इभ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इभः, पुं, स्त्री, (एति गच्छतीति । इण भन् । औ- णादिकोऽयं प्रत्ययः ।) हस्ती । (“खराश्वोष्ट्रमृगेमानामजाविकबधन्तथा” । इति मनुः । ११ । ६८ । यथा, उत्तरचरिते । “इभदलितविकीर्णग्रन्थिनिष्यन्दगन्धः” ।) उत्तरपदे श्रेष्ठवाचकः । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इभ पुं।

हस्तिः

समानार्थक:दन्तिन्,दन्तावल,हस्तिन्,द्विरद,अनेकप,द्विप,मतङ्गज,गज,नाग,कुञ्जर,वारण,करिन्,इभ,स्तम्बेरम,पद्मिन्,गज,करेणु,पीलु

2।8।35।1।1

इभः स्तम्बेरमः पद्मी यूथनाथस्तु यूथपः। मदोत्कटो मदकलः कलभः करिशावकः॥

अवयव : गजगण्डः,मदजलम्,गजमस्तकौ,गजललाटम्,गजनेत्रगोलकम्,गजापाङ्गदेशः,गजकर्णमूलम्,गजकुम्भाधोभागः,वाहित्थाधोभागदन्तमध्यम्,गजस्कन्धदेशः,गजमुखादिस्थबिन्दुसमूहः,गजपार्श्वभागः,अग्रभागः,गजजङ्घापूर्वभागः,गजजङ्घापरोभागः,हस्तिगर्जनम्,करिहस्तः,इभदन्तः

पत्नी : हस्तिनी

स्वामी : हस्तिपकः

सम्बन्धि2 : गजतोदनदण्डः,गजबन्धनस्तम्भः,गजशृङ्खला,गजाङ्कुशः,गजमध्यबन्धनचर्मरज्जुः,गजसज्जीकरणम्,गजपृष्टवर्ती_चित्रकम्बलः,गजबन्धनशाला,हस्तिपकः

वैशिष्ट्यवत् : मदजलम्

जन्य : करिपोतः

वृत्तिवान् : हस्तिपकः

 : इन्द्रहस्तिः, पूर्वदिग्गजः, आग्नेयदिग्गजः, दक्षिणदिग्गजः, नैरृतदिग्गजः, पश्चिमदिग्गजः, वायव्यदिग्गजः, उत्तरदिग्गजः, ईशानदिग्गजः, यूथमुख्यहस्तिः, अन्तर्मदहस्तिः, करिपोतः, मत्तगजः, गतमतगजः, हस्तिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इभ¦ पु॰ इण्--भ किच्च।

१ हस्तिनि,
“वन्येभदानाविलगन्ध-दुर्द्धराः माघः

२ तत्संख्यातुल्यसंख्याके अष्टलंख्यान्वितेच। गजाहि अष्टसु दिक्षु ख्यिता ऐरावतादयोऽष्टौवर्त्तन्ते इति तेषामष्टत्वम्। ते च
“ऐरावतः पुण्डरीकःवामनः कुमुदोऽञ्जनः। पुष्पवन्तः सार्व्वभौमः सुप्रतीकश्चदिग्गजाः” अमरोक्तक्रमेण पूर्व्वादीशानान्तदिक्षु स्थिताः। अस्य च उत्तरपदस्थत्वे श्रेष्ठार्थद्योतकता व्याघ्रादेराकृतिगणत्वात् उपमितसमासः। स्त्रियां ङीप्। जातित्वात्पोटाशब्देन समासेऽस्य पूर्बनिपातः पुंवद्भावश्च इभपोरा( इभलक्षणविभागादि वृह॰ सं॰
“मध्वाभदन्ताः सुविभ-क्तदेहा न चोपदिग्धाश्च कृशाः क्षमाश्च। गात्रैः समेश्चाप-समानवंशा वराहतुल्यैर्जघनैश्च भद्राः॥ वक्षोऽथ कक्षावलयःश्लथाश्च लम्बोदरं त्वग्वृहती गलश्च। स्थूला च कुक्षिःसह पेचकेन सैंही च दृङ्मन्दमतङ्गजस्य॥ मृगास्तुह्रस्वाधरवालमेढ्रास्तन्वङिघ्रकण्ठद्विजहस्तकर्णाः। स्थूलेक्ष-णाश्चेति यथोक्तचिह्नैः सङ्कीर्णनागा व्यतिमिश्रचिह्नाः॥ पञ्चोन्नतिः सप्त मृगस्य दैर्घ्यमष्टौ च हस्ताःपरिणाहमानम्। एकद्विवृद्धावथ मन्दभद्रौ सङ्कीर्णनागोऽनियतप्रमाणः॥ भद्रस्य वर्णो हरितो मदस्य मन्दस्यहारिद्रकसन्निकाशः। कृष्णो मदश्चाभिहितो मृगस्यसङ्कीर्णनागस्य मदो विमिश्रः॥ ताम्रौष्ठतालुव-दनाः कलविङ्कनेत्राः स्निग्धोन्नताग्रदशनाः पृथुलाय-तास्याः। चापोन्नतायतनिगूढनिमग्नवंशास्तन्वेकरोमचित-कूर्मसमानकुम्भाः। विस्तीर्णकर्णहनुनाभिललाटगुह्याःकूर्मोन्नतैर्द्विनवविंशतिभिर्नखैश्च। रेखात्रयोपचितवृत्तकराःसुबालाः धन्याः सुगन्धिमदपुष्करमारुताश्च। दोघोङ्गु-[Page0960-a+ 38] लिरक्तपुष्कराः सजलाम्भोदनिनादवृंहिणः। वृहदायत-वृत्तकन्धरा धन्या भूमिपतेर्मतङ्गजाः। निर्मदाभ्यधिक-हीननखाङ्गान् कुब्जवामनकमेषविषाणान्। दृश्यकोशफल-पुष्करहीनान् श्यावनील शवलासिततालून्। स्वल्पवक्त्र-रुहमत्कुणषण्ढान् हस्तिनीं च गजलक्षणयुक्ताम्। ग-र्भिणीं च नृपतिः परदेशं प्रापयेदतिविरूपफलास्ते”। ( हेमा॰ षरि॰ ख॰ लक्षणसमुच्चये विष्णुध॰।
“नागाः प्रशस्ताधर्म्मज्ञ! प्रमाणादधिकाश्च ये। दीर्घहस्ता महोच्छ्राया-ऽवामनाश्च विशेषतः। निगूढवंशामध्वक्षा व्यूढा व्यूढोच्चमस्ताकाः” (व्यूढा विपुलाः)
“विंशत्यष्टादशनखाः। शीतका-लमदाश्च ये। ते प्रशस्तामहानागाः ये तथा सप्तसूच्छ्रिताः। दन्तच्छदेषु दृश्येत येषां स्वस्तिकलक्षणम्। भृङ्गारबालव्य-जना वर्द्धमानाङ्कुशास्तथा। धार्य्या नैते तथा धार्या वामनाये च मत्कुणाः। हस्तिन्योयाश्च गर्भिण्योये च भूढा मतङ्गजाः। अपाकलाश्च कुब्जाश्च सद्दन्ताएव भार्गव!। कुदन्ताश्च तथा वर्ज्या वामकूटाश्च यत्नतः। अश्रु-स्मृशश्च कूटाश्च ये षण्ढा विकटाश्च ये”। राम उवाक्षवामनाद्याश्च ये नागाः प्रोक्तानिन्दितनक्षणाः। तेषां तुश्रोतुमिच्छामि लक्षणं वरुणात्मज!। पुष्कर उवाच। आनाहायामसंपूर्ण्णोयोऽधिह्रस्वो भवेद्गजः। वामनः ससमाख्यातोमत्कुणोदन्तवर्जितः। (आनाहःस्थूलता) (आ-यामो देर्घ्यम्) दशां चतुर्थी संप्राप्य वर्द्धेते यस्य न द्विजौ। स्थूणाघनायतौ स्यातां स मूढो हि गजोऽधमः। अपा-कलो विशालेन दन्तेनैकेन वारणः। संक्षिप्तवक्षोजघनः पृष्ठमध्यसमुन्नतः। प्रमाणहीननाभिश्च स कुब्जोवा-रणाधमः। अनुन्नताभ्यां सद्दन्तः कुदन्तःस्यात्ततो बहिः। (बहिर्दन्तसीमनि)। वामदन्तोन्नतो नागो वामकू-टश्च कथ्यते। दन्तावश्रुस्पृशौ यस्य सोऽश्रुस्पृगिति को-र्तितः। एकदन्तस्तथा नागः कूट इत्यभिधीयते। पादयोःसन्निकर्षः स्यात् यस्य नागस्य गच्छतः। स षण्डोऽध्वनि युद्वेच लक्षण ज्ञैर्न पूजितः। अरत्न्यभ्यधिकं यस्य विस्तरेण-स्तनान्तरम्। विकटः सविनिर्दिष्टो दुर्गतिर्निन्दितोगजः। राम उवाच। श्रोतुमिच्छाम्यहम् देव! कुञ्जरंसप्तसूच्छ्रितम्। यं प्राप्य किल राजानोजयन्ति वर्सुर्धा नृपाः। पुष्करउवाच। वर्चः सत्वम्बलं रूपङ्कान्तिःसहननञ्जवः। सप्तैतानिसदा यस्य स गजः सप्तसूच्छ्रितः। ये वामवद्दक्षिणपार्श्व-भागेनाप्लातुकामाःपिटकोत्थयापि। ते नागसुख्या विजयाययुद्धे भवन्ति राज्ञां न हि संशयोऽत्र” तत्रैव पराशर-[Page0960-b+ 38] संहिता।
“हस्तिनां जातिदेशवर्णाकृतिप्रमाणचेष्टादि-लक्षणमनुव्याख्यास्यामः। तत्र जातयश्चतस्रो मवन्ति। भद्रा मन्दा मृगा मिश्राश्चेति तत्परिज्ञानमाकृतिचेष्टा-दिभिरुपदिश्यते। तत्र भद्र जातिश्चारुदृष्ट्यायतमुखोव्यूढो-च्चमस्तकः उदग्रसत्वोऽनुवृत्तकरः श्रोता दोर्घपुष्क-राङ्गुलिबालधिः महामन्योरोमशग्रीवः। स्थूलमेढ्रोदर-ताम्रतालुजिह्वौष्ठः सुपार्श्वः स्निग्धः सवर्ण्णमृदुरोमाकूर्म्मपादः स्तध्वस्थितिश्चितांसः पृथ्वासनः सूक्ष्मविन्दु-चित्रोबह्वनुरोमोपचितश्रोत्रःसुनखो धनुःपृष्ठवंशो मधु-वर्णतालुर्यूथाभिरक्षिता सहिष्णुरन्वर्थवेदी बलवान् कामा-तुरोवृक्षावमर्दी मृदुनोपायेन साध्य आशूपदे शग्राही चभवति”। (उदग्रो उच्चः अनुवृत्तकरः अनुक्रमेण वृत्तकरःपुष्करः कराग्रं मन्या धमनी अन्वर्थवेदी अग्रे वक्ष्यते)। मन्दजातिः संकेताभिज्ञः सुह्रस्वो महोदरकरश्रोताःस्थूलदन्तस्ततपृष्टवंशः स्थूलहस्तजिह्वांसग्रीवः, पृथुह-स्तमस्तकः सुविभक्तोरःशिराःसुमृदुवृत्तश्रोत्रः स्थूलास्थि-करकवापीविलपादः सूक्ष्मनाभिस्तनुताम्रत्वक्कर्णकटःदीर्घोच्चमेढ्राङ्गुलिर्बालबालधिर्मुष्करन्ध्रकक्षवरणोपदिग्धोह-र्य्यक्षः सुबद्धजघनः सवृत्तोरक्तोगम्भीरवेदी मन्दजातिःजातशङ्कोदृढमन्मथस्तीक्ष्णसाध्योयूथानुगाभी ग्रहणगतोपिनारिभयमाविशति। (गम्भीरवेदी वक्ष्यते उपदिग्धो लिप्तः)मृगजातीयः पुनर्ह्रस्वपुष्करोच्चहनुहस्तबाह्यमेहनसुद-न्तनखपृथुवंशग्नीवास्योदरमेढ्रतनुर्विशालनेत्रस्तथावृत्ततनु-श्रोत्रः कुण्ठोष्ठो घनायताग्रकायः संक्षिप्तकरालोन्यस्तमस्तकोदीर्घजिह्वोविषाणोपनीतः शीघ्रोबह्वशनोभार-साहो मनस्वी दुर्दमः स्वयूथपर्य्यन्तानुचारी भिन्नपुरीषोऽ-तिक्रमणवेदी क्लेशासहः क्रन्दनश्चेति। मिश्रास्तु तेषांपरस्परसंयोगजाः सर्वसंकुललक्षणा इति। भद्रा श्रेष्ठाभव-न्त्यासां मन्दा मध्या कनीयसी। मृगा मिश्राऽधिकै र्ज्ञेयागुणदोषैः समासतः। अथ वनभेदेन गजनेदाः। अथैषांप्राच्यकारूषदशार्णमार्गणेयककालिङ्ककापरान्तिकसौराष्ट्रपञ्चनदाख्यान्यष्टौ वनानि वासस्थानानि तेषां पृथक्पृत्यक् कर्म्मलक्षणमुपदेक्ष्यामः तत्र हिमवद्गङ्गा-प्रयागलौहत्यान्तरे प्राच्यवनमत्रोत्पन्नाः कपिलाः अव्यग्राःकुनखपार्ष्णयोवारणाश्चलपृथुपेचकवंशपिण्डकाः पृथुहस्ता-मन्दवेगारूक्षाश्चपलाकृतयो भवन्ति। (पेचकः पुच्छभू-लम्) मेकलो मत्स्यो गङ्गावतारश्चेति कारूकाख्यवन-मत्रोत्पन्नाः श्यामाश्चण्डाः सुचरणाह्रस्वानात्या-[Page0961-a+ 38] यताः शीघ्रोदग्रावृहद्भिरुद्दामैर्द्दन्तैर्द्दन्तिनो भवन्ति। महागिरिदशार्णविन्ध्याटवीरावतीनां मध्ये दशार्णंवनमभिख्यातमत्र दीर्घाङ्गुलिपुष्कराः पाद्मभाः श्यामावा दुर्ग्रहाः सुवृत्तजघनाग्राः सितसूक्ष्मविन्दुचित्रा-श्चूतफलतुल्यमद गन्धिनोविशालोत्सङ्गदन्ताः स्थूलह-स्तास्यशिराग्रीवा मध्वक्षाः स्वासनाःसत्ववन्तश्च। पारि-पात्रवैदिशब्रह्मावर्त्तवनानामन्तर्मार्गणेयकं वनमत्रोदग्नाःशीघ्रदीर्घक्रमेणोपदिग्धाङ्गाः बलवन्तोऽभिजाताः सुप्र-माणाः मध्वक्षामृदुत्वचः कचाविलप्राया अल्पपेच-काहरिश्यावाखण्डच्छन्नाः सुहस्ताः स्निग्धरोमाणःस्थिराः सुशरीराः कुरेणूनामधिपतयः स्वल्पतापाश्च। विपुलसह्यदक्षिणारण्योत्कलानां मध्ये कालिङ्गकं वन-मत्र कलविङ्काक्षाः सर्व्वश्वेताः स्थिरपदाः शीघ्राःमृद्वरुणरीमाणस्तनुत्वगुदरादीर्घकेशबालधयो दीर्घ-क्रमाः बलवन्तोऽल्पपेचकाः पद्मप्रभा यातुरुदग्ना धनुः-पृष्ठवंशारक्ततालुजिह्वौष्ठाः सुप्रयोगग्रहसुखाःवराहज-धनाः नीचवृत्तनखाःस्थिरचरणाः आशुसुवेदिनोमधुद-शनाः पीतह्रस्वशिरोधराः महोरगवृहत्कराः मृदु-दीर्घहस्ताहस्तिनो भवन्ति। नर्म्मदोदधिसेवदेशान्तो-पहारणामन्तरतोऽपरान्तिकं वनमत्र मानिनो धीराःश्यामाःसप्तप्रतिष्ठिताः दृश्यजघनशिरोधरा पीनायतविषा-णाः स्वास्यका मृदुत्वच उदग्रादीर्घरक्तताल्वोष्ठजिह्वा-महोत्सङ्गाः पद्ममदगन्धिनो धनुःपृष्ठवंशाविवृत्तास्या-नान्यवनविचारिणः। द्वारकार्बुदावर्त्तनर्मदान्तरतः सौ-राष्ट्रकं वनमत्राल्पायुषश्चण्डाः पिङ्गायताक्षाः मध्या-यताङ्घ्रयोऽल्पपेचका मृदुविभक्तमात्राप्रतिलोमलोमशचररणास्तनुत्वक्कर्णनखाः सूक्ष्मदन्ताः शिक्षात्यज इति। हिमवत्सिन्धुकुरुजाङ्गलकानामभ्यन्तरे वनं पञ्चनदाख्यंतत्र स्फुटितरूक्षश्वेतांशुदन्तास्तनुविन्दूपचितकराःसुगन्धयोगृदवोमहापेचकदेशाङ्गप्रमाणाःसूक्ष्मवृहत्त्वचोदु-र्विनेयाध्यानशीलाः कवलतृषो भवन्त्यपि। वनेष्वेतेषुजायन्ते प्रधानामध्यमोत्तमाः। प्रशस्ता निन्दिताश्चापि तेषांवक्ष्यामि लक्षणम्। नम्रजतुकाष्ठसङ्काशं ह्रस्वमल्पाङ्गु-घपुष्रं दुर्गन्धं कर्कशत्वग्रोमाणमाततस्तव्यस्थूलविरलप-र्वाणं हस्तिनो हस्तमध्यन्यविघातधन्यं पीतं मृदुरोमा-णमनुपूर्वपतितं चारुदीर्घाङ्गुलिपोनं पृथुपुष्करंमृदुवलि-नम्। सुगन्धिवृत्तं पञ्चहस्तायतं द्विरक्तं वृहत्च्छ्रोतोग्रो-वुकाश च। कक्षस्फुटिताह्रस्वमलिनविषमचक्रखण्ड-[Page0961-b+ 38] सूक्ष्मदन्तावपूजितौ पूजितौ च स्निग्धश्लक्ष्णप्रदक्षिणोन्न-तामलिनसममाहितौ मधुसवर्ण्णौ मुकुलिताग्रावावाधमन्या-यातावष्टादशाङ्गुलपरिणाहौ। अथ विरूपविषमे वराह-नकुलध्वाङ्क्षवानराभे रूक्ष्मविच्छिन्नेक्षणे सन्निमीलितेलोचने न पूजिते पूजिते च कलविङ्काभसूर्य्यमणिवह्नितुल्ये स्वनुपहिते च। प्रशस्तं समाहितमायतपृथुबाहित्यमवस्थितरक्ततालुजिह्वौष्ठचारुसूक्ष्मश्लक्ष्णविन्दूप-चितं सर्व्वसंपूर्ण्णम्। मृदुमृदुनिर्याणपीडितपुष्करंविषममासनात् षडङ्गुलावाग्बन्धनाभावेन नतकुम्भल-म्बम्बेनातिरिक्त प्रमाणं घण्टाघनपिङ्ग रूक्षास्थूलद्वन्द्वरोमोपचितमपूजितं शिरोवारणानां पूजितं महो-दयस्थानमुपवितसप्तकमनिम्नखरनिर्याणं पृथुपुष्करं स्नि-ग्धमृदुसूक्ष्णयुग्नरोमसुविभक्तोष्णीषवितानावग्राहं वाह्रस्वीत्क्रुष्टोपक्रष्टौ वृत्तौ स्तब्धौ तनुविषमसिराततौपीडितान्तावतिरुद्धप्रमाणौ संवृतच्छिद्रौ सान्द्रमृदुसु-प्रमाणसिरालावपाठितपुटसंविपुलमूलिकौ, पृष्ठच्छिद्रौदुन्दुभिस्वनौ वा। क्लेशावहाच्छिद्रातिदीर्घानुपचित-पीडिका सुमुहती पृष्ठालम्बनात्युद्गतायतास्थानावपीडिताग्रीवा वारणस्याप्रशस्ता शस्ता तु प्रह्वोपरि पिण्डिकादृढारक्षी त्रि बलिः सास्नारत्निपरीणाहा द्वादशाङ्गुलायतासर्वसम्पूर्ण्णा वा। विषममवाग्रं संक्षिप्तलम्वं संपुटमा-नसं विगर्हितं स्थिरं च विनतमत्युद्गतं वक्तं पृष्ठवंशय-शोभनम्। शोभनमुपचितसूक्ष्मं धनुःप्रमाणमेवं संस्थानंविद्यात्। अथ पूर्व्वगात्रञ्छिद्रोन्नतांसं विकलितहस्तयो-र्वृत्तं सिरालम्भनं स्तब्धव्याधिद्वन्द्वोहनिर्लग्नं विषमक-चाबिलम् प्रमाणहीनमनिष्टम् इष्टमनुपूर्णोपचितंस्थिरविमक्ताजिलसत्कीटमनुपविम्बमुखमच्छिद्ररन्ध्रोपचितम-थोरक्तं वा। अथ जघनं घनमुच्छ्रितास्थि निर्मांसपेचकंकलाहीनातिरिक्तप्रमाणं बालध्यनुयायि समनर्थकरम्। अर्थकरमत्पपेचकं पलोपचितमदृश्यशुष्कस्पष्टचतुरस्रमाय-ताग्नं चारुबालधिपरिपूर्ण्णाण्डकोषायततया नासिरा-लपल्लवाकारमेहनमजयनञ्जयनं च श्यावाल्परूक्षस्फुटित-नखश्लिष्टसन्धि, परुषासारतलसहा न पूजिताः पादाःअन्ये भवन्त्यपि च। विंशत्यष्टादशनखाः स्थिराः कूर्मस-माहिताः। गजानां पूजिताः पादा ये च स्युर्विकचाविलाः। पादाः कचाविला रुक्षविबर्ण्णाः परुषाः कृशाः। वार-णानान्न शस्ताः स्युर्ये वा स्निग्धतनूरुहाः। सूक्ष्मबिन्दुचितां स्निग्धां त्वचं शंसन्ति दन्तिनाम्। आस्यस्पृशौ[Page0962-a+ 38] विशालस्य विषाणौ पार्श्वौन्नतौ। उपाहतो विशालेनदन्तैकेन वारणः। अनुन्नताभ्यां संपन्नःकुदन्तः स्यान्न-तावधिः। ऊर्द्ध्वं वक्त्रान्तरालस्य प्रतिमानसमौ द्विजौ। ह्रष्वस्थूलातिदीर्घेण दन्तेनैकेन वा गुणाः। वर्ज्यास्ते शुभकामेन सर्व्व एवातिगर्हिताः। अव्दद्वये नदीजानां पञ्चमे-ऽव्दे वनौकसाम्। दन्तमूलपरीणाहान् द्विगुणान्कल्पयेत्परे। शरशक्तिधनुश्चक्रशूलपट्टिसलक्षणाः। दन्ताग्रराजयोयस्य स नृपं वोढुमर्हति। रोम्णां तु संश्रयो यश्चपिटक स उदाहृतः। सं ज्येष्ठः सप्तभागोनोमध्यभोऽसौमतङ्गजः। अन्त्यः षड्डागहीनः स्यादतोऽन्योहि न पूजितः। सुखाय पेचके दैघ्यं पृष्ठपार्श्वोदरान्तरम्। आनाहौच्छ्रयपादाद्विज्ञेयो यावदासनम्”। वनविशेषेण गजलक्षणं त-त्रैव वार्हस्यत्यसंहिता।
“वनानां मध्ये प्राच्यं कालिङ्गकमापरान्तिकं च त्रीणि वनान्यतिशोभनानि। त्रया-णमपि प्राच्यं वनं मध्यवनमपरेषामिव शोभनम्। तत्रैरावतकुलप्रसूतिसम्भवाः प्रायेण मृगमिश्रभद्रणक्षणाः महाकायाः करिणो भवन्ति। विनयसत्व-शक्तिसम्पन्नाःपूगफलप्रभास्ताम्रत्विषः प्रविरलमदा गजायुद्धेचापसर्पणोपसर्वणनीरवा भवन्ति नातिक्रोधनाःसमुद्वेजिताः सत्वं दर्शयन्ति। ते च वृक्षैः कवलैः कायो-पवघातातिशयेन मदाभिमुखाः कर्त्तृव्याः। कालिङ्गकेवापरान्तिके च त्रेतायुगोत्पन्नाः मन्दा महागजा-न्वयजा मन्दाभिधानाः प्रायशो मृगावयवाः सङ्कीर्ण्णा-गजाः समुत्पद्यन्ते। नात्युदग्रा जलदघ्रभा नातिस्थिरामन्दा युद्धप्रियाश्च गजा भवन्ति। तथा कारूषदाशार्णमा-र्गणेयकाभिधानेषु मध्यमा गजाः समुत्पद्यन्ते मृग-मन्दजातयः ते च चार्बवयवाः मध्यमबलामध्यमप्रमाणाः स्थूलरोमाबिलशरीरास्तनुरदा मन्दगतयः। तथा सौराष्ट्रे पाञ्चनदाभिधाने द्वापरयुगोत्पन्ना मृगमत-ङ्गजान्वया मृगप्राया गजाभवन्ति भीरवः कुत्सिताङ्गाःनातिचण्डादुर्मदाः दुर्वृत्ताश्च एवंविधागजाः समु-त्पद्यन्ते वनाच्च वनान्तरे गतेषुदुर्वृत्तेषु गजेषु धेनुकासम्प-र्केण गुप्तवनेऽपि कालिङ्गकेऽपि। त्रासशीलश्च भीरुश्व ह्रस्ववामनमस्तकः। हीनाग्रभोगो दुःशीलस्त्वसंहतशरीर-भृत्। समुच्छ्रितस्त्वनायामी परीणाहविवर्जितः। मृगस्वरूपोदीनश्च मृगजातिर्गजाधमः। अतः परंप्रवक्ष्यामि संर्कीण्णस्य च लक्षणम्। पशुत्वाद्वारणानाञ्चगच्छतां च वियोनिषु। धेनुकासु भवन्त्येते गजा सं-[Page0962-b+ 38] कीर्ण्णलक्षणाः। मद्रोमन्दोमृगोवाथ शुद्धजातिः प्रजायते। तस्मान्मिश्राणि रूपाणि गदतोमे निबोधत। आनन्त्यान्मि-श्रजातानां निश्चयोनोपपद्यते। तथापि किञ्चिदु-द्वेशाम्निश्रलक्षणमुच्यते। भद्रमन्दो भद्रमृगो भद्रमन्दमृगस्तथा। इह भेदत्रयं मन्दमृगयोरपि जायते। भद्रादीनां च सर्वेषां रूपं संकीर्ण्णसंज्ञितम्। ऊर्द्ध्वाघःकार्य्यभेदेन तज्जनिर्मिद्यते द्विधा। त्रिधा च भिद्यतेमूयएकैकन्तु यथाक्रमम्। एवमष्टादशविधं कीर्त्तितं मिश्रलक्ष-णम्। शुभाशुभं विमागेन साम्प्रतम् निगदाम्यहम्। भद्रमन्दोभवेदिष्टोमृगमन्दस्तथाधमः। भद्रमन्द मृगश्चैव मध्यमःपरिकीर्त्तितः। भद्रजाति र्महाकायोगजोमध्ये तु दन्तिनाम्। मन्दोऽवयवलेशेन स मुक्तो भवति द्विपः। मृगस्यापि हि रूपेणकिञ्चिच्चानुगतेन वै। अशुभत्वं न भद्रस्य जायते शोभनो-हि सः। लोचनानां प्रधानत्वं यस्माच्छास्त्रेषु कीर्त्ति-तम्। तस्मान्मृगाक्षिसंसक्तोभद्रोऽपि हि न शस्यते। भाद्रेणोपरिकायेन मान्देनाधोगतेन वा। उन्नतोहि गजा-नान्तु भद्रमन्दोभवेद्गजः। अनेनैव हि रूपेण विपर्य्यासेनयो गजः। सोऽपि शोभन एव स्यान्मन्दभद्रैति स्मृतः। एवंविधात् मृगे चापि लक्षणान्मिश्रलक्षणम्। महावयवबाहु-ल्यात् मृगरूपस्यलेशतः। भद्रावयवनिर्मुक्तोमध्यमोऽसौ गजोभवेत्” कायेन यो भवेद्भद्रो सन्दोवापि मतङ्गजः। मृगगा-त्रोऽपरश्चैव स भवेद्वेगवान् गजः। मृगरूपाधिकत्वं च दृश्यतेयस्य दन्तिनः। अधमस्तु स विज्ञेयः सत्वशक्तिविवर्जितः। करदन्ताक्षिकुम्भैश्च यो मृगोजायते गजः। शेषावयवभद्रो-ऽपि हीन एव भवेदसौ। एवमुद्देशमात्रेण मिश्रभेदामयोदिताः। नोदिता येऽपि तेऽत्रापि मिश्रा ज्ञेया मनी-षिभिः। मिश्रलक्षणसंयोग उक्तष्टं यस्य दृश्यते। रूपन्त-न्नामधेयोऽसौ जायते हि मतङ्गजः। अतः परम्प्रवक्ष्मामि-लक्षणं गिरिचारिणाम्। तथा नदी चराणां च तथैवोभमय-चारिणाम्। महाबला महाकायाश्चितांसा गिरिचारिणः। सुपाश्वाश्चारुदिग्धाङ्गादृढपादागतक्लमाः। उदग्रानिर्भया-श्चैव सल्लकीकवलप्रियाः। तटाघातविधौ भुग्नदन्तदारितभूतलाः। शार्दूलादिमहासत्वसंस्फोटातङ्कवर्जिताः। मदस्रावक्षतोत्साहादुर्दमावारिभीरवः। पांशुक्रीडारतानित्यं द्रुमोन्मूलनतत्पराः। विषाणवेष्टनाशीलाः खेष्ट-सन्तापनीरकाः। कराग्रस्फोटनिरता सीत्कारकरण-प्रियाः। अनुदग्राघनश्यामाः सीकरोद्गिरणप्रियाः। तोयकर्म्मणि निःशङ्कामतङ्गाश्च नदीचराः। उभयेषुचर-[Page0963-a+ 38] न्त्ये ते नदीपर्व्वतसानुषु। ये गजाहृष्ट मनसस्ते भवन्त्यतिशो-भनाः। सर्वेषामेव नागानां छायालक्षणमुत्तमम्। यद्यथाजायते यस्य तत्तयैवाभिधीयते। सत्वांशकत्वाद्भद्रस्य पा-टला भवति प्रमा। नवपल्लवसच्छाया स्निग्धा तनुतनूरुहा। तयातमोऽंशकचाच्च कृष्णा मन्दस्य जायते। तरुणाम्बुदसंकाशा स्थूलकृष्णकवाबिला। रजोऽंशकत्वाच्च तथामृगस्यापि हि धूसरा। मलिनाम्बुदसंकाशा रूक्षातनुतनूरुहाः। एवंछायाविशेषाः स्युर्भद्रादीनान्मयोदिताः। छाया संमिश्रभावाच्च मिश्रा भवति दन्तिनाम्। वनजाति-गुणैर्भद्रः गजश्रैष्ठो नरोत्तम!। तमोऽशकत्वं मन्दस्य यद्य-दुक्तं निबोध मे। दुर्मनस्त्वं तथालस्यं निद्रालुत्वं चमूढता। गम्भीरवेदिता चेति मन्दस्य तम उत्थितेः। एवंरजीगुणो राजन् मृगस्तेन रजोऽंशकः। धैर्थ्यं स्थैर्य्यंपटुत्वं च विनीतत्वं सुकर्मता। अन्वर्थवेदिता चैवभयस्थानेषु मूढता। सुभगत्वं च धीमत्त्वं सत्वस्यैते गुणाःस्मृताः। अतः सत्वांशकोराजन् भद्रजातिरुदाहृतः। चित्रत्वं बाहुशिरसोरन्तर्मणिगतं तथा। दन्तयोर्मधुवर्णत्वं नेत्रयोर्मधुपिङ्गता। आसनस्य पृथुत्वञ्च पूर्णताकुक्षिपार्श्वपोः। पृथुत्वं पृष्ठभागस्य घनत्वं समसन्धिता। स्निग्धच्छाया त्वथायामःपरिणाहोच्छ्रयौ तथा। सश्री-कत्वं गुरुत्वं च कायस्यैते गुणाः स्मृताः। सर्वलक्षणसं-पूर्णो दृश्यते न मतङ्गजः। प्रधानावयवे लोके यत्नःकार्यो मनीषिभिः। हीनं कृष्णं च कल्माषं पुष्करं न प्रश-स्यते। संपूर्णं मांसलं रक्तं सुकुमारं शुभं स्मृतम्। त्र्यङ्गुल-न्तुभवेद्धीनं हीनम्पतिविनाशनम्। कृष्णं भर्तुर्विघाताय-कल्माषं भर्तृरीगदम्। संपूर्णं सिद्धिदं भर्तुः पुष्कर चतुर-ङ्गुलम्॥ सौभाग्यदं मांसलन्तु सुकुमारं तथार्थदम्। रक्तपद्म-दलच्छायं तथा मिष्टान्नपानदम्। अतः परं शुभेज्ञेये श्रीत-सी पाटलोदरे। पञ्चाङ्गुलप्रमाणेन वर्तुलत्वेन चार्थदे। अवा-ङ्मुखंच ताम्रं च कर्णतालं सुखप्रदम्। ह्रस्वा स्थूला च वि-पुला चित्रिणी श्यामलोनिता। कुञ्चिता च तथा दृष्टिः स-प्तधादन्तिनां मता। तासां तु त्र्यङ्गुलायामा सा ह्रस्वेत्य-भिसंज्ञिता। ह्रस्वा करोति नृपतेर्विनाशं शीघ्रमेव हि। स्थूल दुर्भिक्षकरणी श्यामला नृपदुःखदा। करोति चित्रिणी-नित्यं तस्यैव तु वसुक्षयम्। भुग्ना दृष्टिर्विनाशाय राज्ञो-धनविनाशिनी। कुञ्चिताहीनयोश्चैव युद्वकाले रिपो-र्जयम्। अतः परं प्रवक्ष्यामि क्रमेण करलक्षणम्। न करं दीर्घमिच्छन्ति बालधेः शास्त्रपण्डिताः। न बाल-[Page0963-b+ 38] धिसमं हस्तं नातिदीर्घं क्रमायतम्। न तनुं नातिकायंच न रूक्षं न कृतव्रणम्। नाक्रमेण कृतोत्सेधं न हीनंदशनान्तरम्। न ह्रस्वाङ्गुलिसंयुक्तं नातिसंकटपुष्करम्। एतल्लक्षणसंयुक्तं करं शंसन्ति कोविदाः। बालधेः सुसमो-हीनः समोवा दन्तिदुःखदः। अतिदार्घोभवेद्भर्तुरायुषः क्ष-यकारकः। तनुर्व्याधिकरो यातुरतिकायोऽर्थनाशनः। रूक्षोव्याधिव्रणङ्कुर्य्याद्यातुर्व्रणकृतां व्यथाम्। प्रतिलोमेनच स्थूलोगजस्य सुस्वनाशनः। असमञ्जसहीनश्व असमञ्जसवर्तुलः। दुःखशोकभयायासकर्त्ता भवति नित्यशः। दश-नान्तरहीनश्च जायते दन्तिरीगकृत्। कथितं पूर्वमेवेषु पुष्-कराङ्गुलिलक्षणम्। अतो मया न कथितं साम्प्रतङ्करलक्षणे। निर्वलीकोदीर्घरोमा क्रमवृत्तत्वसंयुतः। अणुबिन्दुविचित्रश्चदैर्व्येण च शताङ्गुलः। बालधेः पुष्करं यावदायामोजात्यपेक्षया। अरत्नित्रयानाहश्च हीनहीनतरक्रमात्। युक्त-स्त्वनेन मानेन करः पूज्यतमो भवेत्॥ निर्बलीके च सौ-भाग्यन्दीर्घरोमार्थदः स्मृतः। क्रमवृत्तोजयं कुर्य्यादणु-बिन्दुयुतोधनम्। सुप्रमाणं भवेद्राज्ञः करस्य परिवर्द्धनः। आनाहबांश्च सततं राज्यस्फीतिकरोभवेत्। करस्य की-र्त्तितं ह्येतल्लक्षणं शुभसंज्ञितम्। अतःपरं प्रवक्ष्यामिलक्षणं दन्तबेष्टयोः। कचहीनावतिस्थूलौ विषमौ शिथिलौतथा। दन्तवेष्टौ सदा भर्तुः प्रमाणाभ्याससौख्यदौ। दन्तमूले सुसम्बद्वौ सकचौ किञ्चिदुन्नतौ। दृष्टौ सदा तथाभर्त्तुर्वृद्विदौ परिकीर्त्तिती। अतःपरं प्रवक्ष्यामि लक्ष्णन्तुविषाणयोः। व्यस्तता सङ्कटत्वं च प्रांशुता भस्मशुभ्रता। वक्रत्वं ह्रस्वता चैव धूसरत्वं च रूक्षता। मृदुताऽधो-गतित्वञ्च हीनता मूलमध्ययोः। प्रान्तयोः स्थूलता चैवदीर्घता चातिमात्रता। सर्पच्छत्रककान्तित्वं दोषाह्येते चतु-र्द्दश। दन्तयोस्तु समाख्याताः फलं तेषान्निबोध मे। व्यस्तौ च सङ्कटौ दन्तौ मदहानिकरौ तु तौ। दन्तिनस्तनु-तायुक्तौ व्याधिदौ परिकीर्त्तितौ। भस्मशुभ्रौ तथा भर्तु-र्महा क्लेशकरौ मतौ। वक्रौ चार्थविनाशाय ह्रस्वौ चपरिकीर्त्तितौ। धूसरौ रूक्षतायुक्तौ गजस्यायुर्विनाशनौ। मृदुत्वयुक्तौ नागस्य शल्यव्रणकरौ मतौ। स्थूलाग्राधोगतित्वे च भर्तुर्यातुश्च दुःखदे। अशुभं लक्षणं ह्येतद्दन्तयोःकथितं मया। शुभं च साम्प्रतम्बक्ष्ये यथावदनुपूर्वशः। स्निग्धौ समौ सुनिष्क्रान्तौ संपूर्ण्णौव्रणवर्जितौ। मुकुलाग्रौदृढौ वापि ताम्नचूडौ हलोपमौ। दक्षिणाभ्युन्नतौ किञ्चित्मृणालकुमुदप्रभौ। मुधकुन्ददलच्छायौ हेमचम्प्रक-[Page0964-a+ 38] पिञ्जरौ। मधुपिङ्गौ घृतच्छायौ पीपूषसदृशप्रभौ। केतकी-कुसुमाभौ च मृगाङ्ककिरणप्रभौ। अध्यर्द्ध्वारत्निमानौ चतदर्द्धानाहसंयुतौ। अमीमिर्लक्षणैर्युक्तौ दन्तौ नागस्यसम्मतौ। स्निग्धौ धनप्रदौ भर्तुरायुषश्च करौ मतौ। अरिघ्नौ तु सुनिष्क्रान्तौ संपूर्ण्णौ राज्यदौ मतौ। निर्व्रणौ राज्यलाभाय मुकुटाग्रौ जयप्रदौ। दृढौ रोगवि-नाशाय ताम्रवूडौ हलोपमौ। अरिसंघविनाशाय कीर्त्ति-तौशास्त्रपण्डितैः। दक्षिणाभ्युन्नतौ भर्त्तुः कीर्त्तितौ भाग्य-कारकौ। मृणालकुमुदच्छायौ सुभिक्षारोग्यकारकौ। हेम-चम्पकसङ्काशौ वज्रामरणदौ स्मृतौ। कुरुतो मधुपिङ्गौ चनिःसपत्नं महीतले। पशुलाभकरौ ज्ञेयौ घृतपीपूषसन्निभौ। केतकीकुसुमाभौ च भर्तुर्वंशविवर्द्धनौ। अध्यर्द्वारत्निकौ-दन्तौ सुतभृत्यजयप्रदौ। आनाहमानसंयुक्तौ सदास्फीति-करौ मतौ। इदं शुभकरं राजन्! दन्तयोर्लक्षणं मतम्। अतःपरं प्रवक्ष्यामि नेत्रयोरपि लक्षणम्। मार्जारनकुलक्रौ-ञ्चशाखामृगनिमेक्षणान्। सर्वदोषकरान् राजन्! गजान्दूरेण वर्जयेत्। स्निग्धे मधुनिभेदीप्ते कलविङ्काक्षिसन्निभे। रक्तपद्मदलच्छाये पद्मरागमणिप्रभे। निर्धूमाग्निशिखा-कारे इन्द्रनीलसमप्रभे। सौम्यदृष्टिसमायुक्ते त्र्यङ्गुले लो-चने शुभे। स्निग्धे वृद्धिकरे भर्त्तुर्मधुपिङ्गे जयप्रदे। दीप्तेदीप्तिकरे चैव प्रतापायतने तथा। कलविङ्गाक्षिरूपे चधनधान्यविवर्द्धने। चामीकरकरे नित्यं रक्तपद्मदलप्रभे। पद्मरागनिभेचैव रत्नालङ्कारकारके। निर्धूमाग्निशिखाकारेप्रतिपक्षभयङ्करे। मानयुक्ते च सौम्ये च लोचने बलवर्द्धने। अक्षिकूटकटोद्देशनिम्नौ राज्यविनाशनौ। संपूर्णौ चबलोत्साहमदवृद्विकरौ मतौ। दन्ताश्रयं भवेन्नित्यंतालुकं षोडशाङ्गुलम्। षडङ्गुलं पृथुत्वेन वंशगध्यगतं भवेत्। तथा शुभाशुभं चैव लक्षणज्ञैः प्रकी-र्त्तितम्। कृसरम्परिदग्धञ्च कृष्णंकल्माषमेववा। चतुर्विध-मनिष्टं स्याद्यथावदभिधीयते। कृष्णं मसीसमं ज्ञेयंक-ल्माषं कृष्णलोहितम्। मांसलं धूम्रवर्ण्णं च परिदग्धं प्रकीर्त्तितम्। कृसरञ्च तिलच्छायं कथितं शास्त्रवेदिभिः। गर्भस्थस्य यदा पित्तं वीयते तालुकं भृशम्। कृष्णतालुस्तदानागोजायते पापलक्षणः। व्याघिभिः पीद्ध्यते नित्यं वात-पित्तकफोद्भवैः। तृतीयां वा चतुथीं वा दशां प्राप्य विन-श्यति। संग्रामे वा पलायेत बहुशस्त्रकृतव्रण्णः। शस्त्रसङ्घातपूर्णाङ्गः कृतान्तभवनं व्रजेत्। वातपित्तकफा यस्यकुर्वन्ति तालुके गदम्। गर्भस्थस्यैव कल्माषतालुकं तस्य जा-[Page0964-b+ 38] यते कृष्णतालुनि ये दोषा रक्ते चैव गुणाः स्मृताः। कल्-माष तालुनस्तेतु भवन्ति च द्वयोरपि। रक्तच्छायं यदा वंशेपार्श्वयोस्त्वसितं भवेत्। तदा मध्यफलं ज्ञेयं गुणदोषसमाश्रयात्। यदा वंशे च कृष्णं स्यात्पार्श्वयोस्ताम्रताभवेत्। भर्त्तुरुद्वेगजनकं कल्माषं तालुकं तदा। किञ्चि-द्धीनं तु यत्तालु परिदग्धं तदा भवेत्। नागस्याधोरण-स्यापि बलक्षयकरं हि तत्। कृसरं च भवेत् तालु पित्त-कोपसमुद्भवम्। महामात्रविनाशाय वारणस्योपजा-यते। (महामात्रोहस्तिपकः) कृष्णतालोरपि यदा दक्षि-णावर्त्तनं भवेत्। दृश्यते नित्यमेवं हि तदासौ दोषवर्जितः। यथा गृह्णाति नो दोषान् सुलोकः मुसमाहितः। गुणान्करोति हृदये न तथा कथितानपि। दोषघ्नं लक्षणं शस्तंयदाचार्यैरुदाहृतम्। तत्तथैवावगन्तव्यं नान्यथात्रापिभाषितम्। एवं जिह्वापि मन्तव्या तालुनः समलक्षणा। अरत्निमात्रा दैर्घ्येण विस्तारेऽष्टाङ्गुला मता। अशुभं लक्षणंह्येतत्तालुकस्य मयोदितम्। शुभं च साम्प्रतं वक्ष्ये लक्षणंशृणुचानघ!। रक्तं श्वेतंकषायं च तालुकंस्यात् शुभप्रदम्। रक्तं वृद्धिकरं भर्तुस्तथा चायुर्विवर्द्धनम्। दन्तिनोऽ-शोकपुष्पाभं रिपुक्षयकरम्मतम्। श्वेतं पुष्टिकरं चापि वारणस्योपजायते। चम्पकाभं तथा भर्त्तुरारौग्यस्य विव-र्द्धनम्। कषायं सर्वदा ख्यात प्रयातुः सौख्यवर्द्धनम्। एवंजिह्वापि रक्ताभा सर्वसौख्यप्रदा मता। अतःपर प्रव-क्ष्यामि सृक्कण्याश्रित्य लक्षणम्। दन्तिनो मानहीने चसृक्कणी मानवर्जिते। (सृक्कणी ओष्ठसन्धी) मुखरीगकरेनित्यं पण्डितैः परिकीर्त्तिते। सर्वसौख्यप्रदे तस्यसंपूर्णे द्वादशाङ्गुले। अतःपरं व प्रवक्ष्यामि लक्षणंचिवु-कोष्ठयोः। अरोमशम्बलीयुक्तमाताम्रं च तथा लघु। गज-स्यौष्ठं न शंसन्ति मुनयो दन्तरोगदम्। दीर्घरोमा सुसंपूर्ण्णओष्ठः पद्मदलप्रभः। षोडशाङ्गुलानाहश्च हस्तार्द्धं वायतःशुभः। भर्तुरायुःकरोदीर्घो दीर्घरोमा च कीर्त्तितः। पूर्ण्णः पूरयते कोशं रक्तः सौभाग्यदोभवेत्। अरोमशंतथाहीनं चिबुकं न प्रशस्यते। तद्धि वारणनाथस्य मुखरो-गकरम्मतम्। चतुरङ्गुलमानन्तु स्थूलं रोमाविलं यत्तत्प्रशस्तं गजेन्द्राणां सुखालङ्खारकारकम्। निम्ने चविषमे चैव हीने चैवाशुभे मते। मदहानिकरे
“नित्यसगदे कर्णरोगदे। शश्वन्निनादयुक्ते च समे चैव सुखप्रदे। मानं च कर्णपाल्यास्तु मूलादारभ्य गृह्यते। बाहित्थावघिकुम्भं च हीनं निम्नं च गर्हितम्। मुखरोगकरं नित्य[Page0965-a+ 38] सत्यहानिकरं च तत्। पूर्ण्णं चैवोन्नतं सार्द्धहस्तमात्रायतंभवेत्। तद्धि वारणनाथस्य मुखरोगकरं मतम्। चतुरङ्गुग-मान तु स्थूलम् रोमाबिलञ्च यत्। तत् प्रशस्तं गजेन्द्राणांसुखालङ्कारकारकम्। अरत्निपरिणाहञ्च करिणां सत्वश-क्तिदम्। वामनं हस्तहीनञ्च परिणाहविवर्जितम्। अव्यक्तञ्च न शंसन्ति वातकुम्भं विपत्करम्। द्वादशाङ्गुल-विस्तारन्दैर्घ्येणाष्टादशाङ्गुलम्। व्यक्तंशुक्तिपुटाकारं तद्भ-र्तुर्लाभकारकम्। गर्त्ताकारे च निर्याणे कठिने चातिकु-त्सिते। शिरसोरोगजनने गजस्यारोहकस्य च। संपूर्णे सुकु-मारे च सुप्रशस्ते प्रकीर्त्तिते। राज्यवृद्धिकरे नित्यं भर्तुर्वि-जयकारके। इदमेव हि विज्ञेयं लक्षणं कटपार्श्वयोः। अतःपरं प्रवक्ष्यामि लक्षणं कुम्भयोरपि। विषमत्वमरो-मत्वं देहच्छायाविवर्णता। समता कण्ठपृष्ठाभ्यां समा-धिक्यमपूर्ण्णता। व्यक्तता वामनत्वं च परिणाहविही-नता। तनुभावः शिखरयोः कुम्भदोषा दश स्मृताः। भर्तु-श्चापत्करौ ज्ञेयौ विषमौ रोमवर्जितौ। देहच्छायावि-वर्णौ तु शत्रुलोकविवर्द्धनौ। कण्ठपृष्ठसमौ चैव प्रयातुःप्रविनाशनौ। मानाधिकौ च हीनौ च भर्तुरुच्छेदकारकौ। व्याप्तौ च वामनौ चैवभर्त्तुः कीर्त्तिविनाशनौ। परिणाहविहीनौ च कोशक्षयकरौ मतौ। शिखरस्य तनुत्वेन युक्तौकुम्भौ तु रोगदौ। अशुभं लक्षणं ह्येतत्साम्प्रतञ्च शुभंशृणु। समौ दीर्घकचाक्रान्तौ विस्तीर्णशिखरौ तथा। कर्णमूलात्समारभ्य हस्तार्द्वजमितोच्छ्रयौ। सुसंहतौ च पीनौच कामिनीकुचसन्निभौ। समाकान्तललाटौ च देहच्छायासमप्रभौ। आरोहकशरीरार्द्धदर्शनावरणक्षमौ। सश्रीकौच सुवृत्तौ च शुभौ कुम्भौ प्रकीर्त्तितौ। समौ च दीर्घ-रोमाणौ भर्तुः श्रीसौख्यकारकौ। समानौ रिपुनाशायतथैव च समुन्नतौ। सुसंहतौ च पीनौ च वरस्त्रीलाभका-रकौ। शत्रुनाशकरौ ज्ञेयौ कामिनीकुचसन्निभौ। समा-क्रान्तललाटौ च सुस्वदौ रोगनाशनौ। आरोहिस्थ-गितार्द्धौ च सश्रीकौ च जयप्रदौ। वृत्तौ च हस्तिनां कुम्भौपुष्पालङ्कारकारकौ। अतःपरं प्रवक्ष्यामि कर्णयोरपिलक्षणम्। निर्लोमशौ स्नसाकीर्ण्णौ तनुच्छिद्रौ तनुत्वचौ। (स्नसा सिरा) सङ्कटौ विषमौ रूक्षौ त्रु टिताग्रौ च निष्ठुरौ। स्तब्धौ च वर्तुलौ चैव कर्ण्णौ नागस्य निन्दितौ। फलञ्च सा-म्प्रतं वक्ष्ये यथावदनुपूर्वशः। निर्लोमशौ स्नसाकीर्ण्णौ गजस्यकर्णरोगदौ। निष्ठुरौ त्रुटिताग्रौ च यातुःकोशहरौ मतौ। स्तब्धौ च वर्तुलौ चैव गजस्यायुर्विनाशनौ। अतःपरं प्रव-[Page0965-b+ 38] क्ष्यामि शुभकर्णविनिश्चयम्। द्विरत्निमानसंयुक्तौ सिरा-जालविवर्जितौ। सप्तत्वचौ महाच्छिद्रौ स्निग्धौ दुन्दुभिनिस्वनौ। कपोलमण्डलास्फालात्ततशब्दौ मुहुर्मुहुः। कर्ण्णौ चामरसंकाशौ मृदुरोमकृतार्चनौ। अजर्जरमृदुप्रा-न्तावीषद्गुप्तावचूलिकौ। मयूरतालवृन्ताभौ सुविस्तीर्णसमौशुभौ। द्विरत्निमानसंयुक्तौ भर्तुरायुःकरौ मतौ। स्नसाजा-लविनिर्मुक्तौ शिरोरोगविनाशकौ। समत्वचौ महाच्छिद्रौगजलाभकरौ मतौ। स्निग्धौकान्तिकरौ नित्यं जयदौदुन्दुमिस्वनौ। शत्रुनाशकरौ प्रोक्तौ मृदुरोमीकृतता-र्च्चनौ। अजर्जरमृदुप्रान्तौ प्रयातुः सौख्यकारकौ। गजस्योपचयायैव ईषद्गुप्तावचूलिकौ। मयूरताल-वृन्ताभौ तुरङ्गबलवर्द्धनौ। सुविस्तीर्ण्णौ समौ भर्तुर्भूमिलामकरौ मतौ। कर्णयोस्तु समाख्यातं मयैतत्-शुभलक्षणम्। कण्ठस्य साम्प्रतं वक्ष्ये यथावदनुपूर्वशः। अवक्रोहीनो दीर्घश्च कण्ठश्च शुभदोभवेत्। आरोह-कप्रभूणाञ्च क्रमशः कुञ्जरस्य च। अवक्रः परिणाहेनसप्तषष्ट्यधिकं शतम्। अङ्गुलानां तथायामे द्वाद-शैवाङ्गुलानि तु। सम्पूर्ण्णपिण्डितोदग्रश्चान्तर्मणिविभू-षितः। कण्ठोवारणनाथस्य एवं भूतः सुपूजितः। ऋजुःप्रमोदजननः सम्पूर्णःकार्य्यसिद्धिदः। अह्रस्वोजय-कृद्भर्त्तुः कीर्त्तितः पूर्ण्णपिण्डकः। उदग्रोवंशवृद्धिं चप्रतापं कुरुते तथा। अन्तर्म्मंणिसमायुक्तोमणिरत्नप्रदोभवेत्। करालञ्चातिनिम्नं च आसनं न प्रशस्यते। करालं यातुरशुभं निम्नं च व्रणकारकम्। दैर्घ्येणहस्तमात्रं तु विस्तीर्णञ्च शुभं स्मृतम्। विस्तीर्णं विस्तृतंराज्यं सम्पूर्णं कुरुते जयम्। वंशस्याथ प्रवक्ष्यामि लक्षणंतु शुभाशुभम्। अत्युच्छ्रितोनिम्नपारः ह्रस्वो वंशोन-शस्यते। राज्ञां च पादरोगाणां कर्त्ता च स मवेत्सदा। षण्णवत्यङ्गुलायासमासनात्पश्चिमासनम्। यावत् प्रपूर्य्यतेपार्श्ववंशोऽश्वफलकाकृतिः। शुभो ज्ञेयो गजेन्द्राणामा-यामः कुरुते सुखम्। पूर्णपार्श्वस्तु लाभाय धनुःपृष्ठःश्रियं नयेत्। अरत्निद्वयमानं तु पेचकात्पश्चिमासनम्। घनास्थि विषमं निम्नङ्गहितं पुच्छरोगदम्। मांसोप-चयपूर्णं च विस्तीर्णञ्च शुभं मतम्। जघनोपरि रोगाणां-तद्धि नाशकरं मतम्। (पेचकात्पुच्छमूलात्)। पुच्छोगजस्यनो शस्तो बहुदीर्घोऽतिलम्बितः। करोति महतीं पीडां-राज्ञश्चाधोरणस्य च। द्व्यङ्गुलस्तु पृथुत्वेन दैर्घ्येणाष्टाद-शाङ्गुलः। संपूज्यः पेचकोज्ञेयो गजभर्त्तुः सुखप्रदः। [Page0966-a+ 38] वक्रं स्थूलञ्च ह्रस्वं च पुच्छं कचविवर्जितम्। समानाहंच नागस्य सर्व्वदोषकरं भवेत्। अवक्र ऋजुदीर्घश्च ग्रन्थि-हीनः सुपेचकः। गोपुच्छबालप्रतिमकचब्रातविभूषितः। भूमिंतु न स्पृशेत् यस्तु चतुर्भिश्चाङ्गुलैः सदा। स शुभो बाल-धिर्ज्ञेयो गजभर्त्तृसुखप्रदः। अतिप्रमाणं ह्रस्वं च कर्वूरंविगतप्रभम्। सिरालं चाशुभं मेढ्रं राजहस्तिपदुःखदम्। शस्तं षडङ्गुलायामं नाहतः षोडशाङ्गुलम्। सिरा-जालविनिर्मुक्तमाम्रपल्लवसप्रभम्। द्व्यङ्गुलं स्रोतसा युक्तंविन्दुमात्रविवर्जितम्। मेढ्रं प्रशस्तं विज्ञेयं भर्तुर्जीवित-वर्द्ध्वनम्। अतःपरं प्रवक्ष्यामि लक्षणं गात्रयीरपि। हीनेतनूच दीर्घे च सममांसोच्छ्रये तथा। विषमे च कचाक्रान्तेगात्रे नागस्य निन्दिते। हीने तनू च कुरुतः प्रयातु-र्विनिपातनम्। सममांसोच्छ्रये यातुर्विषमे च विपत्करे। कवाविले गजस्यैव गात्ररोगकरेतथा। अतःपरं प्रवक्ष्यामिमात्रयोः शुभलक्षणम्। सार्द्धद्विरत्निस्त्रिरत्निः शताङ्गुल-समानता। एवंमिते स्मृते गात्रे भर्तुरारोग्यसौख्यदे। समे च कचहीने च गजलाभकरे तथा। गजस्य पुष्टि-दे नित्यं मांसले च घने स्मृते। मात्रे वारणनाथस्य एवं-भूते शुभे मते। चिपिटे वा सफलके गात्ररोगकरे सदा। संपूर्णे राज्यदे भर्तुर्गजस्य वसुसुप्रदे। तथैव रोम-निहिते गजस्य गलोरगदे। अतःपरं प्रवक्ष्यामि नखा-नाञ्च शुभाशुभम्। हीनाःकृष्णाश्च खण्डाश्च रूक्षाश्चन नखाः शुभाः। सदा च रोगदा हीनाःकृष्णा भर्तृविना-शनाः। खण्डारूक्षागजस्यैव पादव्याधिविवर्द्धनाः। स्नि-ग्धाश्चन्द्रार्द्धसङ्काशा मानेनैव पुरोनखाः। सप्तादिपञ्चसंख्यानि अङ्गुलानि क्रमेण हि। एवं विधानखाः शस्ताभर्तुरारोग्यकारकाः। अतःपरं प्रवक्ष्यामि पादयोरपिलक्षणम्। हीनौ सुष्ठुतलौ रूक्षौ चरणौ दन्तिदुःखदौ। हस्तप्रमाणौ दैर्घ्येण कूर्माकारौ सुखप्रदौ। अतःपरंप्रवक्ष्यामि लक्षणञ्चापराश्रितम्। अत्युच्छ्रिते च हीने चनिन्दिते चापरे तनू। सम्पूर्ण्णेच शुभे ज्ञेयेत्र्यरत्न्यायामसंयुते। निन्दिते रोगदे ज्ञेये पूजिते प्रभुसौख्यदे। द्वादशा-ङ्गुल हीनं तु आसनात्पश्चिमासनम्। अपरपादयोश्चापिआयामोऽरत्निमात्रकः। नखानां च तथा मानं षडादि-चतुरङ्गुलम्। प्रधानावयवानान्तु लक्षणं कथितं यथा। उत्सेधायामनाहानां साम्प्रतं कथयाम्यहम्। समतन्तुस-मायुक्ततन्तुना वर्त्तितेन च। सुप्रशस्ते दिने नित्यं मानंकुर्वीत मानवित्। सप्तारत्नि गजेन्द्राणां प्रमाणं वनजन्मनाम्। [Page0966-b+ 38] आसनं यावदुत्सेधस्तलसन्धिसु कीर्त्तितः। पेचकात्प्रति-मानन्तु आयामोरत्नयो नव। मध्यदेशे तदानाहों दश-रत्निः प्रकीर्त्तितः मानमेतद्धि भद्रस्य मुनिभिःपरिप्रकी-र्त्तितम्। सप्तमेन तु भागेन हीनं मन्दस्य जायते। मन्दा-द्धीनं मृगाख्यस्य षड्भागेन प्रकीर्त्तितम्। एवं क्रमेणवक्तव्यं मानं मानविशारदैः। किञ्चिन्मानाधिके वापि नदोषः संप्रपद्यते। दोषाणां च गुणानाञ्च वृद्धिरेव फल-प्रदा। सत्वं हि वारणेन्द्राणां नित्यं तन्त्रेषु संस्थितम्। स्निग्धे मधुनिभे दीप्ते कलविङ्काक्षिसन्निभे। रक्तपद्मदल-च्छाये पद्मरागमणिप्रभे। नीलच्छाये अतीक्ष्णे च गजे सत्वंप्रतिष्ठितम्। माजारवानरादीनां सदृशे नोबलं गजे। हीनसत्वाश्च जायन्ते गिरिकूटोपमा अपि। अधिकंपुषकरंयस्य मांसलत्वेन जायते। प्रभयाच कषायं स्यान्मानेनाङ्गु-लपञ्चकम्। किञ्चिदूने च विज्ञेये श्रोतसी चतुरङ्गुले। स्थूलपञ्जाङ्गुलायामा त्र्यङ्गुला नाह मानता। हस्तोऽपि पूर्व-मानस्य स्थूलत्वेनाधिकोभवेत्। रोमशोनातिवृद्धश्च पृथुलःषड्भिरङ्गुलैः। आयामेन च हीनःस्यात् पूर्वमानात् षड-ङ्गुलैः। नातिगोपुच्छसंस्थानःकृष्णविन्दुविभूषितः। आ-नाहे रत्नि मानौ तु सार्द्धहस्तद्वयायतौ। पीयूषकुमुदच्छा-यौ किञ्चिच्चम्पकपिङ्गलौ। स्निग्धौ मुग्धतभावेव दन्तौनागस्य कीर्तितौ। दन्तावेष्टावतिस्थूलौ कचाक्रान्तौ सुनि-ष्ठुरौ। पञ्चाङ्गुलौ कटौ ज्ञेयौ मांसीपचयपूरितौ। ज्ञेये कटोपरि तथा श्रोतसी द्व्यङ्गुलान्तरे। एकाशीत्य-ङ्गुलानाहे द्वाविंशत्यङ्गुलायते। किञ्चिन्नतं कचाक्रान्तंवाहित्थं परिकीर्तितम्। पतिमानं तु विज्ञेयं हस्तःसचतुरङ्गुलः। अध्यर्द्धरत्निमानं च प्रमाणान्तर-भेदतः। आयाममनु विज्ञेयस्त्वधरस्तु दशाङ्गुलः। विंश-त्यङ्गुमानस्तु परिणाहोऽभिधीयते। पञ्चाङ्गुलं तु चिबुकंसृक्विणी तु नवाङ्गुले। षड्विंशदङ्गुलायामे सङ्गते परिकी-र्त्तिते। अध्यर्द्धरत्निकौ कर्णौ विस्तारेण कचाचितौ। कषायपल्लवौ स्थूलौ कृष्णविन्दुविचित्रितौ। सषद्भामकरा-यामाववचूलौ कचाविलौ। पञ्चाङ्गुलान्तरौ पीनावुभावोष्ठौदशाङ्गुलौ। कर्णात् कर्णान्तरं यावत् षण्णवत्यङ्गुलं शिरः। वातकुम्भं तथा ज्ञेयं स्थूलं सप्तदशाङ्गुलम्। अङ्गुला-नां शतं सार्द्धमानाहि द्व्यङ्गुलाघिकम्। आयतत्वं च कण्ठस्यदशाङ्गुलमिति स्मृतम्। भद्रस्यैवासनं ज्ञेयं तथोक्तं सप्त-रत्निकम्। षडङ्गुलोच्छ्रितं स्थूलं तुल्यं लाङ्गूलमानतः। पुच्छमूलाद् द्विहस्तन्तु जायते पश्चिमासनम्। उच्छ्रयेण[Page0967-a+ 38] तु हीनं स्यादासनं षडभिरङ्गुलैः। पेचकस्त्र्यङ्गुला-यामोलम्बत्वेनाङ्गुलत्रयम्। विंशत्यङ्गुलमानाहे भवेत् पु-च्छोयथागमम्। प्रान्तपादक्रमेणैव तथायामेऽङ्गुलत्रयम्। दैर्व्येण तु स विज्ञेयो भूमेरष्टाङ्गुलोच्छ्रितः। इदं बाल-धिमानं तु मन्दस्य परिकीर्त्तितम्। सार्द्धद्व्यरत्निके मूलेअपरेसंप्रकीर्त्तिते। उदरे चातिमात्रं स्यान्मेढ्रं हस्तद्वया-यतम्। विंशत्यङ्गुलमानाहे कृष्णच्छायं सदा भवेत्। पञ्चचत्वारि च त्रीणि अङ्ग लानि नखाः क्रमात्। आपाण्डुवि-वराः कुन्दाभासाश्चापरपादयोः। अनेनैव तु मानेन गात्र-पादसमाश्रयाः। नखा मन्दस्य विज्ञेयाश्चरणाश्च कचा-बिलाः। अतिस्थूलः पृथुत्वेन सार्द्धहस्ताधिकः करः। अर-त्निकं वा, दैर्घ्येण प्रमाणं गात्रयोरपि। उरोमणिस्तथा ज्ञेयोरत्निमात्रोऽतिमांसलः। विंशत्यङ्गुलमानस्तुअन्तर्गलमणिर्भवेत्। अनेनैव हि मानेन वातकुम्भःप्रकीत्तितः। एते प्रशस्ता मन्दस्य मूनाथ! कथितास्तव। नोक्ता ये तेऽपि भद्रस्य विज्ञेयाः समलक्षणाः। मृगस्यसाम्प्रतं वक्ष्ये प्रदेशान् लक्षणान्वितान्। त्र्यङ्गुलं पुष्करंतस्य त्र्यङ्गुले श्रोतसी तथा। अङ्गुलानि च चत्वारिकीर्त्तितास्तस्य चाङ्गुलाः। तनुः करः त्र्यरत्निःस्या-दानाहे सार्द्धरत्निकः। बाहित्थात् पुष्करं यावन्मानं सद्भिरुदाहृतम्। तथा तनुतरौ दन्तौ दीर्घ्येसार्द्धद्व्यरत्निकौ। ह्रस्वौ च मस्तकौ स्यातान्तयोः सप्त-दशाङ्गुलौ। प्रतिमानं तथा ज्ञेयं निम्नं पञ्चदशा-ङ्गुलम्। द्व्यङ्गुलं चिबुकं तस्मादधरस्तु षडङ्गुलः। अष्टादशाङ्गुलानाहे सृक्वणी तु षडङ्गुले। स्याता-मङ्गुलविंशत्यौ कपोलौ निम्नमध्यगौ। कटौ द्व्यङ्गुमानौतु निर्याणे चतुरङ्गुले। नेत्रे चापि तथा स्यातान्निष्प्रभेस्थू-लतारके। नातिव्यक्तं समांसं स्पाद्वातकुम्भं दशाङ्गुलम्। गर्त्ताकारञ्च निम्नं च कटकुम्भंतथैव तु। अष्टाङ्गुलान्तरंकुम्भ आयामे षोडशाङ्गुलः। विंशत्यङ्गुलकौ कर्णौ स्तब्धौ रूक्षौच वर्त्तुलौ। षण्णवत्यङ्गुलानाहा आयामे षोडशाङ्गुला। ग्रीवा मृगस्य विज्ञेया करालमासनं भवेत्। सार्द्धद्व्यरत्नि-कायामः कुब्जतुङ्गोऽतिमात्रया। वंशोमृगस्य विज्ञेयो निम्न-तल्पनिभप्रभः। स्थूलास्थि विषमं निम्नं पुच्छमध्यर्द्धरत्नि-कम्। आसनेन समं चैव मृगस्य पश्चिमासनम्। पञ्चाङ्गु-लस्तु विज्ञेयः पेचकोगुदसंसृतः। कचाग्रन्थिसमाकीर्ण्णःस्थूलोह्रस्वश्च बालधिः। अपरापादपार्ष्णिभ्यां हस्त-मात्रसमुच्छ्रयः। दीर्घतनुरुहच्छन्नोद्विसप्तत्यङ्गुलायतः। [Page0967-b+ 38] तत्प्रमाणे तथा गात्रे चिपिटे चापि निष्प्रभे। चरणाश्च गत-च्छायैश्चतुस्त्रिद्व्यङ्गुलैर्नखैः। संयुक्ताःस्फुटिता निम्ना माने-नाष्टादशाङ्गुलाः। एतदुद्देशमात्रेण कथितं मृगलक्षणम्। अतःपरं प्रवक्ष्यामि तेषां बलपरीक्षणम्। गजा न बलर्हानेनसुरूपेणापि शोभनाः गुणेष्वपि बलं श्रेष्ठं तत् परीक्षीतपण्डितः। शरीरान्तर्गतः प्राणो बलशब्देन कीर्त्त्यते। क्रियतेवारणस्याथ तस्योपायैः परीक्षणम्। जाम्बूनदस्य ताम्रस्यपलानां रजतस्य वा। अष्टादशसहस्राणि युक्त्या सं-गृह्य वेगवान्। दशयोजनमध्वानं गच्छति श्रमवर्जितः। यो गजो गजमध्ये तु स उत्तमबलः स्मृतः। यश्चतुर्दश-साहस्रभारमादाय गच्छति। सप्तयोजनमध्वानं स मध्य-मबलोमतः। दशसाहस्रिकं भारं गृहीत्वा पञ्चयोजनम्। अध्वानं योहि संयाति स हीनबल उच्यते। सत्रिभा-गद्विहस्तेन परिणाहेन संयुतम्। चतुर्हस्तनिस्वातं तुयोभिनत्त्युत्तमोहि सः। अथ वोत्पाटयेद्वापि बलेनमहता युतः। सार्द्धत्रिहस्तखातन्तु सप्तहस्तोच्छ्रितंतथा। पञ्चाशदङ्गुलीकेन परिणाहेन संयुतम्। भिनत्तियोगजः शीघ्रं क्षिपत्युद्धृत्य वा पुनः। स गजानान्तुसर्वेषां मध्ये मध्यबलो मतः। हस्तत्रयनिखातन्तुषढस्तोच्छ्रयमेव वा। युक्तं स्थूलतया चैव पूर्वसं-ख्यार्द्धमात्रया। भिनत्ति हेलया यस्तु उत्खातं वा क-रोति वा। स्तम्भं कुञ्जरमध्येतु स हीनबल उच्यते। गु-रुत्वं च यतः श्रेष्ठं गुरुत्वादधिकं बलम्। बलादभ्यधिकंसत्वं तस्मात्सत्वं निरूपयेत्। शुद्धस्फटितसङ्काशं सत्वं हृदिशरीरिणाम्। दुर्लक्ष्यं विद्यते सम्यगुपायैस्तद्धि लक्षयेत्। सुप्रशस्ते दिने लग्ने गजोगैरिकमण्डितः। कर्ण्णेचामरशङ्खादिसुखाभरणभूषितः। पादान्दोलनसंजात-घण्टारवनिभस्वनः। आरोहककरास्फालकृतोत्साहोन्नताननः। अत्यन्तं ढोकयेच्छ्रीघ्रं पार्श्वकोलाहलाकुलः। वेगोत्थानकृतास्फोटदन्तसंघट्टमर्दनैः। कृतां कामपि न हस्तस्यवेदनां यो न मन्यते। यो हि मदैःकृतास्फालैः स्वकटंभर्त्तुमिच्छति। नापसर्पति भीत्यानोप्रतियातं रणात् क्वचित्। कण्ठगर्जितनादेन परिपूरितदिग्मुखः। निवर्त्त्यते चदुःखेन स भवेत् सत्ववान् गजः। प त्यश्वसमूहं वागजमालातिमीषणम्। रागोत्थानसमुद्भूतगम्भोरकल-हाकुलम्। उत्थाय समरे गच्छेद्रोषरञ्जितलोचनः। दन्तदारणरागेण प्रतिनागकृतेक्षणः। प्रसारितैरतिस्तर्व्वै-र्निःशङ्कं कर्णपल्लवैः। यो गच्छत्यतिवेगेन स भवेत् सत्ववान्-[Page0968-a+ 38] गजः। शार्दूलाकृतिसत्वानां त्रासवर्जितमानसः। कृतकं चतथा नागं योभिनत्त्युत्तमो हि सः। दावानलशिखिश्रे-णीशब्दसंत्रासवर्जितः। वनेषु विचरत्येष स सत्वसहितोगजः। कृतशङ्कावशाद्यस्तु न वारोहिणमीयते। सङ्क-चन् मस्तकं दीनोमन्दान्मन्दतरो भवेत्। आलोकयतिपार्श्वानि चीत्कारकरणप्रियः। आलोकयति सोष्मभ्यांलोचनाभ्याम्प्रतिद्विपम्। पदात्यश्वसमूहं वा ज्वलन्तमिव म-न्यते। अधमस्तु सुविज्ञेयो गज सः श्रमवर्जितः। यस्तुसं-धटते मन्दं घटितश्चापसर्पति। तथापसर्प्य वेगेन दन्ताघातंप्रयोजयेत्। किञ्चित्तिर्य्यन्मुखोभूत्वा कृतचीत्कारनि-स्वनः। कुरुते दन्तसंघातम् स विज्ञेयोऽघमोगजः”। ( प्रथमादिपञ्चसुदशासु मदविकारभेदमुक्त्वाह तत्रैव।
“तटतरुभवनोन्मूलनरतस्तु षष्ट्याङ्गजो भवति। करवद-नाक्षिकटस्थल गलन्मदसलिलसिक्तभूमितलः। संग्रामेरिपुभरकरविमुक्तशरनिकरशल्यसहः। करवीरपुष्पलो-हितलीघनः स चारुदारुणाकारः। प्रतिनागसंघदारणप्र-कृतिरंशलस्तु सप्तम्याम्। न शृणेति नैव पश्यति च न भय-ञ्जानाति सर्वसत्वकृतम्। यश्च घनास्फालितं मुखरितंचाननं पतति कारयन्। न सहन्ते तस्य गन्धं सङ्कोचि-तगात्रकुब्जकरकटाः करिणः। मर्द्दितनिजबला विमुक्त-नादाः प्रणश्यन्ति। न तथा शङ्खाभरणैर्न चामरैर्नाक्ष-मालाभिः। भवति यथा मदसारैर्मुखस्य शोभा गजे-न्द्राणाम्। क्लमविरहिता भवति हि षष्ठी वा पञ्चमी च-तुर्थी वा। दोनावस्था करिणां सत्ववतां मदविशेषेण। अतिवृद्धमदविकारे मृह्यन्ति शिशुमदेऽपि मातङ्गाः। स-त्वातिरेकयुक्ताबलस्य शोभां परां प्राप्ताः”। स्थलभेदे नमदोद्गमफलं तत्रैवाह।
“कुरुते नरपतितुष्टिं दक्षिणगण्ड-स्थलोद्गतन्दानम्। रोमोद्गतं च यातुर्विशेषसुखदं सदाभवति। उभयकटस्थलसमनिर्गतं च विषयस्य वृद्धि-करम्। शिशिरसुगन्धिपरिमलं सुखप्रदं जायते भर्तुः। माङ्गल्यं श्रीजननं सोभाग्यकरं सत्वजननं च। माद्यन्तियत्र देशे दशाविपाकेन बलकृतानन्दाः। करिणस्त-स्मिन् राजा वर्द्धितवंशः सुखं वसति। कतकबहुलैलापरि-मलश्च सुखदोमदो भवति। मूत्रपुरीषस्वेदासृक्वफरसो-नादितीब्रगन्धधरः। अशुभकरोऽसौ नरपतियातॄणाञ्जा-यते मदः। जायन्ते ये भावा राजन्! मदखण्डमण्डितमुखस्य। नागस्य मद विशेषास्तांस्तान् प्रवक्ष्यामि। चाल-यति दुर्गन्धमिवाघ्राय पुष्करं क्षिपति प्रेरयति। लेढि-[Page0968-b+ 38] जिह्वाग्रेण सृक्वणी विघटितोष्ठपुटः। संपीड्य पुषुकराग्रेणचाङ्गुलिं निःश्वसच्चाधोवदनः। तिर्यक्प्रेक्षी भवति मी-लिताक्षः क्षणं स्थित्वा। तिर्यक् चालितवदनमङ्गुल्या पुष्-करप्रकम्पेन। किञ्चित्समुन्नतास्यः कर्णकण्डूयनं कुरुते। किञ्चिच्च दर्शयित्वा मेढ्रंनाशयति कीशकृन्मूत्रम्। हृष्टःक्रीडति परिवर्त्तिताननो बन्धनस्तम्भ कृतमत्सरः। प्रधा-वति संवेष्ट्य करं विषाणमुद्यम्य गर्जति सलिलपूरितज-लधरगम्भीरनादेन। उन्नामिताग्रहस्तः स्वच्छन्दङ्गच्छ-तिक्वापि। गुरुमक्षिकश्व भवति वनतरुगहनोन्मूलनानुर-तः। वागङ्कुशमुखजातं बाधनं न सहते ह्यभिन्नसत्वोयः। तिर्यग्विकलत्वाश्च तथा सगजो गुरुमक्षिकोज्ञेयः। रमते च पांशुविकरणकर्दमावगाहाद्यैः। एवंविधस्व-भावो मदभेदवशाद्गजो भवति। यो यस्मिन्नेव ऋतौगृह्णाति मदम्भतङ्गजः सुखदम्। स च तस्मिन्नेव पुनःप्रभिद्यते दानयुक्तश्च। इति मदवृद्धिविशेषाः कथितास्तवभूतलेश! तत्त्वेन। परिवर्त्तते मदोयैर्हेतुभिरशुभैस्तुतान्वक्ष्ये। प्रतिवारणाभियानाद्दूराध्वगमनात्कुभो-जनाच्चापि। बन्धनदोषाच्च तथा तृष्णाक्षुत्पीडनाच्चापि। शार्दूलादित्रासाद्दावानलोल्काशनिप्रपतनाच्च। (अशनि-रत्र विद्युत्)। नश्यति मदोगजानां शीघ्रं वर्त्मविघ्नतश्चतथा। मातापितृजैर्दोषैर्मन्दमदानन्दबर्जिताश्च तथा। जायन्ते द्विरदा यैर्यथा तथा साम्प्रतं वक्ष्यामि। मन्दमदेनहि करिणा जातः किञ्चिम्मदोगजो भवति। मदविरहितेनतथा जनितोमदविवर्जितोऽस्त्येव। समदेन तु यो जातो-गजो गजेन्द्रेण भवति तस्य मदः। एवं मदप्रकारा मात-ङ्गानां समुद्दिष्टाः। शृणु साम्प्रतं नरेश्वर! मदापसरणो-द्गवानि चिह्नानि। यानि भवन्ति गजानां मन्दमृदुमद-विगलितसमुदयानाम्। रूक्षच्छायायुक्तोनिम्लोचितगण्ड-स्थलगतश्रीः। कुप्यति येभ्यः शङ्काङ्करोति तेभ्योऽपि सत्वस्थः। गण्डस्थलेन जिघ्रति करेणुकां स्पृशति नैव हस्तेन। मूत्र-पुरीषाणि च नो जिघ्रति वारणकृतानि यातुर्वा शनैर्गच्छति। सततंपरिमृष्टदानराजिपरीकीर्णकटोहस्नेनातीव सङ्घर्षणंकुरुते। मुहुरभिनन्दति निद्रामलसो मनसा न तुष्टिमुप-याति। लिङ्गान्येतानि करिणो मदेन मुच्यमानस्य जायन्ते। प्रतिकुञ्जरयुद्धकृतो बलहर्षदशावयोभ्यस्त्वशुभः। भवतिमदोनागानां तापादिसमुद्भवश्च शुभः”।
“रूपवान्मदसम्प-न्नोविन्ध्यशैलसमप्रभः। जायते सत्वहीनस्तु कुञ्जरः केन हेतु-ना। केन वा रूपहीनोऽपि मदोच्छ्रयविवर्जितः। सत्ववान्[Page0969-a+ 38] जायते नागो एतदाख्यातुमर्हसि” इति नहुषपुष्टो वृहस्पतिरुवाच।
“यथा जातकयोगेन जन्तूनां च शुभाशुभम्। तथा बन्धनकालोत्थङ्गजानामपि जायते। सुसग्नावस्थितैःसौम्यग्रहैः पीडाविवर्जितैः। बन्धनं यस्य जायेतस भवेत् सत्ववान् गजः। स्त्रीनक्षत्रेषु गृह्यन्ते येगजाः क्रूरदृष्टिभिः। ये चालोकितनक्षत्रास्ते भवन्तिभयाकुलाः”। उक्तञ्च शम्भुना
“मृगजातयीऽपि हि शूराभवन्ति मधुपिङ्गललोचनाः स्निग्धाः। वृषसिंहमीम-वृश्चिकलग्नेषु स्वीकृताः करिणः”। पुनर्नहुषप्रश्ने गुरोःप्रत्युक्तिस्तत्रैव।
“राजन् पञ्चविधं चैव गजानां विदितं मतम्। अत्यर्थं प्रथमं ज्ञेयं प्रत्यर्थं च तथापरम्। अन्वर्थं चैव गम्भीर-मुत्तानं पञ्चमं भवेत्। प्रतोदाङ्कुशदण्डाद्यै र्विद्यादुद्वेजितानियः। तीव्रसङ्कुचितस्पृष्टः स स्यादत्यर्थवेदिता। स्तोकं बहुबहु स्तोकं क्षतं मन्येत योगजः। वागङ्कु शादिभिर्नित्यं सहिप्रत्यर्थवेदिता। जानात्यङ्कुशतोत्राद्यैर्यद्यथा तत्तथैव हि। क्षतङ्कायभयैर्मुक्तोऽन्वर्थज्ञःस गजोभवेत्। अङ्कुशादिब्रणान्राजन्! यश्चिरेणावगच्छति। तीव्रानपि स गम्भीरवेदीभवति वारणः। रोम्णामग्रं तृणेनापि स्पृष्टंवेत्ति तु योगजः। उत्तानवेदिनं तन्तु गजं विद्धि महाभुज! सर्वाणिवेदितव्यानि भद्रादीनां भवन्ति वै। प्रकृतिस्थस्य सततंभद्रस्यान्वर्थवेदिता। गम्भीरवेदिता चापि मन्दस्यैव प्रकी-र्त्तिता। उत्तानवेदिता नित्यं मृगस्यैव भवेन्नृप!। वेदि-त्वंगजजातीनां तिसृणामपि जायते। साम्प्रतञ्च यथा-शास्त्रं कथ्यते वेगलक्षणम्। तिसृणामपि जातीना मुत्तमा-धममध्यमम्। न चाल्पं न च वृद्धं द्विपञ्चपदसं स्थितम्। गजोत्थानसहोत्थानं नरं प्राप्नोति येन तु। रयाविष्टेनमनसा स वेगौत्तमोमतः। (द्विपञ्चपदसंस्थितं दशपदस्थितंगजोत्थानसहोत्थानं गजधावनसमसयधाविनम्) येनवेगेन गृह्णाति नरं सप्तपदान्तरम्। पदानां शतमात्रन्तुस मध्यमजवो भवेत्। येन पञ्चपदस्थं हि नरं गृह्णातिनोदितः। पदानान्तु शतं सार्द्धं स हीनोजव उच्यते। शतद्वयं वा धनुषां गच्छेदुन्नमिताननः। द्वात्रिंशता चमात्राभिः स उक्तमजवो भवेत्। पञ्चाशता च मात्नाभिःयायाद्यस्तु शतद्वयम्। स मध्यमोऽधमोज्ञेयो मात्राणाञ्चशतद्वयात्। एवं परीक्ष्यते राजन्! वेगो वीथिषु दन्तिनाम्। अतःपरं प्रवक्ष्यामि गजस्य गुणलक्षणम्”। ( तत्र कल्याणशीलः
“भारार्द्दितोवा तृषितः क्षीणःश्रान्तोबुभुक्षितः। रात्रौ वा दिवसे वापि निर्विकारस्तु[Page0969-b+ 38] यो भवेत्। कल्याणशीलः स ज्ञेयो समस्तगजलक्षणैःविकारं कुरुते यस्तु पीड्यमानःक्षुधादिभिः। तमकल्या-णिनं राजन् गजन्दुष्टं प्रकल्पयेत्। कोपोऽपि द्विविधोज्ञेयःशिशुश्चैवाशिशुस्तथा। द्विविधस्यापि राजेन्द्र! यथावच्छृणु-लक्षणम्। उद्वेजितोऽपि कालेन कोपं बध्नाति निर्भरम्। क्षिप्रं गृह्णाति च क्रोधं दुर्निवारं सुदुः सहम्। शिशु-क्रोधः स विज्ञेयो गजलक्षणकोविदैः। वार्यमाणोऽपियत्नेन न शमं याति मुह्यति। स ज्ञेयस्त्वशिशुक्रोधोराजन्! स हि रणप्रियः। साम्प्रतं चैववक्ष्येऽहमायुर्लक्षणमुत्तमम्। आभ्यन्तरं च बाह्यञ्च लक्षणं द्विविधं स्मृतम्। आभ्यन्तरं योगसाध्यं बाह्यं किञ्चिच्च लक्ष्यते। तेनान्तरंपरित्यज्य बाह्यं लक्षणमुत्तमम्। क्षेत्रसत्वसमायोगा। भवन्ति द्वादशैव हि। एकं हस्तगतं क्षेत्रं द्वितीयं वदना-श्रितम्। तृतीयञ्च विषाणस्थञ्चतुर्थं शिरसिस्थितम्। प-ञ्चमं नयनस्थं च षष्ठं कर्णाश्रितं भवेत्। कण्ठस्थं सप्तम-ञ्चैव अष्टमङ्गात्रसंस्थितम्। नवमं चरणे ज्ञेयं शेषाङ्गस्थं-द्विपञ्चमम्। एकादशञ्च कान्तिस्थं द्वादशं सत्वसंस्थितम्। एवं द्वादश क्षेत्राणि मातङ्गानां भवन्ति हि। द्वादशैव द-शाज्ञेयाः शेषाङ्गेष्वभिलक्षिताः। विंशोत्तरं वर्षशतम्भद्र-स्यायुः प्रकीर्त्तितम्। अव्दान्यशीतिर्मन्दस्य चत्वारिंशत्मृगस्य च। मिश्रस्य चायुषः संख्या जातिभावेन जायते। प्रदेशज्ञानतत्त्वज्ञोजातिं समुपलक्षयेत्। सर्वक्षेत्रैः सुसंपूर्णःसंपूर्णायुर्गजो भवेत्। हीनैश्च हीयते चायुर्यथावदभिधी-यते। दशाव्दानां क्षयं कुर्य्याद्धस्तलक्षणवर्जितः। विशं-त्यव्दविनाशश्च हीने क्षेत्रद्वये भवेत्। क्षेत्रत्रयावहीने चत्रिंशदव्दपरिक्षयः। चत्वारिंशत्समाहानिर्हीने क्षे-त्रचतुष्टये। (समा संवत्रः)। पञ्चाशदव्दाहीयन्ते हीनेतु क्षेत्रपञ्चके। षट्क्षेत्रहीनतायान्तु षष्टिवर्षविनाशनम्। सप्तत्यब्दविनाशाय सप्तक्षेत्रविहीनता॥ अशीतिरष्टभि-र्हीने वर्षाणाञ्च विनश्यति। नवतिर्नवभिर्हीनै क्षेत्रैर्नाशं-हि प्रयाति। दशभिश्च तथा हीनैर्नश्यत्यव्दशतं ध्रुवम्। दशोत्तरं चाव्दशतं हीना च्छाया विनाशयेत्। विंशोत्तरंचाव्दशतं हीने सत्वे विनश्यति। एवं दशाव्दनाशंचक्षेत्रं कुर्यादलक्षणम्। एवमायुःक्षयं विद्यात् गजस्यगजकोविदः। सामान्यलक्षणं ह्येतत् जीवितस्य परीक्षणे। विशेषलक्षणं यावद् ग्रहलक्षणजातितः। एवमुद्देशमा-त्रेण गजायुर्लक्षणं तव। कथितं साम्प्रतं राजन्! दोषघ्नंवचिम लक्षणम्। पादानां लक्षणं सम्यक्दन्तदोषं प्रणा{??}[Page0970-a+ 38] --येत्। दन्तयोर्लक्षणं हन्ति दोषान् वाहित्थसंश्रितान्। वाहित्थलक्षणैः सम्यक् नेत्रदोषक्षयो भवेत्। नेत्र-योर्लक्षणं हन्ति दोषांस्तालुसमाश्रितान्। सृक्वदोषवि-नाशश्च क्रियते तालुलक्षणैः। सृक्वाणां लक्षणं कुर्य्यात्-सगददोषनाशनम्। कपोलकटदोषघ्नाः सगदस्थागुणानृप!। निर्याणवातकुम्भानान्दोषघ्नः करयोर्गुणः। कुम्भदोषविनाशाय तयोरेव गुणो भवेत्। कर्ण्ण-दोषविनाशस्तु क्रियते कुम्भलक्षणैः। कण्ठदोषविना-शाय कर्णलक्षणमेव हि। आसनस्य हि ये दोषास्तान्हरेत्कर्णजोगुणः। वंशदोषक्षयकर आसनस्य गुणो भवेत्। गुणाघ्नन्ति हि वंशस्य दोषान् तत्स्थलसंश्रितान्। पश्चिमासनदोषघ्नं लक्षणं तत्स्थलश्रितम्। कुक्षिपेचक-दोषघ्नं पश्चिमासनलक्षणम्। गुणाः पेचककुक्षिस्थाः पु-च्छदोषविनाशनाः। मेढ्रदोषक्षयं कुर्य्यात् पुच्छलक्षणमेवहि। मेहनस्य गुणा हन्ति दोषांश्चैवापराश्रितान्। अण्ड-कोषगतं दोषमपरालक्षणं हरेत्। नाभिदोषक्षयं कुर्याद-ण्डकोशस्य लक्षणम्। नाभेर्गुणैश्च हन्यन्ते दोषास्तनस-माश्रिताः। उरोमणिगतान् दोषान् नाशयेत् स्तनल-क्षणम्। चिबुकस्य हरेद्दोषान् उरोमणिगतोगुणः। यथादोषक्षयो राजन्! लक्षणैः क्रियते शुभैः। दोषातिरेकोऽपितथा प्रदेशगुणनाशकः। प्रदेशोऽनन्तरस्यैव प्रदेशस्यगुणा-न्वितः। कुरुते दोषनाशं हि स दोषोगुणनाशनः। करकु-म्भविषाणाक्षिकर्णलक्षणसंयुतः। सर्वैरेवाशुभैरन्यैर्ल्लक्षणै-श्चाशुभोगजः। शूलं चन्द्रांशुशुभ्रं स्याद्वक्रं च ज्वलन प्रभम्। वज्रं काञ्चनसङ्काशङ्कालदण्डःसुपिङ्गलः। एतेषां च समा-योगाद्दन्तानां मधुपिङ्गता। यतो गजविषाणानामतोमधुनिभाः शुभाः। भद्रजातेर्गजस्यैतन्मन्दस्य च मृगस्य च। घृतपीपूषकुन्देन्दुकेतकीच्छविपञ्चकम्। एवं जातित्रयस्यापिसामान्यं शोभनं मतम्। कपोतधूमभस्मास्थिसर्पच्छत्रक-सन्निभाः दन्तयोस्त्वशुभारजन्! छाया पञ्चविधा अपि। अध्यर्द्वारत्निकं राजन् प्रमाण दन्तयोः शुभम्। ( अत ऊर्द्धं प्रवक्ष्यामि गजानां वर्ण्णलक्षणम्। आहारस्यविशेषेण वातपित्तकफैस्तथा। देशलक्ष्मगुणैश्चैव वीजयोनिवशेन। ग्रहालोकननक्षत्रलग्नराशिवशेन च। पूर्वकर्म्म-वशाच्चापि धातूनाञ्च विपर्ययात्। भवन्तिकारणैरेभिर्वर्ण्णा-नानाविधा नृप!। दिव्यसत्वाः शुभैर्भेदैर्विविधास्ते भवन्तिहि। मिन्दूरशङ्खषैदूर्य्यविद्युज्जाम्बूनदप्रभाः। इन्द्रनीलस-मानाभा भवन्ति शुभकान्तयः। अतिश्वेताश्च रक्ताश्च शुकव-[Page0970-b+ 38] र्हिणसप्रभाः। एते देवगजाः सर्व्वेमूतले न भवन्ति हि। अतिश्वेताश्च रक्ताश्च शुकवर्हिणसप्रभाः। दैवयोगाद्वने प्राच्येक्वचिदेव भवन्ति हि। वन्दनीयश्च पूज्योऽसौ नासौ ग्राह्यो-नराधिपैः। शृङ्गाराङ्गारभस्मास्थिपङ्कमाञ्जिष्ठसन्निभाः। म्ला-पुष्पसवर्ण्णाश्च गजास्त्वेतेऽतिनिन्दिताः। एवं वर्णविशेषास्तुकथितास्तव सुव्रत!। गजमेकादशगुणं वक्ष्यमाणं निबोधमे। मधुसन्निभदन्तश्च श्यामोमधुनिभेक्षणः। उदरेपाण्डुवर्णश्च वक्त्रे च कमलप्रभः। द्विरेफसमबालश्च कुन्देन्दु सदृ-शैर्नखैः। स्थूलतारोमयुक्तश्च शेषेष्वङ्गेषु पीतकः। विचित्रञ्चमुस्वं यस्य रक्तैःश्वेतैश्च विन्दुभिः। स नागोगजयूथानांमध्ये राजाऽत्र जायते। तं प्राप्य नृपतिर्भुङ्क्ते सागरान्तंमहीतलम्। नीलसवर्णसंस्थानः स गजोयूथनायकः। मुखे मदे च हस्ते च कर्णोदरशिरस्मुयः। केशैः शुभैश्चःवलिभिर्विन्दुभिः परिमण्डलैः। सवर्ण्णोयो भवेद्दन्तीकैलासः सोऽभिधीयते। अतःपरप्रवक्ष्यामि निःश्वासस्य तुलक्षणम्। निःश्वासोद्विविधोज्ञेयः शुभश्चैवाशुभस्तथा। शुभः सुरभिगन्धः स्यात् पूतिगन्धोऽशुभोमतः। विशेषेणतयोश्चैव लक्षणं भूप! कीर्त्त्यते। सूक्ष्मता दीर्घता चैव समताच सुंगन्धिता। सौकुमार्य्यं मृदुत्वं च निश्वासस्य तु षड्-गुणाः। स्थूलता ह्रस्वता चैव दुर्गन्धत्वं तथोष्णता। पा-रुष्यं विषमत्वञ्च दोषाश्चापि भवन्ति षट्। दशारत्निप्रमाणं च रेणुकं पित्तलक्षणम्। यो निश्वसितिदीर्घं च स दीर्घायुर्गजो मतः। अरःपरं प्रवक्ष्यामिगजालोकित लक्षणम्। स्निग्धं स्थिरं च सौम्यं च वारि-जोत्पुल्लतारकम्। सलक्षं प्रतिनागं तु प्रेक्षितं शुभका-रणम्। उद्विग्नञ्चञ्चलं दीनमविकाशिततारकम्। ऊर्द्धाधःपार्श्व दृष्टञ्च निर्लक्षं निन्दितं भवेत्। कचानां साम्प्रतं भे-दान् वक्ष्यमाणान्निबोध मे नेत्रयोः पुटपालिस्थाः कचाःशुभफलाः स्मृताः। संख्या तस्यैव मानन्तु रोम्णां चैवप्रकीर्त्तितम्। देहच्छायासवर्णत्वं मृदुत्वं च तथा परम्। अनाबिलत्वं घनता नम्रा च स्फुटिताग्रता। अंशुमत्ता चसूक्ष्मत्वं रोम्णां सप्त गुणा स्मृताः। दोषाश्च सप्तसंख्याःस्युर्गुणानां च विपर्य्ययात्। शुभानि शुभकर्त्तृणि दुःख-दान्यशुभानि च। अतःपरं प्रवक्ष्यामि लक्षणं पक्ष्म-संश्रयम्। बाह्योत्तानानि रूक्षाणि दीर्घाण्या यतनानि च। मृदूनि पिङ्गवर्ण्णानि पक्ष्माणि करिणः सदा। स्निग्धच्छायानि कृष्णानि समानि च दृढानि च। अयनानिमच्छि द्राणि पक्ष्माण्यतिशुभानि च। गजानां स्वामिनः[Page0971-a+ 38] सौख्यं कुर्व्वन्ति रमणीयताम्। दृढाः स्निग्धाग्रलम्बाश्चसुवृन्ताश्च च्छदप्रभाः। तालवृन्तसमाकारा बाला भर्तुर्जयप्रदाः। शुनःपुच्छसमा रूक्षाः कपिलाः स्फुटितास्तथा। घनत्वातिशयोपेताः सुवृत्तास्त्वतिनिन्दिताः। भर्त्त्रारो-हिगजानान्तु नित्योद्वेगकरास्तु ते। अतःपरं प्रवक्ष्यामिकेशानामपि लक्षणम्। अभिन्ना ऋजवः स्निग्धा घना म-धुकरप्रभाः। केशा वारणनाथस्य क्षेमवृद्धिकरा मताः। रूक्षास्तु निष्ठुराः पिङ्गाः स्फुटिताश्च जुगुप्सिताः। कुर्व्वन्ति दन्तिनां नित्यं स्वस्य नाथस्य चाशुभम्। पक्ष्मवा-लकेशरोम्णां लक्षणं कथितं मया। फणिमार्जारमण्डू-कशृगालैश्च समप्रभम्। वानरस्य समं चैव मुखं नागस्यनिन्दितम्। स्निग्धान्यापूर्णगण्डानि गिरिकूटनिभानिच। आपूर्णमेघरूपाणि पूजितानि मुखानि चै। मदहीनंकृशं ह्रस्वं बाहित्थनिःप्रभं तथा। वराहलोचना-क्रान्तमदृष्टचिबुकं तथा। ललाटतटपर्य्यन्तगर्त्ताकृतिभिर-न्वितम्। सगदं हीनतायुक्तं मुखं नागस्य निन्दितम्। मुखस्य लक्षणं सम्यक् कथितं तव सुव्रत!। अतःपरं प्रव-क्ष्यामि मातङ्गगतिलक्षणम्। समा च लघुपादा च वेगे-ऽप्यतिशुभा मता। दीर्घक्रमा सुखोत्क्षिप्ता गात्रसंवरहा-रिणी। शुभलक्षणसंयुक्ता पुरुषस्य वकस्य च। मा-तङ्गवृषसिंहानां गतिर्मुख्या शुभा मता। क्लेशचालि-तगात्रा या विषमा सुलघुक्रमा। वेगेऽपि मन्दसञ्चारा-विशेषान्दोलितासना। मृगस्य कृकलासस्य जम्बूकस्य खरस्यच। गमनेन समा या, सा शुभा नो दन्तिनाङ्गतिः। कथितंतव राजेन्द्र! गजानां गतिलक्षणम्। स्थितानाञ्च यथायीगंसाम्प्रतं लक्षणं शृणु। पञ्चस्थितसप्तस्थित नवस्थित द्वादश-स्थिताश्चैव। पुण्यवतां जायन्ते राज्ञां गिरिसन्निभाः करिणः। लक्षणसहितैः स्निग्धैः करकुम्भविषाणकर्णनयनैश्च। संयुक्तो भवति गजो वसुदः पञ्चस्थितो नागः। (वसुदःधनदः)परिणाहायामोच्छ्रयबलविक्रमधैर्य्यकान्तिसम्पन्नः। भर्त्तुःप्रतापजननो ज्ञेयः सप्तस्थितो हस्ती। उत्साहवेग-साहसमदसत्वगुरुत्वदक्षतायुक्तः। करदन्तकर्मसु कुशलो-नवस्थितः करी भवति। बुद्धिर्मेधा सत्वं यत्नःकुम्भौ तथा-ऽक्षिणी हृदयम्। रोमाणि च्छविपादाः तथासनं पृष्ठवं-शश्च। द्वादश चैतानि सदा स्थितानि दृश्यन्ते यस्य नागस्य। स द्वादशस्थितोवै भवति गजः सर्व्वसौख्यकरः। सञ्चारस्थितभेदाः कथिता गुणसंश्रया गजेन्द्राणाम्। दिव्या-धमसत्वानां लक्षणमिह साम्प्रतं वक्ष्ये। निहतद्विपदचतु-[Page0971-b+ 38] ष्पदकुणपान्न स्पृशति च न यो मृह्णाति। न च जिघ्रतिभूत्रादीन् स वारणोदिव्यसत्वस्तु। दत्तञ्च योऽत्ति मांससत्वानां सर्वं तु लोभेन। जिघ्रति मूत्रपुरीषाणि पिशाचसत्वःस विज्ञेयः। एवं सत्वपरीक्षा क्रियते नरनाथ! वारणेन्द्रा-णाम्। स्वरलक्षणमिदानीमशुभं शुभञ्च वक्ष्यामि। स्थाना-न्यष्टौ नृपते! भवन्ति शब्दस्य वारणेन्द्राणाम्। ताल्वोष्ठ-शिरौरःकरजिह्वामूलं गलकपोलौ च। गम्भीरसौम्यहृ-ष्टास्तब्धाश्रमीरितास्तथा स्निग्धाः। नादाः शुभाःनराधिप!षडेवकथिता गजेन्द्राणाम्। चत्वारस्त्वशुभा रौद्राभयशोक-सङ्गमोत्पन्नाः। एवं शुभाशुभाश्च दशप्रकाराःस्वराःस्वरा ज्ञेयाः। अन्येऽपि गलवक्त्रगानिलास्फालनोद्भवा बहवः। शब्दाभ-वन्ति करिणां शुभाशुभं न तैर्भवति। निम्नोचितचिवुका-यितविरुक्षितकूजितखरोष्ट्रनादनिभाः। वायसजम्बूककपि-काष्ठभङ्गसदृशारवास्त्वशुभाः। ज्ञेयानि शुभानि सदामृदङ्गजीमूतदुन्दुभिनिभानि। पातायितगर्जितहसितानिवृंहितानि नागानाम्। पातायितञ्च ताल्वोष्ठसम्भवंग-र्जितकं चैव। जिह्वासमुद्भवं च फेनायितमित्यभिख्यातम्। हसितं कपोलजनितं पुष्करविवरोद्भवञ्च नागानाम्। भवतिधनघान्यवाहनभूलाभकरं नरेन्द्रस्य। हस्तेन मृदङ्गरवं तुकर्णाभ्यां दुन्दुभिस्वनञ्चैव। दर्दुररवं तु पेचकेन करोतियोऽसौ जयकरः। सर्वस्थानसमुत्था शब्दा नरनाथ!वारणेन्द्राणाम्। आचार्यैः सर्वैर्वृंहितसंज्ञाश्च रवाः शुभाज्ञेयाः। एते च जयपराजयकथनसमर्था भवन्तिभूपानाम्। गर्हितशुभप्रदेशस्थानाङ्गपरिवर्द्धिता नादाः। शुष्कतृणकाष्ठकण्टकवल्मीकास्थिश्मशानदुष्टासु। पाषा-णाङ्गारादिषु भूमिषु यदि संस्थिताः करिणः। वृंहन्तिहीनलक्षणमेतद्भर्तुस्तदाऽसुखं भवति। प्रभूतमृदङ्गरवं तुयदि वृंहन्त्यानन्दपूरिताः करिणः। प्रस्थानं भवति तदानराधिपस्य विजयस्तदा राजन्। ! सभामध्ये च यदा वृं॰हन्ति शार्दूलवत् गजाह्रष्टाः। भवति ससैन्यस्य तदा-विजयः संख्ये नरेन्द्रस्य। (संख्यं संग्रामः) कलहंसनादमधुरं किञ्चिदिवोत्क्षिप्तपुष्करस्तु यदा। वृंहति सदा चहस्ती तदापि जयोभवेद्भर्त्तुः। मुखविवरकपीलगतंवृंहत्यसकृत्गजो यदा हृष्टः। मधुरङ्गजहसितञ्च जयप्रदं भवति भू-पानाम्। त्रीन् वारान् क्रौञ्चरवं हंसरवं वृहितंयदा कुरुते। एतदपि नागहसितञ्जयप्रदम्भवति भूपा-नाम्। गर्जति घनवत् सततं यदि वारणः प्रहृ-मनाः मुखरन्धुनिविष्टकरस्तदाऽरिविजयोऽभवेद्भर्त्तुः। घनैव[Page0972-a+ 38] गृहीतसलिलं ससीत्करं वृंहितं यदा कुरुते। भवति तदावारणनाथस्य भवति शत्रुनाशः खल्वेव। कथितान्ये तानिमया शुभानि गजवृंहितानि नरनाथ!। अशुभानि च ना-गानामतःपरं प्रवक्ष्मामि। शङ्काचालितनयनोवराह घुरित-निःस्वनं कुरुते। तत्प्रतिबलस्य नूनम् तदा क्षयो भवति। भूपाल! वेष्टितभूतलहस्तो नदति यदा धरणिप्रकम्पनाद-समम्। नरपतिराष्ट्रविनाशो मबति तदा शत्रुसैन्यकृतः। मदमुदितखरतरसदृशं निःस्वनं यदि करी कुरुते। जनयतिविजयविनाशात् पुरराष्ट्रपीडनं च तदा। बलिभ्वग्निस्वनसदृशं यदि वा समुत्फाल्य च हस्तम्। वामान्दोलितचर-णोयदा करी वृंहति सनिःश्वासम्। आलानगतः कुरुतेतदा बद्धोयातावैरिभिःपाशैः। एवं प्रकृतिस्थायदि मतङ्गजावृंहितानि कुर्वन्ति। आत्यन्तिकानि राज्ञां चैव भवन्तिनान्यानि”।
“यदि रिपुगजाभिमुखो निवाय्यमाणोऽपियाति रभसेन। विंशतिपदानि नागस्तत्रापि जयोभवत्येव। अमदोगृह्णाति मदं दुर्गन्धमदश्च सुरभिमदम्। दुष्टगजानांप्रथमन्दुलक्षणमेवं सकलम्। ह्रस्वतनुर्मणिवदनो हि महा-शिरास्तब्धकर्णयुगलश्च। नातिस्थूलोऽसिसवर्ण्णस्तब्धानि चगात्र वदनरोमाणि। व्यासः स भवति हस्ती दुष्टात्मा दुष्ट-शीलश्च। स्थूलाक्षिपाण्डुरूक्षो दीर्घविषाणोनामितमुख-श्रीः। पृथुपादःश्यावनस्वो वक्रोहनुपुटदण्डेन। विसृत-कुक्षिल म्वोदरश्च कृष्णोवराहनयनश्च। ज्ञेयोवकीलनामाख्यातोऽयं सर्वदोषकरः। अतिह्रस्वापरगात्रो वृहन्मुखःकाककृष्णनयनश्च। स्थूलतराधोमुखदन्तदीनमुशलस्फुटितवहिर्नखपादः। स्थूलनखःस्थूलपुष्करकरश्च वामन संज्ञोगजाधमो दुष्टशीलश्च। विषाणे चातिदृढे ह्रस्वे परि-मण्डलौ तथा कर्ण्णौ। वदनञ्च मांसलं स्यादधोगतस्थूलन-यनञ्च। सममांसलत्वयुक्तो ह्रस्वो ह्रस्वाङ्गुलिः करो यस्य। नाम्ना च विश्वरूपमुख इति ख्यातो दुष्टमातङ्गः। करकर्ण्णशिराबालधिविषाणगात्राणि यस्य हीनानि। आदग्धभोऽ-तिवामनाङ्गः पापात्मा स स्वामिनाशकरः। शयनादुत्थायबलाद्द्वावपि पादौ कर्वति कृच्छ्रेण। प्रत्युषसि गच्छतिपुनः कापि समुपस्थापितमुखश्च। अनिभृतगात्रस्तिष्ठे-द्विचलति तस्याननं च कर्ण्णाभ्याम्। स ज्ञेयो वातकरःपापात्मा सर्वपापकरः। यस्य च किलाल्पं मेढ्रं ह्रस्वंह्रस्वाङ्गुलिस्तनुर्ह्रस्वा। अतिनिम्नञ्च बाहित्थं कर्ण्णौ चतनुत्वचौ ह्रस्वौ। गात्रापरञ्च दीर्घं नखाश्च जनितान्तरा-स्तथा। सर्वाणि च काकाभपक्ष्मरोमाणि च विदग्धानि। [Page0972-b+ 38] उदरञ्चाकृष्ण स्यात् ग्रीवा तन्वायता च वक्रा च। वंशिक-नामा मतोऽसौ दुष्टगजोवर्जनीयश्च। यस्य करालौ दशनौस्थूलौ मात्रान्तरन्तथा ह्रखम्। मस्तिष्कशुक्लवर्ण्णःकषि-जम्बुकलोचनोऽतिविकृततनुः। पापात्मायं हस्ती राज्ञाहेयः प्रयत्नेन। दिवसमपि यत्र तिष्ठति तं देशं दहतियावकप्रख्यः। राज्ञा विन्ध्यावने वा परराष्ट्रे वा स मो-क्तव्यः। अतिखरपरिघतनुर्नकुलच्छायस्तनूरुहैस्तब्धैः। यो हस्ती पातारं स पातयित्वा विनाशयति। धन्वासदृशमुखोयः कर्ण्णकचायस्य कर्कशारूक्षाः। कृष्णारूक्षात्वयोऽसौभर्त्तुर्विपदेव मातङ्गः। रोमभिरधोमुखगतैः काकाक्षो दीर्घवक्त्रश्च। स्थिरह्रस्वकर्ण्णयुगलः स राक्षसोहस्ती रूपेण। तिर्य्यक्प्रेक्षणनिरतोदुर्गन्धः काककुम्भवदनश्च। भूत्रपुरोषघ्राणेसमुत्सुको भवति चण्डालः। कुम्भौ यस्य विशालौ विक्षिप्तस्थूलतारके च नेत्रे। तन्वायतं त्रिकं स्यात् बालघिबाला-स्तु बहुरूप्राः। रक्तौ पेचककोशौ मेढ्रोपरिसंस्थितोदरञ्चमहत्। चलपक्ष्मलस्तु हस्ती स भवति नाम्ना महादुष्टः। अङ्गं प्रसार्य्य वदनं विधूय चाधोरणं निपातयति। स जलेस्थले च नागो विबजंनीयः प्रयत्नेन। ह्रस्वकराङ्गुलिबालतनुदशनश्चाल्पायामगात्रश्च। मत्कुणजातिः स गजः सुदुष्ट-शीलश्च रुष्टश्च। कालनखो हरिवर्ण्णोहर्य्यक्षो ह्रखबालधिश्चैव। बहुपक्ष्मा दुर्गन्धिर्म्मणिसन्निभतालुकै-रूक्षैः। अतिपिङ्गलकर्णचूलोरोमशहस्तो वराहनयनश्च। तनुनखसिरालकृष्णैर्नखान्तरैर्दुष्टचरणैश्च। विखुरोनाम ग-जोऽसौ स्वाङ्गैः सर्वत्र कर्कशोजान्वोः। बहुपापकर्म्म-युक्तो व्यालानामग्रणीश्चायम्। रूक्षोबाहित्थभागो विषमौदन्तौ च यस्य नागस्य। धूमशिखेव च्छाया स निन्दितोवर्जनीयश्च। दन्तौ चातिह्रस्वौ स्थूलौ रूक्षौ च मांसलोहस्तः। चिबुकं मांसविशुष्क स्थूलतरे तारके यस्य। स्थूलमुखो दुष्टात्मा नासौ सांग्रामिको भवेद्द्विरदः। अतिदुष्टकर्ननिरतो भयालुको वर्जनीयश्च। कृष्णा रूक्षा च्छायावायसजङ्घा च दृश्यते यस्य। मूतोदनञ्च कुरुते निःशङ्कं यःकराग्रेण। निःशेषं शब्दांश्च करोति यः सहस्तनिष्येषम्। परिहरणीयो राज्ञायाने रणे स महता प्रयत्नेन। अतीव-विरलपस्मा ध्यानपरः शब्दकरणनिरतश्च। द्विगुणीकृत्यकराग्रन्तुदति च भूतलन्तु नित्यम्। वामेन च लिखंतिमहीम्पादेन कुञ्चिताग्रेण। जर्जरविरूपकर्ण्णः पापात्मानिन्दितो हस्ती। आनाहायामोच्छ्रयसत्वमुक्तो महासिरा-लविडः। ह्रस्वाङ्गुलिबालकरो ह्रस्वापरगात्रकर्णश्च। [Page0973-a+ 38] एषोऽपि वामनःस्याद्यद्यपि भवेद्युद्धप्रियोऽसौ द्विरदः। राज्ञा तथापि लक्षणविवर्जितो वर्जनीयश्च। स्थूलमुखहस्त-कर्णोविहीनजघमापरस्तनूरूक्षः। महता मेढ्रेण युतो-नष्टमदः कोशमहांश्च। मन्दालोकननिरतोमहाशिराःपृथुविषाणनयनश्च। हस्ती नपुंसकोऽसौ विवर्जनीयश्चसंग्रामे। अल्पायुषो भवन्ति हि सङ्कालजिह्वोष्ठतालुका-नागाः। नरपतिभिस्ते सततं विवर्जनीयाः प्रयत्नेन!आयामपरिहीनं समनाहोच्छ्रायमुखेन नमितम्। उ-च्छ्रितवक्त्रं कुब्जंविषमकुम्भं कुक्कुरसमानहीनहस्तं च। एवंभूतं तु गजं राजा दूरेण वर्ज्जयेन्मतिमान्। गृह्-णाति मन्दबुद्विर्यस्तस्य कुलक्षयो भवति। लक्षणयुक्तोऽपिगजो द्वाविंशत्येकविंशतिनखश्च। एकोनविंशतिनस्वः सप्तद-शनखश्च यो भवति। षोडश पञ्चदश वा नखान् धत्तेयुक्तोवा चतुर्द्दशभिः। एकादशत्रयोदशनवदशभिर्द्विदशनखै-श्चैव। संयुक्तस्त्वशुभकरः सप्ताष्टाभिश्च पापनखैः। द्विर-दाश्चाष्टादशनखाः विंशतिनखयुक्ताश्च शुभाः। कुरुतेस्वामिविनाशं द्वाविंशतिनखोयश्च। एकोनविंशतिनखोयुवराजविनाशं कुरुते। सप्तदशनखस्तु गजो नरपतिपात्रविनाशने समर्थः। षोडशनखमातङ्गोनायकनाशं ध्रुवंकुरुते। पञ्चदशनखश्च योऽसौ सेनापतिनिधनकृद्गजो भव-ति। कुरुते चतुर्दशनखोव्याधिं पुरवासिनां हस्ती। त्रयो-दशनखो राष्ट्रवित्तविनाशङ्करोति भूपस्य। द्वादशनखस्तुकुरुते पदातितुरगक्षयं संख्ये। एकादशनखयुक्तीनजहानिकरो भवेत् स गजः। पुरदाहं च दशनखःकरोति हस्ती दुरालोकम्। चतुरङ्गस्य बलस्य ना-शवन्तु नवनखो गजः कुरुते। अष्टनखश्च पुरोहितबंशसमुन्मूलनसमर्थः। सप्तनखः प्रतिहारं नाशयतिच षड्नखोऽमात्यम्। पञ्चनखो भक्तिकरं चतुर्नखो द्वार-पालञ्च। त्रिनखोविषयाक्षेपं द्विनखश्चान्तः पुरानुबन्धञ्च। एकनखोनखरहितोराष्ट्रविनाशं ध्रुवं कुरुते। एवम्भूत-नखाये नरपतिना न ते गजाग्राह्याः। लाक्षमञ्जिष्ठा-भोऽतिलोमशोहीनकर्णकरबालः। हस्ती विवर्जनीयोहीननखः पूतिलोमा च। ज्वलनकृतं शस्त्रकृतं दुर्भिक्ष-कृतं महद्भयं कुरुते। यस्मिन् देशे वसति नाशयति वनस दुष्टात्मा। यस्य न भवतोदन्तौ ज्वलनकृतं दुर्भिक्षकृतंमहद्भय कुरुते। यस्मिन्देशे स वसति नाशयति वनं सदुष्टात्मा। यस्य न भवती दन्तौ कुलरूपवतोऽपिं गर्भ-दोषेण। स गजोमत्कुणनामा न तं रणे योजयेद्राजा। [Page0973-b+ 38] कुञ्जरघटागतोऽसौ हरति गजानां बलं च सत्यञ्च। अतएवसमरकाले नराधिपैर्वर्जनीयश्च। तनुह्रस्वदीर्घदन्तोह्यति-सङ्कटवक्रविघटितविषाणः। एकदशनस्त्वधोमुखरदनश्च गजःप्रभंत्यजति। रदनविहीनो हस्ती निःशेषलक्षणयु-तोऽपि। भवति न नृपतियोग्योमदजलसंसिंक्तं ग-ण्डोऽपि। दूषितविरहितदीने सत्वरहिते विव-र्णे च। निष्प्रभकुञ्जकुहरे राजा नारोहति सन्नाहरहिते च। एवम्भूतास्त्याज्याः मित्रनाशका रणे करिणः। अक्षिभ्यामश्रुजलं निपतति नागस्य यस्य नित्य हि। नयनव्याधिवियुक्तस्य तस्य भर्त्ता रणेम्रियते। वद्धनशीलाश्चनखा भर्तुश्चैव संबाधनकराः। जिह्वानखमुखमेह-ननयनानि भवन्ति यस्य कृष्णानि। बाहित्थचित्रकृष्णः स गजोभर्तुः क्षयं कुरुते। बाह्यांसफलकपीठीराजन्! कृशेन पृष्ठवंशेन। वदनेन च कपिवदनानुका-रिणानिन्दितो हस्ती। कर्णौ दन्तौ च समौ न नतौ भवतीयस्य नरनाथ!। स नराधिपबलविनाशकरः करीजायतेसमरे। चित्रौ रोमचितौ वा स्थूलौ वातिप्रलम्बिताग्रौ वा। कोषौ कोषविनाशं स करोति नागश्च भूपानाम्। सितबि-न्दुभिर्विचित्रंश्वेतं वा यस्य जायते मेढ्रम्। स गजःशक्तिविनाशङ्करोति भूपस्य संग्रामे। छागस्येव विचित्राणियस्य देहे भवन्ति रोमाणि। स गजःप्रतिगजबलेनविह्वलो निजबलं दहति। सुप्तोत्थितस्य वदनात्यस्य गजेन्द्रस्य गलति रुधिरजालम्। ज्वलनकणं मुञ्चतिशश्वदसौ भर्तृनाशकरः। इति कथितं तव नृपते!दुष्टमातङ्गलक्षणं सम्यक्। पापकरिण्यालक्षणमतःपरं संप्रवक्ष्यामि। यल्लक्षणं मयोक्तम्भद्रादीनां शुभंच दुष्टं च। तत्करिणीष्वपि योज्यं जातिविभागेन चयुक्तासु। सुलक्षणेन ललितानि करेणुकानामङ्गानिभवन्ति। युवतिसदृशान पुरुशोचितानि च तथा पीनान्य-ङ्गानि करेणूनाम्। गजसंस्थाना करिणी निर्मतदन्तासुपीनकाया च। स्थूलायता च सततं प्रभूतदया मता-च करिणीनाम्। प्राच्यवनसमुद्भूताः प्रायेण लक्षणयुताभवन्ति करिण्यः। सुलक्षणेषु च च्छाया लक्षणं प्रधानंतच्च पञ्चविधं भवति। पृथिव्यप्तेजोवाय्वाकाशात्मकम्। तत्र पृथिव्यप्तेज आत्मकं प्रशस्त वाय्वाकाशात्मकमप्र-शस्तम्। क्रमेण च्छायाभिधीयते बलोपचयपशेनसमुतपद्यते। तस्यैव देहोद्द्योतजननी स्थिरा प्रभाऽ-भिधीयते। छायाफलस्य द्विगुणपा{??}समादनसमर्था प्रभा[Page0974-a+ 38] भवति। छाया देहसमाश्रिताः स्थिरप्रभावाऽस्थिरा च्छायायलोपचयवशेन सुमुत्पद्यते। नरेन्द्रस्यैवोद्योगकाले शुभ-कर्मफलसूचनार्थं गजस्य प्रभा प्रकटीभवत्येव। एवं छाया-गतो भेदोऽवगन्तव्यः। साम्प्रतं छायारूपमभिधीयते। स्निग्धा गम्भीररूपा पार्थिवी च्छाया भवति। स्निग्धाजी-भूतसन्निभा च सलिलसम्भूता, स्निग्धा रक्ता च ताम्रा चतेजसी च्छाया। त्रयं चैतल्लक्षणंशुभमशुभलक्षणानि गजस्यस्तम्भयित्वा सुखप्रदं भवति। अथाशुभा कथ्यते निःप्रमापरुषा रूक्षा भस्मनाकुलवर्ण्णा च वाषवी। रूक्षा तन्वीकृ-ष्णादिविविधवर्ण्णा आकाशात्मिका। इत्थं छ्याद्वयमतिगर्हितम् गजलक्षणानि तिरस्कत्याशुभप्रदम्भवत्यनेन प्रका-रेण च्छायालक्षणमुत्तमं भवति। विकटह्रस्वबालवृद्धकृशा-ङ्गहीनाङ्गेषु व्याधिपीडितविकलाङ्गेषु गजेषु ना-रोहति राजा भृत्याश्चैतेष्वारोहन्तीति। यादृशं चसमरकाले मातङ्गं राजा समारोहति तादृशस्य लक्षण-मभिधीयते। बलं कण्ठै स्थितं नित्यं कुञ्जराणां नरे-श्वर!। अतःसंपूर्णकण्ठस्तु शिखिपिङ्गललोचनः। घन-मांसचितांसस्तु दिशोऽवघ्राणतत्परः। वराहजघनश्चैव सुवि-षाणोवराननः। सुप्रतिष्ठितपादस्तु यः स्यादगुरुमक्षिकः। प्राजापत्योगजोह्येष संग्रामार्हः प्रकीर्त्तितः। मधुपिङ्गल-दन्तोयः किकिवापीतकच्छबिः। रोमाणि चैव रूपाणिमुख च कमलप्रभम्। रक्तोत्पलदलच्छाये सूक्ष्मे तीक्ष्णेच लोचने। ऐन्द्रोगजस्तु विज्ञेयोरिपुवृन्दविनाशनः। ताम्रतालुकजिह्वोष्ठसुजातनिविडापरः। पीनोन्नतशरी-रस्तु रक्तकोकनदच्छविः। आयतेन तु दन्तेन करेण मुख-शोभिना। पीयूषपिङ्गदन्तो हि गजःकौवेर उच्यते। तरु-णाम्बुदसंकार्शीघृतप्रभविषाणभृत्। संपूर्णकण्ठपादस्तु सं-पूर्णसममस्तकः। मृदङ्गध्वनिगम्भारनादपूरितदिङ्मुखः। आयतेन च हस्तेन सीकरोत्किरणप्रियः। वारुणोऽयंगजोराजन् संग्रामेष्वतिपूजितः। कण्ठस्त्रिवलिसंयुक्तःसंपूर्णोयस्य दृश्यते। लोचने ताम्बपिङ्गे च दन्तौ केत-कसप्रभौ। पादौ च वलिनौ यस्य पीनगात्रसमांसलौ। पृथुलौ विन्दुचित्रौ च कर्ण्णौ चातास्रपल्लवौ। ऐशानोऽयङ्गजोराजन्! रणकर्मणि युज्यते। तालुन्युरसि वक्त्रे च पक्षयो-रुभयोरपि। आताम्रा यस्य दृश्येत च्छाया मृदुतनूरुहा। असौ सौम्यस्तु विज्ञेयः कुञ्जरः समरोचितः। अर्चिःपिङ्गलरोमा यः केशैश्च श्वेतपिङ्गलः। पिङ्गलाक्षिविषाणश्च रक्तपुष्करतालुकः। आग्नेयः स गजोज्ञेयस्तेजसाग्निसम-[Page0974-b+ 38] प्रभः। राज्ञा बुद्विमता नित्यं धार्य्यः समरकर्मणि। कृष्णवर्ण युताग्राणि मुखश्रोतांसि लोचने। निर्घूंमाग्निस-मच्छाये भूलग्नश्च करस्तथा। कायश्च पीननासःस्याद्वेगेवायुसमः शुभः। राजनु। वायव्यमिच्छन्ति तङ्गजंशास्त्रकोविदाः। संख्ये नियुक्तश्च गजोनाशयेद्रिपुवाहि-नीम्। निरङ्कुशत्वं चण्डत्वं तस्य दोषद्वयं भवेत्। निर-ङ्कुशत्वं शमयेत् प्रयोगाश्वासनादिभिः। चण्डत्वं च तथानित्यं सुकुमारक्रियादिभिः। रोमाण्यञ्जनरूपाणि नखाःशङ्खसमप्रभाः। निस्त्रिंशविमलच्छायः स भवेद्वैष्णवोगजः। स वैरिणं जयेद् राजन्! रिपुसैन्यविमर्दनः। कुम्भवक्त्रःकटौ यस्य निस्त्रिशघनसंनिभौ। बिन्दुभिश्चित्रि तं यस्यस विचित्रश्रवो गजः। तेन संग्रामकर्माणि कुरुते यो नरा-धिपः!। नित्यं चारिजयं तेन स राजा फलमश्नुते। सुदन्तो दीर्घहस्तश्च वृहदङ्गुलिपुष्करः। घनमांसशरीरश्चकूर्म्माकारोहि सत्तम!। सांग्रामिकोनजोह्येष जीवत्यपिसमाशतम्। संग्रामविजयी नित्यं प्रतापजननक्षमः। महा-शिरा महाकायो महामेढ्रो महाकरः। महादन्तोदरश्चैवमहानागोवरासनः। महानेत्रो महौष्ठश्च महाकर्णोमहा-मुखः। महामदो महाकण्ठो भवेत्सांग्रामिकोगजः। यद्भ-द्रलक्षणं पूर्वमुक्तं नृप! तच्छुभमेव हि। मन्दस्यापि हिशस्तं स्यदाद्द्वावेतौ च महागजौ। संपूर्णलक्षणोपेतोन भवेच्च महीतले। अनयोरेव भेदास्तु नागानां समुदा-हृताः। सांग्रामिका द्विपा रजान्! शुभलक्षणलक्षिताः। कथितास्तव तत्त्वेन राजसौख्यकरागजाः”। आभिषेच-निकगजलक्षणं तत्रैव।
“पीनमांसचितांसश्च कूर्म्माकारनख-स्तथा। समवचितसांसस्तु सुवृत्तः कल्पनापरः। छानकुक्षिःसुपार्श्वश्च रोमानाहसमन्वितः। ज्वलनोज्ज्वलनेत्रस्तु सुविषा-णो महाकरः। संपूर्णचिबुकश्चैव क्रमायामोरयान्वितः। बलसत्वसमायुक्तः स्निग्धच्छविमनोरमः। सांग्रामिको भवे-ष्ट्राज्ञ आभिषेचनिको गजः”। ( तत्रैव पालकाव्ये गजहृदये।
“आयुः सविंशति शतं मानंस्यात् सामजन्मनाम्। राजपुत्र! दिशाम्येवमायुष्यादिदशादश। लक्षणानि वदे तेषां क्षेत्राण्येवं विषाणिनाम्। लक्षणालक्षणं ज्ञेयमायुष्यादिदशाफलम्। क्षेत्राणिहस्तौष्ठमुखं दन्तौ शीर्षं च चक्षुषी। कर्णौ ग्रीवा च गात्रञ्चवक्षः कार्य्यस्य भेदतः। लक्षणं सन्निकृष्टं यद्बिप्रकृष्टञ्च यद्भ-वेत्। मतञ्चित्रबलोपेतं प्रभूतञ्ज मनीषिभिः। तुल्ये कुलेवने जातौ प्रचारे यत्तु लक्षणम्। दशायाञ्च तदाख्यातं[Page0975-a+ 38] घ्रभूतमिति सूरिभिः। दक्षिणन्दक्षिणाङ्गं च हस्तिनः पुण्य-दं मतम्। तथा वामं च वामाङ्गं हस्तिनीफलदं मतम्। लक्षणं दक्षिणाङ्गोत्थं फलं भूमिभुजां मतम्। महद्व्यक्तंभवेयद्यच्च लक्षणं तन्महाफलम्। यदल्पमप्रकाशञ्च तद-ल्पफलदं मतम्। मध्यमानफलं मव्यं लक्षणंतु समादिशेत्। शुभाशुभेन मिश्रेण बहुत्वेनादिशेत् फलम्। कदाचित्शुभद चास्य गजानामप्यलक्षणम्। शुभकर्म्माणमासाद्य-राजानमथ वा द्विजम्। यथा हि सर्वसरितः समुद्रं समु-पेत्य हि। स्वरसेन वियुज्यन्ते मवन्ति लवणाम्भसः। एव-मासाद्य भर्त्तारं बहुलक्षणलक्षितम्। भवन्ति बाधिता-नीह दुर्लक्षणफलानि च”। इत्युपक्रम्य गजदेहस्थानवि-भागनामभेदस्तत्रैव दर्शितः। यथा
“विषाणयीर्यस्तिर्य्यक्स्या-दायताग्रो ग्रहोऽपि सः। किविवा च ग्रहस्याधःकुम्भो-परि च बिम्बकः। अथ ग्रहोपरिस्थोऽपि पुरष्करोऽपिभवेत्तथा। तथा ग्रहोपरिस्थे च किविवोपरिभागके। वाहित्थोपरि केशाश्च मस्तकं च तथा मतम्। स्यातां म-स्तकपिण्डौ च मस्तकस्थश्च विन्दुकः। तथा विन्दूपरिस्यातांवितानौ विन्दुपार्श्वतः। ततोऽन्तरवितानं च पृष्ठं तत्र वि-निर्दिशेत्। विन्दुवितानयोश्चान्तः पुरस्तात् पाकिलौ किल। नीचे मस्तकपिण्डाद्धि वितानविन्दुपाकलः। निर्याणं चवितानोर्द्ध्वं कर्णौ वापि ततः कटौ। कटयोः श्रोतसीवापि कटस्वावस्तयोरधः। पृष्ठतः कटिसंधी च गण्डौ चकटयोरधः। कटगण्डान्तसद्भागे घाटसन्धी च घाटके। घाटासन्ध्युपरिष्टाच्च कर्णसन्धिसमीपगे। श्रवणे गात्रग-ण्डाधःकपोलौ च तदन्तरे। रोमकूर्चौ च पादौ च कपो-लाधस्तथा मतौ। ततः सगदसन्धी च सगदान्तरमत्र च। आसगदात् हन्ववघिः प्रदेशः शिरसोमतः। अक्षिकूटाबुप-र्य्यक्षावुभाबुपरि वै तयोः। गुहेवाक्षाऽधरः स्यात्तु नेत्रस्रावौतयोरधः। अपाङ्गावक्षिबाह्ये च तत्सन्धी चाक्षिपृष्ठतः। पक्ष्मणोर्मण्डले चाथ तत्{??}न्धी वर्त्ममण्डलौ। वर्त्ममण्डलसन्धी च ततश्च श्वेतमण्डले। श्वेतमण्डलसन्धी च ततःकृष्णे च मण्डले। तत्सन्धी च ततः कृष्णे सत्सन्धीवर्त्ममण्डले। तयोरपि तथा सन्धी प्राग्भागे चक्षुषो-रपि। कनीनिके समाम्नाते सन्धी तत्र तथानयोः। इत्यक्षिगतदेशानां समुद्देशो भवेदिह। किल वित्तौ चकर्ण्णौ च कर्णयोश्चूलिका ततः। तदधः कर्णपिप्पल्यौबलिके द्वे प्रदेशगे। कर्णमस्तकसन्धी च पश्चात् कर्णापव-र्त्तयः। तदन्तश्च समस्थानावुद्घातौ परिकीर्त्तितौ। कर्ण्ण-[Page0975-b+ 38] चूलिकयोरग्रे पिङ्गलाख्यौ च भाषितौ। पुरस्तात् कर्णपिपल्याः कर्ण्णसंवेशचर्मणी। कर्ण्णान्तः कर्ण्णनाड्यौ च लम्बे-तां तस्य भागतः। तयार्वीथिःकवन्धश्च सशङ्खमध्यकर्ण्णयोः। कर्ण्णसन्ध्योरधस्ताच्च तथाधःसन्धिसंज्ञितौ। तदधःकर्ण-पाल्यौ च प्राक् कर्णोपरितस्तयोः। नाडीपार्श्वगतौ चात्रमध्यकर्ण्णौ तयोरधः। अधःकर्ण्णौ समाख्यातौ बहिःकर्ण्णा-पवर्त्तयोः। पार्श्वकर्ण्णौ बहिःकर्ण्णौ कर्ण्णयोश्च क्रमाद्बहिः। अन्तरान्तरकर्ण्णौ च पर्य्यन्तकर्णपाशयोः। अधस्ता-च्चेति भागाः स्युः कर्ण्णयोः करिणोऽपि च। ग्रीवायाःप्राग्भवोभागो ग्रीवा सन्धिस्ततस्तथा। ग्रीवापृष्ठं तत-स्याच्च मध्ये तच्च कृकाटिका। ग्रीवापृष्ठे तथाधस्ताद्गल-माहुर्द्विपस्य च। अधःकण्ठस्तयोश्चोर्द्धं मन्ये ते गलकण्ठ-योः। धमन्यौ कण्ठपार्श्वे च तयोश्चाबलिपिण्डिका। गलस्य पार्श्वयीरूर्द्ध्वं दर्दुरौ चात्र निर्दिशेत्। गुहे मन्यो-परिस्यातामुपरिष्टात्तयोस्तथा। किविकौ च तथा चोक्तौपश्चादुपरि चैतयोः। पार्ष्णिघातौ च संख्यातौ पार्ष्णि-घातान्तरे तथा। उत्सङ्गावुपरि स्यातां स्कन्धादूर्द्धं तथा-नयोः। तन्मध्ये पणवश्चोर्द्ध्वमिति ग्रीवांशसंग्रहः। (हस्ति-पकेन पार्ष्णिभ्यां यौ देशौ हन्येते तौ पार्ष्णिघातौ) गात्र-मात्रमायतं च भवेदासनमादितः। तत्पार्श्वयोः प्रतीकाशौतावंसौ च तयोरधः। तदधःप्रत्यगंसौ च तथैवांसफले तथा। तदधस्तात्ततोबाहू ततोबाहूत्तरं तथा। अर्वागत्र गुहे तत्रबाहुपृष्ठोद्भवे अपि। अपारे च तदूर्द्ध्वं च तयीस्तद्भाविकौतथा। पाल्यावथाङ्गादूर्द्धञ्च तयोरायामपृष्ठतः। पाल्यन्ताङ्ग-पुरस्ताच्चभुजयोरुदितौ यवौ। यवभागोपरि तथा पुरस्तात्फलकोच्छ्रितौ। पिण्डिकाधश्च वेमाख्यौ विशोषौ यव-योरधः। उत्सङ्गौ च विशोषाधः प्रहौ चापि तयोरधः। तत्सन्धी च ततः पर्व्वसन्धानौ तदधोमतौ। तदधःपालिपादौ वै कूर्चौ चानु तयोरधः। तदधोनखकूर्चाश्चततो नखशिखा दश। पुरःपुरोनखौ नाम्ना सनखौ चैवविस्तृतौ। तत्पश्चात्तु नखग्रीवा विशोषाः पार्श्वतोनताः। अन्तःपार्श्वबहिःपार्श्वे स्यातां पार्श्वनखेषु च। कवासराजयश्चात्र पादनाहाविकास्तथा। तलसन्धी ततः स्यातांतले च तदनन्तरम्। तलप्रदेशपुरतस्तत्परा नखबुध्नतः। तलकर्षौ ततः पश्चात् तलप्रहौ ततःपरौ। तलयोरन्तरंचैव हृदये च करीरके। किंविनोराजयश्चेति तलसद्भाविकाअपि। पलहस्तौ ततः स्यातामन्तर्बाहू ततोऽन्तरे। बहिर्बाहू बहिश्चोर्द्ध्वं गात्र सर्वं ततोऽपि च। कक्षौ गात्र[Page0976-a+ 38] प्रहोर्द्धञ्च कक्षयोरन्तरं ततः। इति प्रदेशा गदितागजानां गात्रगोचराः। कण्ठस्यान्तर्मणिः पूर्वं ग्रीवापर्वसमाश्रयः। उरोमणिः समाम्नातस्ततः स्यादुरसः स्थितिः। याऽधोभा पार्श्वगा तत्र गात्रसन्धिसमाश्रिता। आवर्त्तमणिरप्यत्र विक्षो भास्वरसङ्गतः। ततः सन्धिकरस्तु स्यात्तस्याधःस्तनयोः पुरः। मात्रयोरन्तरं चापि चतुरक्षान्तरं भवेत्। अधःस्तनौ च स्तनयोरन्तरे चाथ चूचुके। स्तनान्तौ स्तन-कूर्च्चौ च क्षीरिकौ चापि कूर्चके। चतुरक्षान्तरालं च भवेच्चूचुकयोरधः। स्तनयोरप्यधस्ताच्च पुरस्तात् स्तनयो-र्भवेत्। हृदयं चास्य पार्श्वस्थावायामौ च बहिस्तयोः। स्यातामायामकाण्डौ च तदघोविवशौ ततः। ततः क्रोडंपदाधस्तात् पश्चाच्चायामकाण्डयोः। रन्ध्रे चापरवस्तिश्चस्तनयोरप्यनन्तरम्। जठरे नाभिरित्येते प्रदेशाः किल व-क्षसः। आपराङ्घ्रिपरःशेफोरेतःस्रावावघिः स्मृतः। ततो-ऽण्डकोषसन्धिः स्यात् कोषसन्धिश्च शेफतः। क्रमान्-मेहनमत्र स्यात् मेढ्रसंज्ञो भवेदपि। आनिर्गमात्तथा तस्यबाहुपार्श्वगतौ मतौ। अग्रतस्तत्र ककुदं तस्याश्री पा-र्श्वयोरपि। मेहनस्य पुरःस्रोतो वङ्क्षणौ कोषपार्श्वगौ। अपराश्रयिणी शुक्रे तथा वङ्क्षणमध्यगे। इत्यण्डकोष-भागाः स्युः क्रमादासनमुच्यते। तदन्तश्चासनञ्चोर्द्धं वक्र-वंशस्य पृष्ठतः। भवेदपरवंशश्च ततोन्यच्चाध आसनम्। पश्चिमासनमप्यस्य पृष्ठतः परगस्य च। अत आस्तिप्र-देशश्च ततो वंशश्च बालधिः। (आस्तिरासनम्)। आ-श्रयेत्यभिधानाश्च भागाः पश्चान्निषादिनः। स्यातां चतत्पलाधस्तात् पक्षसन्धी तथा ततः। स्याताञ्च पक्षपार्श्वेच गर्मूकाश्चक्रमादपि। पक्षाधोनन्तरौ चानुकुक्षी पक्षसमा-स्तुती। निष्काभौ मध्यगौ तत्र शङ्कूचैवोर्द्धमध्यतः। कक्षाभोगौ काकपक्षौ शङ्कुच्छायाकरौततः। उत्कृष्टौकु-क्षिपश्चाच्च त्र्यस्थिपार्श्वगतावपि। कालकोत्कृष्टदेशानां पा-लवंशश्च पार्श्वयोः। कालके पिण्डिके चाधो विद्याच्चापर-योः स्थिते। उत्कृष्टपिण्डिका त्र्यस्थिस्थानमेवालम्बनम्। जघनं परतोऽस्माच्च एवं कालवका दश। भवेत् पायुश्च पा-योस्तु गुदमभ्यन्तरं तथा। वहिर्गुदस्य वर्त्मस्यात् गुदान्तःकन्दरं विदुः। विलपाय्वन्तरे कक्षौ तथा पिण्डिकयोरपि। अधस्तादन्तरे किंविन्यन्तरे तस्य संस्थितिः। पिण्डिका-घथ मण्डूक्यावष्ठीलौ पिण्डिकान्तरे”। अवयवप्रमाणभेदा-स्तर्त्रव।
“पिण्डिकारत्निकामाना पुष्करोऽपि भवेत्तथा। कर्णसन्धिर्भवेच्चापि तच्चारत्निप्रमाणतः। कर्ण्णापवर्त्तौ[Page0976-b+ 38] पाल्यौ च स्यातां हस्तसमुच्छ्रिती। कर्ण्णाश्री च तथाविद्याद्विस्तारे द्वादशाङ्गुले। कर्ण्णाश्रावपि हस्तौ द्वावायामपरिणाहतः। कर्णवर्त्तिं विद्धि कर्णप्रमाणेन च रत्निकाम्। शिर आसनमुद्दिष्टं मानेन त्रिकहस्तकम्। शिरसस्तु प्र-माणेन स्यात् षडङ्गुलमासनात्। आसनेन समंशीर्षं क-ल्याणकरमित्यपि। यस्यासनं च नीचेन शिरसः स्यात् षड-ङ्गुलम्। अवाग्रो नाम स प्रोक्तो गजोनिन्दितलक्षणः। शिरो यस्य भवेदुच्चमासनाद् द्वादशाङ्गुलम्। सोऽभ्युद-ग्राभिधानेन लक्षणादासनं भवेत्। आसनं वङ्क्षणोद्देशाद्ग्राहश्च पक्षभागतः। मञ्चसमानफलक उत्कृष्टोऽष्ठीस्थितो-ऽपि च। अष्टीत्येवं समाख्यातं लक्षणादासनं भवेत्। ह-स्तद्वयप्रमाणेन पेचकात् पश्चिमासनम्। द्वादशाङ्गुलनिम्नंस्यादासनात् पश्चिमासनम्। सार्द्धहस्तत्रयं चाधः प्रमाण-मपि बालधेः। सप्ताङ्गुलप्रमाणेन पायुश्च परिमण्डलः। अरत्निपरिमाणेन विदुस्तद्वद्गुणान्तरम्। अरत्नितोऽघिकंयस्य विस्तरेण स्तनान्तरम्। तिर्य्यग्रोमचयं गात्रमरिभ्यःशीकदोगजः। अरत्नित्रयमानेन नाभिदेशस्तनान्तरम्। नाभिश्च भूत्रकोषश्च गुदारत्न्यर्द्धमानतः। अण्डकोषश्च ह-स्तार्द्धप्रमाणेन समन्वितः। द्वे चारत्नी तथार्द्धं च कोष-मानं भवेदपि। सोऽर्द्धहस्तद्वयायामोहस्तानाहयुतोमतः। प्रौहे तु परिणाहः स्यादरत्निद्वितय तथा। हस्तयोश्चार्द्धमानं स्यात् चतुर्भागेण संयुतम्। तलस्य पार्श्वतः प्रौहाव-रत्निप्रमितौ मतौ। चतुर्भागयुतारत्निर्भवेन्नम्रतलोपरि। अष्टाङ्गुलप्रमाणेन स्यातां ततः पुरोनखौ। सप्ताङ्गुलश्चाप-नखः पार्श्वे पञ्चाङ्गुलानखाः। चतुर्विंशत्यङ्गुलञ्च भवेद्गात्रा-परे तथा। अपराभ्यां भवेद्ग्रन्थिररत्न्यर्द्धेन मानतः। अर-त्निश्च तलायामोभवेच्च करयोरपि। सप्ताङ्गुलास्तु वैशोषाःपाल्योः पार्श्वनखास्तथा। पञ्चाङ्गुलास्त्र्यङ्गुलाश्च नव-चापि नखा मताः। इत्यङ्गमानं नागस्य दिङ्मात्रमिह-दर्शितम्। समाङ्गा अपि माताङ्गा दृश्यन्ते दुःखदाःक्वचित्। दृश्यन्ते विषमाङ्गाश्च क्वचित् कल्याणदायिनः। तस्मात् प्रमाणं केषाञ्चिदप्रमाणतया मतम्। प्रमाणं कृत-साचार्य्यैः सर्वैर्लक्षण वेदिभिः। अथाङ्गसङ्गमात्तावत् मात-ङ्गानां गुणागुणाः। भूयोऽन्यगुणदोषाभ्यां प्रसङ्गात्कथिताः पुनः। उपरिक्रमतो वृद्धो नातिस्तब्धोमृदुस्थि-तिः। वृत्तम्निग्धाच्छरोमा च लोहिताङ्गुलिषुष्करः। स-र्व्वव्यक्तप्रमाणश्च गजः कल्याणकारकः। भाग्यप्रदी बाल-हस्तस्तथायततनूरुहः। अर्थदो हीनविन्दुश्च गजो दुःख-[Page0977-a+ 38] प्रदो मंतः। द्विपामृत्युकरा ह्रस्वा हीनपार्श्वाश्च वृद्धिदाः। पुष्करं हीनमव्यक्तं विद्याद्भर्त्तृविनाशनम्। युक्तमाने निगा-ले च निर्मलश्रोतसी शुभे। सुसमाहिते च स्यातामुत्पलाग्रसमद्युती। उन्नद्धौ क्रमवृद्धौ च सिग्धावभ्यु-दितौ समम्। दक्षिणौ च समानौ च प्रहारप्रगुणच्छवी। ततः प्रदक्षिणावर्त्तावुदात्तौ दन्तिनां रदौ। करस्पृगा-कृती चापि श्वेतास्थिसदृशद्युती। विषाणे च तथा म्यातांचापाग्रे वारणस्य च। यो दक्षिणैकदन्तस्य श्रिया तुरहितो गजः। वामैकदन्तो दन्ती च दुःखदः सादि-नोमतः। दशां प्राप्य चतुथीं च द्वितीयां यस्य न द्विजौ। स्थूलावनायतौ स्यातां स मूढो नाम दुर्गजः। ऊर्द्धसं-स्थानवक्रौ च प्रतिमानगतौ न वा। युयुत्सामिव कुर्व्वाणायस्य बालाः सदुर्द्विपः। दन्तौ हलोपमौ यस्य दीर्घौपार्श्वेन चोन्नतौ। दक्षिणेन विषाणेन वामदन्तदरन्तथा। कारयेद्यस्तु मातङ्गो वामदारी स वै भवेत्। तथा दक्षिण-दारी च दक्षिणदरणं तथा। वामेन कारयेन्नोष्टो यातुःस्वामिनएव सः। तथा हलविशालेन दन्तेनैकेन दन्तिनःस्थूलेनाखर्वदीर्घेण दुःस्थिताख्योऽपि वर्ज्जितः। अन्तर्न-ताभ्यां सद्दन्तः कुदन्तोऽपि नतावघः। कूपे वामोन्नतिश्चापिरदाभ्यां द्विरदः क्वचित्। दन्तदुर्वाससाख्यो हि द्विरदो-मध्यलक्षणः। बहिर्नतौहस्तलम्बौ रदौ यस्य स दुर्गजः। कृष्णायतौ रदौ मूले विनहिन्ति मदागतिम्। श्यामलाकाररदनाग्रन्थिमद्दशनास्तथा। दुर्जाता विषमा वक्रफलकाश्चकृशास्तथा। आतदीर्घातिह्रस्वाश्च वदनेनाघशंसिनः। त्रिरत्निमितमेढ्रस्य पञ्चरत्निमितोरदः। यष्टिदन्तोनुकथितोराजपुत्र! मनीषिभिः। प्रपूर्णं प्रतिमानञ्च ताराभं बलि-वजितम्। सूक्ष्मविन्दु समानद्धं मृदुत्वक्कायरोमशम्। स्वायतंपृथुबाहित्यं सर्व्वगात्रसमाहितम्। रक्तौष्ठतालुदशन-विलग्नमुस्त्वणस्थितिम्। तं राजा वर्जयेत् युद्धे शुभलक्षणवर्जितम्। बालार्कसदृशे यस्य हरिवर्णविलोचने। मनःशि-लाप्रभे वापि हर्यक्षोऽसौ सुभिक्षदः। पद्मापाङ्गे च विपुलेसुप्रसन्ने सितासिते। यस्याक्षिणी सचाक्षिभ्यां विभक्ताख्योहितप्रदः। यस्यतुङ्गे च नयने महती दृष्टिमण्डले। स्नि-ग्धनिर्मलवर्ण्णश्च तारकाक्षः स सम्मतः। यस्यासृजः समाभासे वृत्ताकारे विलोचने। पारावताक्षं नागं तं प्रशं-सन्ति शिवप्रदम्। ह्रस्वे नात्यायते नेत्रे प्रसन्ने सूक्ष्मद-र्शने। यस्य स्यातां सचाध्यक्षो वारणः शुभलक्षणः। ईषद्गैरिकसङ्काशे दृश्येते यस्य चाक्षिणी। ध्वाङ्क्षाक्षः[Page0977-b+ 38] स विनिर्दिष्टो दुर्भिक्षारिभयावहः। कृष्णापाङ्गे शुभेनेत्रे कांस्यसदृशसप्रभे। यस्य स्यातां भवेच्चायं शूकराक्षास गर्हितः। समन्ततो नोपचिते संसृष्टे च मनाग्दृशौप्रौढाकूटौ यस्यापि विष्वगक्षः स दुर्भगः। वैषम्याद्विष-मप्रेक्षी नेष्टो हरितया दृशा। तथा निष्प्रभया दृष्ट्यावर्ज्जितः कालपिङ्गलः। तन्द्रीर्यस्यानुदृश्येत विरूपं वि-षमं तथा। तथैव तिर्य्यग् दृक् हस्ती तिर्य्यक्प्रेक्षी मदूषणः। अधःप्रेक्षी च यो यः स्यादूर्द्धगामिविलोचनः। सदृशो बभ्रुमार्जारप्रभृत्यमतचक्षुषाम्। स स्यादनिष्टदृक् हस्ती तिर्य्यक्प्रेक्षी च दूषणः। अधःप्रेक्षी च स-ज्ञेयो मृदूर्द्ध्वगामिदर्शनः। दृष्टिः स्निग्धा प्रफुल्ला चसुस्थितामलतारका। ऊर्द्ध्वपक्ष्म प्रसन्नस्य वारणस्य विलो-क्यते। उदग्रतारको नाम्ना साम्ना पार्श्वविसर्पिणी। विस्तब्धाचलपक्ष्मा तु कुपिताऽनेकपस्य दृक्। सर्वाङ्गलक्षणे-भ्योऽपि चक्षुर्लक्षणमुत्तमम्। इत्येवं लक्षणज्ञानां पूर्वेषा-मनुशासनम्। प्रशस्तनेत्रे द्विरदे नृपोभद्राणि पश्यति” मस्तकादिलक्षणन्तु प्रायेण बार्हस्पत्योक्तलक्षणसममित्यत-स्तन्नोक्तं यत्र विशेषस्तदुच्यते।
“एककूपप्रजातानिस्निग्धानि च मृदूनि च। रोमाणीष्टानि रोम्णाञ्च पेच-को दक्षिणाङ्गजः। लाङ्गूलस्यैव रोमाणि दृश्यन्ते यस्यहस्तिनः। संहतानि विचित्राणि स पूज्यो वारणोरणे। ”( करिणो वामनत्वादौ कारणान्तरं तत्फलञ्चोक्तं तत्रैव
“वाय्वाकाशगुणाधिष्ठपृथिवीगुणसर्ज्जनात्। जायतेकिलमातङ्गः कुब्जो वा वामनोऽपि च। यतो भूतगुणोऽन्योन्यम-धितिष्ठति मानतः। तैर्गुणै र्जायते खर्वा दन्तीति मुनयो-विदुः। हीनाङ्गोहानिकारी स्यादधिकाङ्कोऽधिकं हरेत्। राष्ट्राहितौ भवेताञ्च खञ्जकुब्जाविति स्थितिः। आयामानाहसंयुक्तो हृस्वाकारो हि वामनः। नष्ठीव्यन्तरनिर्याणोमहास्थिसगदोऽपि च। अस्थिश्वेतौ च रूक्ष्मौ च दन्तौयस्याश्रितौ करम्। स चालयित्वा राजानं हत्वा वाथ प-लायते। ह्रस्वमेढ्राङ्गुलिकरः श्रोत्राश्रिश्वेतरोमयुक्। कपि-कौशिककाकाहिनकुलप्रख्यलोचनः। कालापङ्गलनेत्रश्च त-न्वाननहनुस्तथा। बल्या समाननिर्याणः प्रत्यग्रपृथुपेचकः। मण्डूकाभरुचित्वक् च सास्नानलसमोऽपि च। परिमण्डलकर्णश्च स्पष्टध्वाङ्क्ष शिवध्वजः। प्रौढोन्नताक्षि कूटाक्षः सकिला-साङ्घ्रिमेहनः। व्यालैत्यवगन्तव्यो निर्मदो दन्तिदूषणः। सबली यस्य सदानौ प्रौहौ चापि कचाचितौ। चिवुकेचायतस्थूले व्रणैश्च तनुराबिला। अधोवक्त्राणि रोमाणि[Page0978-a+ 38] हनू च कृशरोमगे। सुढक्काकृतयः पादा डिम्बैत्यपि विश्रुतः। आस्यौष्ठतालुरसनाः काल कल्माषकान्तयः। कर्ण्णौकचाचितौन्यूनौ ताम्बवर्णश्च बालधिः। कराभिप्रेषणासक्तौ मानोना-ङ्गुलिपुष्कले। स्थूले च पक्ष्मणी नेत्रप्रभे दुष्प्रेक्षणे तथा। दुर्बद्धानि तथाङ्गानि बलीमुखनिभं मुखम्। रेणुद्विरेफा-नुरूपा मक्षिकाभिश्चिताकृतिः। अरत्निमानौ दन्तौ चशुष्कावप्यनिगूहितौ। कर्ण्णे च कठिने यस्य नीलगोपकविद्युति। विवर्णं कठिनं रूक्षं भिन्नमिश्रतनुरुहम्। नपु-सकश्च मातङ्गो स दूरे त्यागमर्हति। मञ्जिष्ठारागभावेनयत्तनुर्वानरोपमा। स पूतनोऽग्निभयदो यूथहा परिव-र्ज्जितः। तिर्य्यक्प्रेक्षी चाधःप्रेक्षी दुर्गन्धमदसंयुतः। कालपिङ्गोदरोनेष्टो मातङ्गः स्यात् मतङ्गजः। पुष्करेस्तनमध्ये च वामहस्ते मतङ्गजः। किलासैरावृतः स्याच्चतद्राष्ट्रे दुर्नयं दिशेत्। पश्चात्समुत्थितावापोनित्यमीलितलो-चनः। बाहित्थसंक्षिप्तमुखोनिबद्धाक्षो मतङ्गजः। न्यूनंविंशतिवर्षस्य दन्तौ यस्य प्रमाणतः। अतिमात्रौ न वैस्यातां नागोनागसमस्तु सः। हीनातिरिक्तदशनो यस्यवै तस्य मृत्युदः” इत्यवयवदोषाः। (
“अथ वर्ण्णस्तथावर्त्ताः पुष्पाण्याभा स्वरोगतिः। बलं सत्वमनूकञ्च गन्धोबोधितमिङ्गितम्। स्याद्भूत-गुणवैशेष्याद् वर्णवैशेष्यमेव हि। वातादिभ्योऽपिदोषेम्योवर्णवैशेष्यमिष्यते। रौक्ष्यं परातिरेकेण सर्वंवातस्य वैभवेत्। सोष्मता शोणितात्, पित्तात् रौद्रता,सौम्यतेन्दुजा” इत्युपक्रम्य
“कफो गर्भशयानस्यस्निग्धतां प्रतिपद्यते। पित्तं गर्भशयानस्य स्तब्धत्वंप्रतिपद्यते। तत्करी कथितः कालस्तथैव स्निग्धदर्शनः। पित्तं कफश्च युगपद् वेविष्टि तु ततस्ततः। श्यामवर्णोऽपिमातङ्गो जायते स्निग्धएव वै। गर्भे च मांससहिते कफरक्तेयदा स्थिते। चिरं गर्भशयानस्य हरिस्निग्धस्ततोऽप्यसौ। रक्तपित्तकफानाञ्च सङ्करत्वगतौ तथा। हरितारुणपी-ताद्या नानावर्ण्णा भवन्ति हि। सर्वत्रानुगवातेन मीलनाद्रू-क्षता भवेत्। पारुष्यं धूसरत्वं च सुस्निग्धत्वं भवेत्तथा। क्वचिद्वर्णविभेदाश्च पूर्वसम्भवकारणात्। ग्रहनक्षत्रचाराच्चपितृवीजवशात्तथा। तत्रापि श्वेतवर्ण्णाश्च शुकवर्हिमणि-त्विषः। शुद्धहेमरुचश्चेभाः सुरेषु प्राचि च क्वचित्। नृणान्तु हरयः कृष्णाः श्यामाश्च करिणः स्मृताः। हरि-र्मधुसवर्णश्च कृष्णश्चाञ्जनसन्निभः। न कालो न हरिर्ना-गोमध्वाभः श्याम इष्यते। एतेषु त्रिपु वर्णेषु हरिवर्णो-[Page0978-b+ 38] वरोमतः”। इति वर्णभेदकारणादिनिरूपणम्। (
“आवर्त्तः षडिधश्चैव त्वग्जोदशनभङ्गजः। कोषजःपक्ष्मजातश्च बालजो रोमजोऽपि च। कोषरोमभवौशस्तौ दन्तकल्पनजः शुभः। शीकानर्थप्रदाः प्रोक्तास्त्वग्ज-पक्ष्मजबालजाः। भूमिदोरोमजावर्त्तः कोषावर्त्तोजय-प्रदः। दशनसम्भवावर्त्तः सुतदारप्रदस्तथा। कथितःपक्ष्मजावर्त्तोज्ञातिजातभयप्रदः। व्रणकृद्बालजावर्त्तःसामहा रोमसम्भवः। प्रशस्तोदक्षिणावर्त्तोवामावर्त्तो वि-गर्हितः। मतो व्यक्तो मृदुस्निग्धः सवर्णः पीतरोमजः। वामाङ्गे दक्षिणावर्त्तोवामावर्त्तश्च दक्षिणे। आवर्त्तः स-म्मतोऽभीष्टो द्विजराजसमप्रभः। शुभोऽप्यक्षेत्रजातो-ऽसौ शुभं नैव प्रयच्छति। अशुभक्षेत्रजातश्च नानिष्टफलदःशुभः। अवग्रहे ग्रहतले स्तनयोरन्तरे तथा। ग्रीवायामक्षिकूटोर्द्धं कुम्भयोरन्तरे तथा। उत्पले दन्तवेष्टे चकर्ण्णमध्ये च वक्षसि। आवर्त्ता वारणानां हि सुनिश्चेयाःशुभप्रदाः। स्तनान्तरे शिरोमध्ये कुम्भान्तश्चूलिकान्तरे। वक्षस्यावर्त्तसम्पन्नः कुञ्जरः पञ्चमङ्गलः। शीर्षावर्त्तोऽ-भिषेकाय स्तनावर्त्तोजयाय च। सुखाय चूलिकावर्त्तःकुन्भोरोरोमजः श्रिये। वंशे प्रौहेऽथ बाहित्थे मन्यास्यसगदे कटे। कर्णेऽक्षिकूटे नाभौ च कक्षपक्ष्मांसकूक्षिषु। बालधौ पेचके मेढ्रे रन्ध्रसन्धिकलासु च। आवर्त्ता न प्र-शस्यन्ते कर्णभागगताश्च ये। कोणप्रमाणलघवोमर्मपर्व-प्रदेशगाः। अशुभक्षेत्रजाताश्च सकिलासान्तरोत्थिताः। मनोनेत्राभिरामो हि सुसूक्ष्मोगदितो महान्। ऊर्द्ध्व-प्रवृत्तोदीर्घश्च रोमजोऽर्थजयावहः। मर्मभागेषु नागस्यनिष्ठास्ते रोमजादयः। समभागगतावर्त्ताः सर्व्वतः सुखदा-मताः”। इत्यावर्त्तः। (
“स्वस्तिकादिसुसंस्थानं पुष्पं दर्शनदेहजम्। स्निग्धंभवेत् शुभच्छायमच्छिन्नं वाञ्छितप्रदम्। कबन्धादिक-संस्थानं विषतन्तुसमं स्फुटम्। रूक्षं कृष्णञ्च कुसुमं ता-तानर्थकसंज्ञकम्। दद्यात् सुतं सितं पुष्पं स्निग्धपीतञ्चहेमदम्। नीलोत्पलाभं शीलाप्त्यै स्निग्धकालञ्च वृत्ति-दम्। यदि स्यात् पूजिते भागे कुसुमं स्निग्धपाण्डुरम्। सुरचापसमाकारं तद्भनेद्मूभुजः शुभम्। शक्रंचापनिभंपुष्पं दन्तोपरि च दन्तिनः। दिशेदिष्टं सुमिक्षं च क्षे-मं च क्षितिरक्षिणः। स्तनान्तः स्निग्धरुक्षे च पुष्पे नागसमे तथा। पुष्पे श्रोत्रान्तःकाले च म्लानिवृद्धिं विनिर्दि-शेत्। श्रीवृक्षादिनिभाकारे वैजयन्तीध्वजोपमे। शैलप्रा-[Page0979-a+ 38] सादसदृशे छत्रचामरवीथिभिः। सोमसूर्य्यसमाभासेशिविकायानमूर्त्तिभिः। दिष्टे शुभाय नृपतेर्निन्द्यमहि-समाकृति। श्वक्रव्यादनिभाकारं रणापसरकारणम्। धूमाभं पुष्पमिच्छन्ति मृत्यवेऽग्निभयाय च। कृष्णं पुष्पंतथा नेष्टं द्विषद्भोगविवर्द्धनम्”। इति पुष्पम्(
“भूखाग्न्यम्बुमरुज्जाता भवेच्छाया विषाणिनाम्। श-स्ता भूजलवह्न्युत्था न शस्ता खानिलोद्भवा। छायायाः स-म्भवः पूर्वं, परतः परितः प्रभा। छायायाः सम्भवः पूर्वंप्रभा तत्परमश्नुते। वर्ण्णमात्रश्रिता च्छाया प्रभा वर्णस्यनाश्रयः। लक्षणानि तु नागानां पापानि च शुभानि च। छायावशात् फलन्त्येव छाया तेनातिलक्षणम्। यस्य स्या-ल्लक्षणं भद्रं छाया भद्रा भवेन्न तु। न चासौ शुभदोहस्तीछायोपहतलक्षणः। पापलक्षणयुक्तोऽपि शुभच्छायायुतो-गजः। फलं लक्षणजं हित्वा छायाफलमवाप्नुयात्। नी-राजनेऽभिषेके च ध्वजोच्छ्राये रणोदये। तेषु तेषु चकालेषु भवेच्छाया च शोमना। वक्षसि प्रतिमानेऽंसेकुम्भे कर्णे कटेषु च। निर्याणे मस्तकस्थाने वेष्टयोश्चकपोलयोः। पिण्डिकाजघनाभोगे तेषु तेषु पदेषुच। प्रदेशेषु प्रधानेषु छायाया वीक्षणं भवेद्। प्रशस्तापार्थिवी छाया बह्निजा जलजापि च। नेष्यते व्योमजाछाया मातरिश्वभवापि च। पार्थिवी स्निग्धगम्भीरासर्ववर्णे विभाव्यते। छाया ह्यासां च रक्ता च स्निग्धा जाम्बू-नदाग्निजा। छाया नीलाम्बुदाभासा स्निग्धा सलिलस-म्भवा। अव्यक्तपरुषा तस्यछाया गगनजा मता। धूम्रारूक्षा च वायव्या भस्माभा निष्प्रभा तथा। एताश्छायाः{??}रीक्ष्याः स्युर्मातङ्गे राजपूजिते। नीलाम्बुजेन्द्रनीलाभानीलाञ्जननिभाऽपि च। क्वाप्युक्ता पार्थिवी च्छायासुभिक्षक्षेमकारिणी। बालार्कपद्मकिञ्जल्कशक्रगोपकस-न्निभा। ज्वालाभा तप्तहेमाभा वह्निजा विजयप्रदा। छायाम्मयी पयःशङ्खकुन्दरूप्यनिभद्युतिः। सौग्याख्ययाप्रतीता च भर्त्तुरर्थप्रदा सदा। जलबुद्वुदसङ्काशा धूम्र-द्युतिरतिस्थिरा। निन्द्या च व्योमजा छायानित्योद्वेग-करी मता। सर्ववर्णैरुपेताऽपि निष्प्रभा भस्मसन्निभा। विच्छिन्ना विकृता च्छाया वायवी सा भयावहा। वैरिञ्चीवैष्णवी शैवी छाया माघवनी तथा। कौमारी राक्षसीसार्पी गान्धर्वी च तथासुरी। पैशाची चेति याश्छायाश्छायादिव्याः क्वचित् शुभाः। भूतोत्थलक्षणे तासां भेदो-नेह तु कीर्त्तितः। तेजोऽतिसक्ता भद्रस्य पाटला भ-[Page0979-b+ 38] वति प्रभा। छाया रक्तकला रुक्मपद्मपूगनिभाऽपि वा। कृष्णा च मन्दकरिणश्छाया तु मृगहस्तिनः। मलि-नाम्बरधूम्रेव गीर्वाणायुधदर्शना” इति छाया। (
“हस्तिनां विविधा ध्वानाश्छिद्रेभ्यः करतोऽपि च। भवन्ति वायुवशतो गात्राणां वेष्टनेन च। प्रयाणेष्वभिषिक्तेषुध्वजे जातिकुलेषु च। नागेषु वृंहितं ग्राह्यं मत्तस्तब्धे नजातिषु। हृषितोऽत्यस्तनिद्रान्तस्तृषितो वृंहति क्वचित्। यदि दन्ती शुभे देशे समये च वसुप्रदः। दर्शयेद्वृंहितंभद्रं तत्फलं स्फीतमादिशेत्। सरोवरे तथारामे गोष्ठेविबुधवेश्मनि। निकुञ्जे हृद्यदेशे हि विज्ञेयः शुभदो-ध्वनिः। यात्रायामभिषेके च यज्ञादिसमये तथा। समयेचैव पुण्ये च वृंहितं स्याच्छिवप्रदम्। अश्मादिकाष्ठबल्मीकदुष्टस्थाने भयप्रदः। सुनीचे च प्रधूमे च प्रति-श्यायदिनेषु च। अतिशीतेऽतिघर्मे च प्रभाते चाशुभोरवः। मूतले न्यस्तहस्तो हि पर्य्यश्रुनयनोगजः। कूजन् निर्व्यथनंकुर्य्यात् यदि वा नश्यतीश्वरः। करेण वृंहितोनागो दुश्चि-त्ताश्रुपरिप्लुतः। आदिशेन्मन्त्रिणोनाशमथ वा पृथना-पतेः। व्यायतश्रमहस्तस्य सास्राधोगतचक्षुषः। जघनेवामतो बालं तथा निक्षिपतोऽसकृत्। (बालं बालधिम्)। निषीदतो लङ्घयतो हृष्टरोम्णोविमूर्च्छतः। वामे नि-क्षिप्य गण्डूषं वृंहितं स्यादनर्थकृत्। खेयः स्रवतिनागानां धमतां यदि शोणितम्। (खेभ्यः छिद्रेभ्यः) तथामन्यान्तदेशे च प्राणिनां क्षयमादिशेत्। यद्याग्नेयी-मुखोभूत्वा प्राच्यां बाऽर्कोदयं प्रति। दन्ती तीक्ष्णरवंकुर्य्यात्तदा स्यात् पावकाद्भयम्। करेण यदि मातङ्गो वृंह-माणः स्तनं स्पृशेत्। आलाने लम्बमानस्तु संयुति क्षयमा-दिशेत्। (संयुति युद्धे)। आलाने लम्बमानस्तु शीत्कुर्वन्कुरुते ध्वनिम्। गात्रं प्रंङ्खोलयन्नागस्ततः प्रस्थानमादि-शेत्। क्षिप्त्वा करं विषाणस्थं विषमं कूजते यदि। नि-रीक्षमाणो गगनं हतां वृष्टिमुदाहरेत्। यदाभ्युन्नतवक्त्रेणस्तनस्थानञ्च जिघ्रतः। तथा कुञ्चितहस्तेन मुखं गात्रं चजिघ्रतः। कुर्वतो दक्षिणं हस्तं शनैर्निक्षिपतोऽपि यत्। वृंहितं स्यात्तदिष्टञ्च तथान्योन्यकरस्पृशः। गृहीत्वा शुभ-वस्तूनि कुसुमादीनि चेद् द्विपः। कुर्य्याच्छब्दं शुमं तेनफलं शुभतरं भवेत्। उच्चैरभिमुखः शान्तो यदा नदतिवारणः। अरूक्षमध्यमानेन तदा तत्र जयी ध्रुवः। मुखेनमण्डूकरवान् कर्ण्णाभ्यां दुन्दुभिध्वनिम्। करेण मुर-जारावान् कुर्वन् कल्याणकारकः। कलणादिसमारावा[Page0980-a+ 38] विकटान समाः स्मृताः”। इति ध्वनिः। गतिबले तु प्रा-गुक्ते एवात्र प्रायेण दर्शिते नातस्ते अत्रोदाहृते। (
“सत्वं त्रिविधमिच्छन्ति श्रेष्ठमध्याधमैर्गुणैः। सात्विकंराजसं चापि तामसञ्च विषाणिनाम्। एषामपि गुणाज्ञेयाबहवस्ते न कीर्त्तिताः। सत्वस्योक्तागुणाः शौर्य्यंबुद्धिर्धैर्य्यं सुहर्षता। रजसोये गुणास्ते च क्रोधोत्साहावपि क्वचित्। गुणाश्च तमसस्तन्त्रातमोमोहप्रमादिताः। ह्रीमन्तः कान्तियुक्ताश्च प्राज्ञाश्च चिरजीविनः। क्रिया-क्लेशसहाः श्रान्ताः सात्विकाः सामसम्भवाः। शिष्याश्चमध्यसाध्याश्च कीर्त्तितानिर्भयाः क्वचित्। क्रियायोगसहाःकिञ्चिद्राजसा मध्यमायुषः। तामसा दुःखिता मूढा विरूपालघुजीविताः। युक्तोऽप्यन्यगुणैः सर्वैर्युतश्चेत् सात्विकैर्गुणैः। श्रेयोगुणः स समरे तथाऽध्वनि मतङ्गजः। एषांवागीशनिर्दिष्टा विषयापेक्षया स्थितिः। भद्रे सन्निहितंसत्वं, रजोमन्दे, तमो मृगे। देवगन्धर्वयक्षाणां पन्नगा-सुररक्षसाम्। पिशाचानां नृणां तुल्यं वेद्यं नागस्यचेष्टितम्”। इति सत्वम्। (
“यत् पूर्व्वसम्भवं स्पष्टं सत्वं रूपं गतिः स्वरः। तस्या-नुकरणात् युक्तमनूकमिति कोविदाः। सत्वरूपजवारावैःशुभानुकारिता शुभा। देवर्षिगणगन्धर्वनागानूकाः शुभा-मताः। एवमेव च दुष्टानुकृतोदुष्टाः प्रकीर्त्तिताः। दैत्य-रक्षःपिशाचानामनूकं परिवर्ज्जितम्। वृषसिंहतुरङ्गादिसमानूकामता द्विपाः। नेष्टाः सरदगृध्रादिसमानाकृतियो-गिनः”। अनूकम्। (
“आस्याक्षिकुम्भकर्ण्णेषु मदनिश्वासवायुषु। शकृद्वमथु-मूत्रेषु गन्धं समुपलक्षयेत्। इष्टगन्धान्निषेवेत वारणान्धरणीपतिः। दुष्टगन्धान् सदा भूपोयत्नतः परि-वर्ज्जयेत्। सर्पिर्मधुसुरालाजदधिक्षीरानुकारकः। शाल्य-न्नोशीरमदिरापद्मकाष्ठादिसन्निभः। मालतीकेतकीजातो-चन्दनाधिकसौरभः। सुरसालफलामोगोगन्धोनागस्यसम्मतः। असृङ्मूत्रशकृत्पूतिवसाकुणपकुत्सितः। पक्षि-नीडपलाण्ड्वादिसप्ततिग्मविनिर्म्मितः। खरोष्ट्रशूकरसमःश्यशानधूमसन्निभः। मीनमत्कुणतुल्यश्च गन्धोनागस्यदुःखदः”। इति गन्धः। (
“पञ्चधा विदितं स्याच्च विज्ञेयं सामजन्मनाम्। अत्य-र्थोत्तानगम्भीरप्रत्यर्थान्वर्थभेदतः। यस्तूद्घातादुद्विजते दूरा-दंसादि संकुचेत्। अत्यर्थं सङ्कुचेत् स्पृष्टः स गजोऽत्यर्थवेदिता। योऽपि त्वक्स्पर्शमात्रेण रोमस्पर्शवशेन वा। [Page0980-b+ 38] विद्याद्दण्डाङ्कुशादींश्च स स्यादुत्तानवेदिता। त्वग्भेदात् शो-णितस्रावात् तीव्रप्रव्यथनादपि। अङ्कुशादीन् विजानातिस हि गम्भीरवेदिता। शनैर्हतोभृशं वेत्ति शनैर्वेत्ति भृ-शाहतः। विपरीतमतिर्नागो ज्ञेयः प्रत्यर्थवेदिता। प्रत्ये-ति वार्य्य माणो यो निगृहीतश्च गच्छति। प्रतिलोमा-यते संज्ञां सोऽपि प्रत्यर्थवेदिता। शनैर्हतः शनैर्वेत्ति-भृशं वेत्ति भृशाहतः। प्रत्येति प्रतिषिद्धश्च नोद्यमानश्चगच्छति। यथासंज्ञं विदध्याच्च सर्वकर्माणि योऽद्भुतम्। अन्वर्थवेदिनं प्राज्ञोजानीयात्तं शुभं गजम्” इति विदितम्। (
“मतङ्गजेङ्गितं वक्ष्ये शृणु तदवधानतः। शुभज्ञा-नञ्च येन स्यात् यात्रादिसमये नृप!। अनुयात्रं गतो-हन्यात् किञ्चिद्रूपं यदि द्विपः। तज्जयः, प्रतियात्रं तुरूपाहत्या पराजयः। दृष्ट्वा रिपूनभिमुखान् वार्य्यमाणो-ऽपि चेद्गजः। व्रजेत्तद्विजयोनूनं यदि वा प्राप्तवान् वशे। दक्षिणेनाग्रपादेन क्षितिमुत्पाटयेद्यदि। उत्तोलयेद्वाम-पादं तदा जयमुदीरयेत्। करेण चाग्रहस्तेन यदा पृथ्वींप्रमार्जयेत्। सिञ्चत्यनेन कर्णौ च तदा सौख्यं समादि-शेत्। पेचकं कुटिलं कृत्वा करं जिघ्रति चेत् द्विपः। प्रहृष्टहृदयाङ्घ्रिश्च तदाभ्युदयमादिशेत्। दक्षिणं तु यदादन्तं दन्ती प्रमुदितेन्द्रियः। परिष्वजति हस्तेन तदा स्यात्प्रियसङ्गमः। तथैव गलसन्धिञ्च पष्करेण परामृशन्। श्रीयोगमुपयातं तु वारणोविनिवेदयेत्। सङ्कोच्य दक्षिणंपादं वामपादेन वा भुवम्। विलिखेद्वारणः खिन्न-स्तद्भर्त्तुः स्यात् पराजयः। यदा तु दुर्मनादन्तं वामंहस्तेन शोधयेत्। तदात्मनोवदेन्नाशं यातुर्वाथ निषा-दिनः। करेण वामगात्रं च खिन्नगात्रः प्रमार्ष्टि चेत्। तदानिष्टं भवेद्भर्त्तुरन्यथा च शुभं भवेत्। व्यथमानःपतेत् त्रस्तः कक्षबन्धे यदा द्विपः। नाभिनन्देच्च माल्यादितदा परिभवो भवेत्। अकस्मादेव कुप्यन्ति भ्रमन्ति चपतन्ति च। करिणो यदि तद्विद्यात् विग्रहं समुपस्थितम्। यदा पश्यति मातङ्गोविद्रवञ्च पराजयम्। प्रवासं पर-राष्ट्रं वा तदा भवति दुर्मनाः। अदंशव्रणपीडायांकरेण परिवीजनात्। गण्डूषदेशनिष्पेषात् सव्याजमुप-सर्पणात्। अकस्माच्च स्खलद्गत्या धरण्यां प्रणिपातनात्। जलप्रतारवैमुख्यादहितभक्ष्यसेवनात्। स्तब्धकर्णतया गत्यापादाग्रवेशनादपि। द्रुतदद्र्वादिपीलुत्वादकल्याणकरः करी। आत्तग्रहोजलोत्तीर्णोरिपूणां ग्रहणं वदेत्” इङ्गितम्। (
“जायते द्विविधः कोपः संश्चासंश्च विषाणिनाम्। [Page0981-a+ 38] शिष्यक्रोधोह्यभीष्टः स्यादनिष्टोऽशिष्यरोषणः। यःक्रुध्यति चिरेणैव मृदुक्रोधो भवेदपि। वाग्दण्डमात्रबन्धैश्चप्रतिषिद्धो न मुह्यति। अनुशाम्यति रोषाच्च स शिष्य-क्रोधसंज्ञितः। इष्यते सर्व्वकार्य्येषु शुभजातिर्मतङ्गजः। यः क्रुध्यत्यचिरिणैव भृशक्रोधो भवेदपि। प्रतिषिद्धश्चवाग्दण्डतीक्ष्णप्रजनकाङ्गुशैः। मुह्यत्येव चिरेणापि रोषा-द्विरतिमेति च। अशिष्यक्रोधसंज्ञोऽसौ विज्ञेयो वारणा-धमः” इति कोपः। विस्तरस्तु पालकाव्यादौ दृश्यः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इभ¦ r. 10th cl. (इ) इभि (इम्भयते) To collect or accumulate.

इभ¦ m. (-भः)
1. An elephant.
2. Best (in composition.) E. इण् to go, भन् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इभः [ibhḥ], [इ-भन्-किच्च Uṇ.3.151]

An elephant.

Fearless power (Sāy.).

Servants, dependents (Ved.)

The number eight. -भी A female elephant. [cf. L.ebur]. -Comp. -अरिः a lion दृष्ट्वा मृधे गरुडवाहमिभारिवाहः Bhāg.8.11.56. -आख्यः, -केशरा the plant नागकेशर Mesua ferrea. -आननः N. of Gaṇeśa; cf. गजानन.-उषणा, -कणा a kind of aromatic plant, Scindapsus officinalis गजपिप्पली (Mar. गजपिंपळी). -कर्णकः N. of a plant (Mar. तांबडा एरंड). -गन्धा N. of a plant (the fruit of which is poisonous). -दन्ता f. The plant Tiaridium Indicum (Mar. भुरुंडी, नागदवणा).

निमीलिका shrewdness, sagacity, sharpness.

hemp (भङ्गा). -पालकः the driver or keeper of an elephant. -पोटा [पोटा पुंल्लक्षणा इभी] a hermaphrodite female elephant. -पोतः a young elephant, a cub. -भरः a collection of elephants.-युवतिः f. a female elephant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इभ m. (? इUn2. iii , 153 )servants , dependants , domestics , household , family RV. ([ BRD. ])

इभ m. fearless([ Sa1y. ])

इभ m. an elephant Mn. Bhartr2. Ragh. etc.

इभ m. the number eight

इभ m. N. of a plant L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Ibha is a word of somewhat doubtful sense and interpretation. It is found only in the Saṃhitās,[१] and especially in the Rigveda.[२] According to Roth[३] and Ludwig[४] the sense is ‘retainer,’ and Zimmer[५] thinks that it includes not only dependants and servants, but also the royal family and the youthful cadets of the chief families. In the opinion of Pischel and Geldner[६] it denotes ‘elephant.’ This view is supported by the authority of the commentators Sāyaṇa[७] and Mahīdhara;[८] the Nirukta,[९] too, gives ‘elephant’ as one of the senses of the word. Megasthenes[१०] and Nearchos[११] tell us that elephants were a royal prerogative, and the derivative word Ibhya may thus be naturally explained as denoting merely ‘rich’ (lit., ‘possessor of elephants’).[१२]

2. Ibha in one passage of the Rigveda[१३] appears certainly to be intended as an abbreviation of the proper name Smadibha.

  1. Taittirīya Saṃhitā, i. 2, 14, 1;
    Vājasaneyi Saṃhitā, xiii. 9.
  2. i. 84, 17;
    iv. 4, 1;
    ix. 57, 3, and perhaps vi. 20, 8.
  3. St. Petersburg Dictionary, s.v.
  4. Translation of the Rigveda, 3, 246, 247.
  5. Altindisches Leben, 167.
  6. Vedische Studien, 1, xv, xvi.
  7. On Taittirīya Saṃhitā, loc. cit.
  8. On Vājasaneyi Saṃhitā, loc. cit.
  9. vi. 12. It gives also the sense ‘retainer,’ and in Aśoka's Edicts, No. 5, Bühler, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 37, 279, finds a Vaiśya denoted by its Pāli form.
  10. Apud Strabo, 704.
  11. Ibid., 705.
  12. But it may equally well be explained as ‘rich’ from the other sense of the primary word: ‘possessor of (many) retainers.’
  13. vi. 20, 8. Cf. Pischel and Geldner, Vedische Studien, 1, xvi;
    Roth, St. Petersburg Dictionary, s.v.;
    Oldenberg, Ṛgveda-Noten, 1, 380. Zimmer, Altindisches Leben, 167, treats it as ‘retinue,’ as does Ludwig, Translation of the Rigveda, 3, 246, 247.
"https://sa.wiktionary.org/w/index.php?title=इभ&oldid=491917" इत्यस्माद् प्रतिप्राप्तम्