कफः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कफः, पुं, (केन जलेन फलति इति । फल निष्पत्तौ “अन्येष्वपि” ३ । २ । १०१ । इति डः । केशिरसि फलति वा प्राग्वड्डः ।) शरीरस्यधातुविशेषः । तत्पर्य्यायः । श्लेष्मा २ संघातः ३ सौम्यधातुः ४ घनः ५ बली ६ । अस्य गुणाः । गुरुत्वम् । सन्धि- विश्लेषकारित्वम् । मृदुत्वम् । प्रमर्द्दनत्वम् । स्निग्ध- त्वम् । कटुत्वम् । शीतत्वम् । जडताकारित्वम् । शुक्लत्वम् । शीते वसन्ते निशामुखे पूर्ब्बाह्ने भुक्ते च प्रकोपणत्वम् । इति राजनिर्घण्टः ॥ * ॥ अस्य प्रकोपहेतुः । “गुरुमधुररसातिस्निग्धदुग्धेक्षुभक्ष्य- द्रवदधिदिननिद्रापूपसर्पिःप्रपूरैः । तुहिनपतन- काले श्लेष्मणः सप्रकोपः प्रभवति दिवसादौ भुक्त- मात्रे वसन्ते” ॥ * ॥ तस्य कर्म्माणि । “स्तमित्यं म- धुरास्यता शिशिरता शौक्ल्यं प्रसेको मलप्राचुर्य्यं स्थिरता रसश्च लवणः कण्डूरतिस्वप्नता । आलस्यं चिरकारिता कठिनता शोथारुचिस्निग्धता तन्द्रा- तृप्त्युपदेहकासगुरुता एताः कफोत्था रुजः” ॥ * ॥ अस्य प्रशमताकारणम् । “गुरुशीतमृदुस्निग्धमधुरस्थिरपिच्छिलाः । श्लेष्मणः प्रशमं यान्ति विपरीतगुणैर्गुणाः” ॥ “रूक्षक्षारकषायतिक्तकटुकव्यायामनिष्ठीवन- स्त्रीसेवाध्वनियुद्धजागररतिक्रीडापदाघातनम् । धूमात्युष्णशिरोविरेकवमनस्वेदोपनाहादिकं पानाहारविहारभेषजमिदं श्लेष्माणमुग्रं जयेत्” ॥ स च पञ्चविधो यथा, -- “अवलम्बक इत्येकः क्लेदकः श्लेषकोऽपरः । बोधकस्तर्पकश्चेति श्लेष्मा पञ्चविधः स्मृतः” ॥ * ॥ एतेषां लक्षणानि यथा, -- “कफधाम्नान्तु शेषाणां यत्करोत्यवलम्बनम् । ततोऽवलम्बकाख्यातिं श्लेष्मा प्राप्नोत्युरःस्थितः ॥ १ ॥ आमाशयाश्रितः सोऽन्नक्लेदनात् क्लेदकः स्मृतः ॥ २ ॥ श्लेषकश्लेषणात् सन्धेः स च सन्धौ व्यवस्थितः ॥ ३ ॥ रसनावस्थितस्त्वेष बोधको रसबोधनात् ॥ ४ ॥ शिरसि प्रस्थितश्चासौ तर्पको नेत्रतर्पणात् ॥ ५ ॥ ॥ * ॥ अस्य स्थानानि । “उरःकण्ठशिरः क्लोमपर्ब्बाण्यामाशयो रसः । मेदो घ्राणञ्च जिह्वा च कफस्थानमुरः परम्” ॥ * ॥ (सन्धिसंश्लेषणस्नेहनरोपणपूरणबलस्थैर्य्यकृत् श्लेष्मा पञ्चधा प्रविभक्त उदककर्म्मणानुग्रहं करो- ति । इति तु प्रकारभेदेनास्य कार्य्यमुक्तम् ॥ अतः परमस्य क्षीणलक्षणमाह ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कफः [kaphḥ], [केन जलेन फलति फल्-ड Tv.]

Phlegm, one of the three humours of the body (the other two being वात and पित्त); कफापचयादारोग्यैकमूलमाशयाग्निदीप्तिः Dk.16; प्राणप्रयाणसमये कफवातपित्तैः कण्ठावरोधनविधौ स्मरणं कुतस्ते Udb.

A watery foam or froth in general. -Comp. -अरिः dry ginger. -कूर्चिका saliva, spittle. -क्षयः pulmonary consumption. -घ्न, -नाशन, -हर a. removing phlegm, antiphlegmatic; -m. N. of a plant (Mar. लघु शेरणी).-ज्वरः fever caused by excess of phlegm. -वर्धनः N. of a plant (Mar. पिंडी तगर). -विरोधिन् -m. pepper.

"https://sa.wiktionary.org/w/index.php?title=कफः&oldid=260998" इत्यस्माद् प्रतिप्राप्तम्