दन्ती

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नाम:[सम्पाद्यताम्]

दन्तम् अस्य अस्ति इति दन्ती, दन्तिन् - नकारान्त: शब्द:

पर्याय रूपाणि[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दन्ती, स्त्री, (दाम्यत्यनयेति । दम + “हसि- मृग्रिण्वेति ।” उणां । ३ । ८६ । इति तन् । ततो गौरादित्वात् ङीष् ।) स्वनामख्यातवृक्षः । तत्- पर्य्यायः । शीघ्रा २ श्येनघण्टा ३ निकुम्भी ४ नागस्फोता ५ दन्तिनी ६ उपचित्रा ७ भद्रा ८ रूक्षा ९ रेचनी १० अनुकूला ११ निःशल्या १२ चक्रदन्ती १३ विशल्या १४ मधुपुष्पा १५ एरण्ड- फला १६ तरुणी १७ एरण्डपत्रिका १८ अणु- रेवती १९ विशोधनी २० कुम्भी २१ उडुम्बर- दला २२ । इति राजनिर्घण्टः ॥ निकुम्भः २३ । दन्तिका २४ प्रत्यक्पर्णी २५ उदूम्बरपर्णी २६ । इत्यमरः । २ । ८ । ३४ ॥ अस्या गुणाः । कटु- त्वम् । उष्णत्वम् । शूलामत्वग्दोषार्शोव्रणाश्मरी- शल्यशोधनत्वम् । दीपनत्वञ्च । इति राज- निर्घण्टः ॥ अष्ठीलिकाध्मानगुल्मोदरनाशित्वम् । सारकत्वञ्च । इति राजवल्लभः ॥ अथ लघुदन्ती । “लघ्वी दन्ती विशल्या च स्यादुडम्बरपर्ण्यपि । अथैरण्डफला शीघ्रा श्येनघण्टा घुणप्रिया ॥ वाराहाङ्गी च कथिता निकुम्भश्च मकूलकः ॥” अथ बृहद्दन्ती । “एरण्डपत्रविठपा द्रवन्ती सम्बरी वृषा । चित्रोपचित्रा न्यग्रोधी प्रत्यक्पर्णाखुकर्ण्यपि ॥ * ॥ दन्तीद्वयं सरं पाके रसे च कटु दीपनम् । गुदाङ्कुराश्मशूलास्रकण्डूकुष्ठविदाहनुत् ॥ तीक्ष्णोष्णं हन्ति पित्तास्रकफशोथोदरक्रिमीन् ॥ लघुदन्तीफलगुणाः । क्षुद्रदन्तीफलं तु स्यान्मघुरं रसपाकयोः । शीतलं सृष्टविण्मूत्रगरशोथकफापहम् ॥” इति भावप्रकाशः ॥

दन्ती, [न्] पुं, (प्रशस्तौ दन्तौ स्तः अस्येति । दन्त + इनिः ।) हस्ती । इत्यमरः । २ । ८ । ३४ ॥ (यथा, देवीभागवते । २ । ९ । ४५ । “मन्त्रिपुत्त्रः स्थितस्तत्र स्थापयामास दन्तिनः ॥” स्त्रियां ङीप् । यथा, आर्य्यासप्तशत्याम् । ६५२ । “स्नेहक्षतिर्जिगीषा समरः प्राणव्ययावधिः करि- णाम् । न वितनुते कमनर्थं दन्तिनि ! तव यौवनोद्भेदः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दन्ती¦ स्त्री दम--तन् गौरा॰ ङीष्।

१ उदुम्बरपर्ण्यां, प्रत्यक्पर्ण्यमोषधौ अमरः। दन्तः गजदन्त इव मूलमस्त्यस्याःअच् गौरा॰ ङीष्।

२ स्वनामख्याते वृक्षे भावप्र॰
“लघुदीर्घ-प्रभेदेन प्रोक्तं दन्तीद्वयं बुधैः। दन्तीद्वयं सरं पाके रसे चकटु दीपनम्। गुदाङ्कुराश्मशूलास्रकण्डुकुष्ठविदाहनुत्। तीक्ष्णोष्णं हन्ति पित्तास्रकफशीथोदरक्रमीन्” भावप्र॰तद्गुणा उक्ताः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दन्ती f. = तिकाSus3r. VarBr2S.

दन्ती f. (in music) N. of a composition

दन्ती f. See. इभ-दन्ता

दन्ती f. कुड्मल-and क्रूर-अ-दन्तीetc.

"https://sa.wiktionary.org/w/index.php?title=दन्ती&oldid=500141" इत्यस्माद् प्रतिप्राप्तम्