तनुः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

  1. शरीरम्
  2. गात्रम्
  3. वपुः
  4. कळेबरम्

अनुवादाः[सम्पाद्यताम्]

  1. मलयालम्-ശരീരം, ദേഹം
  2. आमगलम्-body

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनुः, स्त्री, (तनोति तन्यते इति वा । तन + “भृमृशीतॄचरीति ।” उणां । १ । ७ । इति उः ।) शरीरम् । (वथा, विष्णुपुराणे । १ । १७ । ५ । “देवाः स्वर्गं परित्यज्य तत्त्रासात् मुनिसत्तम ! । विचेरुरवनौ सर्व्वे विभ्राणा मानुषीं तनुम् ॥”) त्वक् । इति मेदिनी । ने, ९ ॥ स्त्री । इति राजनिर्घण्टः ॥

तनुः, त्रि, (तन + “भृमृशीति ।” उणां १ । ७ । इत्युः ।) अल्पः । विरलः । (यथा, मनुः । ३ । १० । “तनुलोमकेशदशनां मृद्बङ्गीमुद्बहेत् स्त्रियम् ॥”) कृशः । इति मेदिनी । ने, ९ ॥ (यथा, आर्य्या- शप्तशत्याम् । ५२५ । “वितरन्ती रसमन्तर्ममार्द्रभावं तनोषि तनुगात्रि ! ॥”)

तनुः, [स्] क्ली, (तनोति तन्यते वा । तन + “अर्त्तिपॄवपियजितनिधनितपिभ्यो नित् ।” उणां २ । ११८ । इति उसिः स च नित् ।) शरी- रम् । इत्युणादिकोषः ॥

"https://sa.wiktionary.org/w/index.php?title=तनुः&oldid=461736" इत्यस्माद् प्रतिप्राप्तम्