जननी

विकिशब्दकोशः तः
जननी

संस्कृतम्[सम्पाद्यताम्]

  • जननी, जनयित्री, मातृः, मातृका, अम्बा, सवित्री, अम्बिका, अम्बाला, अम्बाली, अम्बालिका, प्रसूः, प्रंसविनी, जनी, प्रसवित्री, अल्ला, जनिका, अम्बिदा, अम्बिः, अरणिः, करवीरीः, गुर्वी, जनिः, जनित्री, जनित्वा, जन्मप्रतिष्टा, जानी, जातृः, धात्री, पिण्डदा, प्रकृतिः, प्रजनिका, प्रसवस्थली, विजाता, अम्बया, अरणी, गोः, जननिः।

नामः[सम्पाद्यताम्]

  • जननी नाम माता, अम्बा।

माता,जनयित्री

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जननी, स्त्री, (जनयतीति । जनि + बाहुलकादनिः । कृदिकारादिति वा ङीष् । यद्बा, कृत्यल्युटो बहुलमिति ल्युट् टित्वात् ङीप् ।) माता । (यथा, पञ्चतन्त्रे । १ । ३६ । “निरतिशयं गरिमाणं तेन जनन्याः स्मरन्ति विद्बांसः । यत् कमपि वहति गर्भं महतामपि यो गुरुर्भवति ॥”) दया । इति मेदिनी । ने, ६६ ॥ जनीनाम- गन्धद्रव्यम् । (पर्य्याया यथा, -- “पर्प्पटी रञ्जना कृष्णा जतुका जननी जनी । जतुकृष्णाग्निसंस्पर्शा जतुकृच्चक्रवर्त्तिनी ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) चर्म्मचटी । इति शब्दरत्नावली ॥ यूथिका । इति शब्दचन्द्रिका ॥ कटुका । मञ्जिष्ठा । अल- क्तकः । जटामांसी । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जननी स्त्री।

जननी

समानार्थक:जनयित्री,प्रसू,मातृ,जननी

2।6।29।1।4

जनयित्री प्रसूर्माता जननी भगिनी स्वसा। ननान्दा तु स्वसा पत्युर्नप्त्री पौत्री सुतात्मजा॥

पति : जनकः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जननी¦ स्त्री जनयति जन--णिच्--अनि जन--अपादानेअनि वा, ङीप्।

१ मातरि
“जनन्यां संस्थितायान्तु समं सर्वेसहोदराः। भजेरन् मातृकं रिक्थं भगिन्यश्च सनाभयः” मनुः।

२ दयायां भेदि॰

३ जनीनामगन्धद्रव्ये

४ चर्मचटिकायांशब्दर॰

५ बूथिकायां शब्दच॰

६ कटुकायां

७ मञ्जिष्ठायाम्[Page3020-b+ 38]

८ अलक्तके च राजनि॰।

९ उत्पादकस्त्रीमात्रे
“वदामस्ते किं वा जननि! बयमुच्चैर्जडधियः” कालीस्तवः
“वीजप्ररोहजननीं ज्वलनः करोति” रघुः।
“मासेनस्त्रीजननी” विष्णुसू॰।

१० जटामांस्यां राजनि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जननी [jananī], [जन्-णिच् अनि ङीप्]

A mother.

Mercy, tenderness, compassion; जननी तु दयामात्रोः Medinī; न संररञ्जे विषमं जनन्याम् Bu. Ch.2.34.

A bat.

Lac.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जननी f. a mother , S3a1n3khS3r. xv Mn. ix , 192 Ya1jn5. Nal. etc.

"https://sa.wiktionary.org/w/index.php?title=जननी&oldid=499662" इत्यस्माद् प्रतिप्राप्तम्