जरठः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जरठः, त्रि, (जीर्य्यत्यनेनेति । जॄ वयोहानौ + उणां १ । १०२ । सूत्रे बाहुलकात् जॄशमोर- प्यटः इत्युज्ज्वलदत्तोक्तेरठः ।) कर्कशः । पाण्डुः । कठिनः । इति मेदिनी । ठे, १३ ॥ (यथा, माघे । ४ । २९ । “अयफतिजाठाः प्रकामगुर्व्वी- रलघुविलम्बिपयोधरोपरुद्धाः ॥”) जीर्णः । इति हेमचन्द्रः ॥ (वृद्धः । यथा, भागवते । ६ । १ । २५ । “स बद्धहृदयस्तस्मिन्नर्भके कलभाषिणि । निरीक्षमाणस्तल्लीलां मुमुदे जरठो भृशम् ॥” परिणतः । यथा, माघे । ११ । १४ । “हिमरुचिररुणिम्ना राजते रज्यमानै- र्जरठकमलकन्दच्छेदगौरैर्मयूखैः ॥”) जरायां पुं । इति विश्वः ॥

"https://sa.wiktionary.org/w/index.php?title=जरठः&oldid=135486" इत्यस्माद् प्रतिप्राप्तम्