्राप्तम्