कुज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुज उ स्तेये । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं- सेट् ।) उ कोजित्वा कुक्त्वा । स्तेयं चौर्य्यम् । इति दुर्गादासः ॥

कुज, इ अव्यक्तशब्दे । इति चन्द्रः । (भ्वां-परं-अकं- सेट्-इदित् ।) कुञ्जति कुञ्जरः । इति दुर्गादासः ॥

कुजः, पुं, (कोः पृथिव्याः जायते । कु + जन् + डः ।) भङ्गलग्रहः । (यथा, मङ्गलग्रहस्तुतौ । “अङ्गारकः कुजो भौमः” इति ।) नरकासुरः । (यथा, -- “तत्राहृतास्ता नरदेवकन्याः कुजेन दृष्ट्वा हरिमार्त्तवन्धुम्” ॥ श्रीमद्भागवते ३ । ३ । ८ ॥) वृक्षः । इति हेमचन्द्रः ॥ कुजम्भलः, त्रि, (कोः पृथिव्याः कौ वा जम्भलः मृत्तिकादिखननेन सन्धिचौरः ।) चौरविशेषः । इति हारावली । सि~देल चोर इति भाषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुज पुं।

मङ्गलः

समानार्थक:अङ्गारक,कुज,भौम,लोहिताङ्ग,महीसुत

1।3।25।2।2

शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः। अङ्गारकः कुजो भौमो लोहिताङ्गो महीसुतः॥

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुज¦ स्तेये भ्वा॰ पर॰ सक॰ सेट्। कोजति अकोजीत् चुकोजउदित् कुजित्वा कुक्क्त्वा। प्रनिकुजति

कुज¦ पु॰ कोः पृथिव्या जायते जन--ड। मङ्गलग्रहे यथा चतस्य तज्जातत्वं तथा आवनेयशब्दे काशीखण्डवाक्येनदर्शितम्

२ नरकासुरे तस्य वाराहीरूपायाः पृथिव्याउ-त्पन्नत्वात् तथात्वम् तत्कथा कालिकापुराणे

३६ अ॰ यथा
“यथा स नरकोजातो धरागर्भे महासुरः। रजस्वलायागोत्रायागर्गे वीर्य्येण पोत्रिणः (वराहस्य)। यतोजा-तस्ततोभूतो देबपुत्रोऽपि सोऽसुरः” इत्युपक्रम्य
“गर्भसंस्थं महावीर्य्यं ज्ञात्वा ब्रह्मादयः सुराः। गर्भ-एव तदा देवशक्त्या दध्रुश्चिरं दृढम्। यथाकालेऽपि सं-प्राप्ते नो गर्भाज्जायते स च। ततस्त्यक्तशरीरस्तु वरा-हस्तनयैः सह। अतीव शोकसन्तप्ता जगद्धात्र्यभवत्क्षितिः। शोकाकुला सा व्यलपच्चिरकालं मुहुर्मुहुः। प्र-कृतिस्था क्षितिर्भूता माधवेन प्रबोधिता। ततः का-लेऽपि संप्राप्ते देवशक्त्या यदा धृतः। न गर्भः प्रसवं यातितदाऽभूत् पीडिता मही। कठोरगर्भा सा देवी गर्भभारंन चाशकत्। यदा वोढुं, तदा देवं माधवं शरणं गताशरण्यं शरणं गत्वा माधवं जगता पतिम्। प्रणम्यशिरसा देवी वाक्यमेतदुवाच ह”। स्तवप्रसन्नमाधवो-[Page2065-b+ 38] क्तिधराप्रत्युक्तिभ्यां त्रेतायुगार्द्धे तदुत्पत्तिकथा-
“इति स्तुतो हृषीकेशोजगद्धात्र्या तदा हरिः। प्रा-दुर्भूतस्तदा प्राह धरित्रीं दीनमानसाम्। श्रीभगवानुवाच। कथं दीनमना देवि! धरित्रि! परिदेवसे। तव वा किङ्कृ-ता पीडा वेत्तुमिच्छामि तदहम्। मुखन्ते परिशुष्क-न्तु शरीरं कान्तिवर्जितम्। आकुलं नयनद्वन्द्वं भ्रूवि-भ्रमविवर्जितम्। ईदृशन्तव रूपन्तु दृष्टपूर्व्वं कदा च न। रूपस्य तु विपर्य्यासे दुःखे वीजञ्च भाषय। एतच्छुत्वा वच-स्तस्य माधवस्य जगत्पतेः। विनयावनता देवी पृथ्वी प्राह-सगद्गदम्। पृथिव्युवाच। गर्भभारं न संवीढुं माधवा-हं क्षमाऽधुना। भृशं नित्यं विषीदामि तस्मात्त्वं त्रातु-मर्हसि। त्वया वराहरूपेण मलिनी (ऋतुमती) कामि-ता पुरा। तेन कामेन कुक्षौ मे स्मयं गर्भोऽयमास्थितः। काले प्राप्ते स गर्भोऽयं न प्रच्यवति माधव!। कठोरगर्भातेनाहं पीडितास्मि दिनेदिने। यदि न त्रासि मां देव!गर्भदुःखाज्जगतपते!। न चिरादेव यास्यामि मृत्योर्व-शमसंशयम्। कदापि नेदृशोगर्भो धृतोमाधव! वै पुरा। योऽचलां चालयति मां सरसीमिव कुञ्जरः। एतच्छ्रुत्वावचस्तस्याः पृथिव्याः पृथिवीपतिः। आह्लादयन् प्रत्यु-वाच हरिस्तप्तां लतामिव। श्रीमगवानुवाच। न धरेते महादुःखं चिरस्थायि भविष्यति। श्रुणु येन प्रकारेणचानुभूतमिदं त्वया। मलिन्या सह सङ्गेन यो गर्भःसंवृतस्त्वया। सोऽभूदसुरसत्वस्तु वृष्टेः (वराहस्य) पुत्रस्तुदारुणः। ज्ञात्वा तस्य च वृत्तान्तंगर्भस्य द्रुहिणादयः। देवीभिः शक्तिभिः सुभ्रूस्तव कुक्षौ सुतं खरम्। सर्गादौ-यदि जायेत भवत्यास्तादृशः सुतः। भ्रंशयेत् सकलाल्लों कांस्त्रीनिमान् ससुरासुरान्। अतस्तस्य बलं वीर्य्यं ज्ञात्वाब्रह्मादयः सुराः। प्राक्सृष्टिकाले ते गर्भं तदाऽधुर्जगतांकृते। अष्टाविंशतिमे प्राप्ते आदिसर्गाच्चतुर्युगे। त्रेता-युगस्य मध्ये तु सुतं त्वंजनयिष्यसि। यावत् सत्ययुगंयाति त्रेतार्द्धञ्च वरानने!। तावद्वह महागर्भं दत्तःकालोमया तव। न यावज्जायते धात्रि! गर्भस्ते ह्यति-दारुणः। तावद्गर्मवती दुःखं न त्वं प्रास्यसि भाविनि!”
“ये च प्रलम्बखरदर्दुररिष्टनुमिमल्लेभकंसयवनाः कुजपौ-ण्ड्रकाद्याः” भाग॰

२७ ,

३६ ।
“तत्राहृतास्ता नरदेवक-न्याः कुजेन दृष्ट्वा हरिमार्त्तबन्धुम्” भाग॰

३ ,

३ ,

८ श्लो॰।
“कुजशुक्रबुधे{??}र्कसौम्यशुक्रावनीभुवाम्
“ज्यो॰” मङ्ग-लग्रहस्य चारादिकमङ्गारकशब्दे

७९ पृ॰ उक्तम्। कल्पे[Page2066-a+ 38] तदीयभगणादिकमुच्यते
“युग्मयुग्मशरनागलोचनव्या-लषण्णवयमाश्विनोऽसृजः”

९६

८२

८५

२२ सि॰ शि॰। कल्पे एतावन्तः कुजस्य भगणाः अस्योपत्त्यादिकं ग्रहभग-णशब्दे दर्शयिष्यते। तस्य चलोच्चभगणमानञ्च तत्रैवोक्तम्
“अर्कशुक्रबुधपर्य्यया विधेरह्नि कोटिगुणिता रदाब्धयः

४३

२०

००

०० ॰॰। एतएव शनिजीवभूभुवां कीर्त्तिताश्च गणकैश्चलोच्चकाः” तत्पातस्य भगणास्तत्रैवोक्ताः
“कुभृद्रसाश्विनः”

२६

७ , तस्य मन्दकेन्द्रभगणमानं निबन्धे
“खरामाश्व्य-हिद्व्यष्टषड्गोद्विदस्राः”

२२

९६

८२

८२

३० ।
“शीघ्रकेन्द्र-भगणाः” गजाद्रिमनुसप्तेन्दुत्र्यश्विखाश्विमिताः”

२०

२३

१७ -

१४

७८ ,। तस्य कक्षामानम् श्रीपतिनोक्तं यथा
“अष्ठ्य-ङ्कषण्मनुगजाः क्षितिनन्दनस्य”

८१

४६

९१

५ योजनानि-मध्यमकुजस्फुटीकरणम् सि॰ शि॰ प्रमि॰ दर्शितं यथा
“दिनगणार्धमथो गुणसंगुणं द्युगणसप्तदशांशविवर्जितम्। लवकलादिफलद्वयसंयुतः क्षितिसुतध्रुवकः क्षितिजोभवेत्” सि॰ शि॰।
“अत्रोपपत्तिः। दिनगणार्द्धं भागा इतिप्रत्यहं त्रिंशत् कला गृहीताः। तत् पृथक् त्रिगुणं जातम्एताः कलाः पूर्वकलामिश्रीकृता जाताः। एतत् कुजगते-रधिकमतोऽतः कुजगतिं विशोध्य शेषम्। अनेन सप्तदश-गुणेनैका कला भवति। अत उक्तं द्युगणसप्तदशांशवि-वर्जितमिति। पूर्वफलेन भागादिनाऽनेन च कलादिनाभौमध्रुवक

३३

७० युक्तः कुजो भवति। यतोऽयमहर्ग-णोऽर्काव्दान्तादूर्ध्वमतस्तदुत्थं फलं रविमण्डलान्तिकेयोज्यमित्युपपन्नम्” प्रमि॰कुजस्यध्रुवकमानं
“तत्रैवखाद्रिरामाग्नयः”

३३

७० । तथाचकलेरारम्भे राशिचक्रस्थविकलाभ्यो ध्रुवकेण हीनतायांतत्काले

११ ।

२९ ।

३ ।

५० । राश्यादि कुजध्रुवकःतस्य मन्दशीघ्रपरिधी तत्रैव उक्तौ यथा
“मन्दोच्चनीचपरिधिस्त्रिलवोनशक्र

१४ भागा रवेर्जिन

२४ कलोन

३२ रदा हिमांशोः। खाश्वा

७० भुजङ्गदहना

३८ अमरा

३३ भवाश्च

११ पूर्णेषवो

५० निगदिताः क्षितिजा-
“दिकानाम् सि॰ शि॰” इह ग्रहफलोपपत्त्यर्थं मन्दोच्चनी-चवृत्तानि पूर्वैः कल्पितानि तेषां प्रमाणान्येतावन्तोभागाः। अत्रोपपत्तिः ग्रहस्य यन्त्रवेधविधिना यत्परमं फलमुत्पद्यते तस्य ज्या परमा फलज्या परमफल-ज्याऽन्त्यफलज्या चोच्यते। अन्त्यफलज्यातुल्यव्यासार्द्धेनयद्दृत्तमुत्पद्यते तन्नीचोच्चवृत्तम्। तत्परिधिस्त्रैराशिकेन। याद त्रिज्यव्यासार्द्धे भांशाः परिधिस्तदान्त्यफलव्यासार्धे[Page2066-b+ 38] किमिति लब्धं परिधिभागाः। एवमर्कादीनां त्रिलवोन-शक्रा इत्यादय उत्पद्यन्ते। अथ भौमादीनां चलपरि-धीनाह” प्रभि॰।
“एषां चलाः कृतजिना

२४

४ स्त्रिलबेनहीना दन्तेषवो

५३

२ वसुरसा

६८ वसुवाणदस्राः

२५

८ । पूर्णाब्धयो

४० ऽथ भृगुजस्य तु मन्दकेन्द्र--दोःशिञ्जिनीद्विगुणिता त्रिगुणेन भक्ता। लब्धेन मन्दपरिधीरहितःस्फुटः स्यात् तच्छ्रीघ्रकेन्द्रभुजमौर्व्यथ वाणनिघ्नी। त्रिज्योद्धृताशुपरिधिः फलयुक् स्फुटः स्याद्भौमाशुके-न्द्रपदगम्यगताल्पजीवा। त्र्यंशोनशैल

७ गुणितार्व

७ युतस्यराशेर्मौर्व्योद्धृताप्तलबहीनयुतं मृदूच्चम्। भौमस्यकर्किमकरादिगते स्वकेन्द्रे लब्धांशकैर्विरहितः परिधिस्तुशैध्य्रः”। मौमस्य भूमध्यादुच्छ्रितियोजनानि सि॰ शि॰
“गोकुरसञ्चषण्णवसूर्य्यसंख्याः”

१२

९६

६१

९ । तस्य कालांशाः शैलभुवः

१७ । अस्य क्षेत्रं मेषवृश्चिकौ, उच्चंमकरः परमोच्चं मक-रस्याष्टाविंशोऽंशः। नीचः कर्कटः तदीयाष्टाविंशोऽंशःसुनीचः। मूलत्रिकोणं मेषस्य दशमींऽशः। रविचन्द्रजीवामित्राणि बुधोरिपुः, शुक्रशनी समौ। चतुर्थे अष्टमेचास्य पूर्ण्णदृष्टिः। विषमराशिषु मेषमिथुनादिषुप्रथमपञ्चांशा अस्य त्रिंशाशाः समराशिषुवृषकर्कटादिषु शेषपञ्चांशा अस्य त्रिंशाशाः। अष्टो-त्तरीयनाक्षत्रिकदशायां तस्य अष्टौ वर्षा दशाभोगकालः। विंशोत्तरीयनाक्षत्रिकदशायां तु सप्त वर्षाः। न-क्षत्रकक्षायाम् अयं शनेरधस्तृतीयकक्षायां वर्त्तते, अयंरवितस्तृतीयवारेशः। अयं दक्षिणाशाधिपतिः अतस्त-द्वारे दक्षिणद्दिग्गतिः प्रशस्ता। अयं पापग्रहःक्षत्रियवर्ण्णः भारद्वाजगोत्रः अवन्तिदेशभवः मे-षवाहनः चतुर्भुजः रक्तवर्ण्णः। तस्य स्कन्दोऽधिदेवता पृ-थिवी प्रत्यधिदेवता। पूकने रक्तचन्दनं रक्तवस्त्रम् ज-वादिरक्तपुष्पं सर्ज्जरसयुक्तसिह्लकं धूपः, यावकं नैविद्यंपूगं फलम् प्रबालं रत्नंरक्तवृषभो दक्षिणा। तस्य दौ-स्थ्योपशमनाय विप्राय रक्तवृषभं रक्तवस्त्रं प्रबालं दद्यात्स्वयं वा प्रबालं धारयेत्। अनन्तमूलं वा धारयेत्। होमेधूमकेतुरग्निः खादिरी समित्। कुजवारे दिवा

२ यामार्द्धेवारवेला

६ षष्ठे कालवेला रात्रौ

३ तृतींये कालवेला। अयंपुंग्रहः दक्षिणदिग्बली। अयं रजोगुणप्रकृतिः, तिक्त-रसाप्रधानः सामवेदाधिपः तरुणमूर्त्तिः पैत्तिकः कृशमध्यः। अस्य राशिभोगकालः

४५ दिनानिऽजन्मराशितः षष्ठे तृतीये[Page2067-a+ 38] एकादशे चायं शुभः।
“विक्रमायरिपुगः कुजःशुभः स्यात्तदा-न्त्यसुतधर्म्पगैः खगैः। चेन्न विद्ध इनसृनुरप्यसौ” ज्यो॰ त॰उक्तस्थानेषु अन्यग्रहासत्त्वे शुभदः अन्त्यसुतधर्म्मस्थितीऽयंक्रमेण तृतीयैकादशषष्ठेषु अन्यग्रहैः स्थितैर्वामवेधेन शुद्धः
“रक्तस्रावविषास्त्रकर्म्महुततुक्कार्य्यं विवादं रणं कु-र्य्याद्द्वन्द्वविधिं सुदुष्टदमनम् सेतुप्रभेदं तथा। वृक्षच्छे-दनभेदनानि मृगयां चौर्य्यं तथा साहसं सेनान्यंकृषिकर्म्म धातुकरणं भौमस्य लग्नेऽह्नि वा” ज्यो॰ त॰। उक्तकर्म्म तद्वारे तल्लग्ने च शुभदम्। कर्कटराशौ रात्रौवर्षप्रवेशेऽयं त्रिराशिपतिः, वृश्चिकलग्ने दिने वर्षप्रवेशेअयं त्रिराशिपतिः, मकरराशौ वर्षप्रवेशे दिवानिशोरयंत्रिराशिपतिः वर्षलग्नात् षष्ठस्थानमस्य हर्षपदम् मूलंनी॰ ता॰ दृश्यम्। अन्यद्ग्रहशब्दे वक्ष्यते

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुज¦ r. 1st cl. (उ) कुजु (कोजति)
1. To steal or rob. (इ) कुजि (कुञ्जति) To sound inarticulately.

कुज¦ m. (-जः)
1. The plant MARS.
2. A demon; also called Naraka.
3. A tree. f. (-जा)
1. A name of DURGA.
2. Of SITA. E. कु the earth, and ज born, earth-born.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुजः [kujḥ], 1 A tree; Pt.3.92.

The planet Mars. (कौ पृथ्व्यां जायते इति) Bhāg.2.7.34; 'न शनि-रवि-कुजानां वासरे नोग्रतारे ।' शालिहोत्र of भोज.

N. of a demon killed by Kṛiṣṇa (also called नरक q. v.) -जा N. of Sītā; also of Durgā. -Comp. -अष्टमः a particular Yoga in astrology where Mars is in the eighth place in the जन्मलग्न period.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुज/ कु--ज m. " born from the earth " , a tree L.

कुज/ कु--ज m. " the son of the earth " , N. of the planet Mars VarBr2S.

कुज/ कु--ज m. of the दैत्यनरक(conquered by कृष्ण) BhP.

कुज/ कु--ज n. the horizon(= क्षिति-ज)

कुज/ कु-ज See. 2. कु.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--vanquished by कृष्ण. भा. II. 7. ३४.
(II)--(3/4) of बृहस्पति in size. वा. ५३. ६७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KUJA : Kuja is an individual belonging to the Deva- gaṇa. His weapon is called Śakti. He wears the akṣamālā. (Rudrākṣa garland).


_______________________________
*6th word in right half of page 437 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कुज&oldid=496408" इत्यस्माद् प्रतिप्राप्तम्