नाशः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाशः, पुं, (नश + भावे घञ् ।) पलायनम् । निधनम् । (यथा, महाभारते । १ । १२० । १६ । “पित्र्यादृणादनिर्मुक्तस्तेन तप्ये तपोधनाः । देहनाशे ध्रुवो नाशः पितॄणामेष निश्चयः ॥”) अनुपलम्भः । अदर्शनम् । इति मेदिनी । शे, ९ ॥ परिध्वस्तिः । इति हेमचन्द्रः । २ । २३८ ॥ जीवानां नाशहेतुर्यथा, -- “सङ्गात् संजायते कामः कामात् क्रोधोऽभि- जायते । क्रोधाद्भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः ॥ स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात् प्रणश्यति ॥” इति श्रीभगवद्गीता ॥ कुलनाशकारणं यथा, -- “अनृतात् पारदार्य्याच्च तथाभक्ष्यस्य भक्षणात् । अश्रौतधर्म्माचरणात् क्षिप्रं नश्यति वै कुलम् ॥ अश्रोत्रिये वेददानात् वृषलेषु तथैव च । विहिताचारहीनेषु क्षिप्रं नश्यति वै कुलम् ॥” इति कौर्म्मे उपविभागे १५ अध्यायः ॥ नश्यतां पूर्ब्बरूपाणि यथा, -- अत्रिरुवाच । “नश्यतां पूर्ब्बरूपाणि जनानां कथयस्व मे । नगराणां तथा राज्ञां त्वं हि सर्व्वं वदिष्यसि ॥ गर्ग उवाच । पुरुषाचारनियमात् परित्यजति देवता । ततोऽपरागाद्देवानामुपसर्गः प्रवर्त्तते ॥ दिव्यान्तरीक्षे भौमञ्च त्रिविधं परिकीर्त्तितम् । ग्रहर्क्षवैकृतं दिव्यमन्तरीक्षं निबोध मे ॥ उल्कापातो दिशां दाहः परिवेशस्तथैव च । गन्धर्व्वनगरञ्चैव वृष्टिश्च विकृता च या । एवमादीनि लोकेऽस्मिन् नाकेशानां विनिर्द्दिशेत् ॥ चरः स्थिरस्तु भूमौ च भूकम्पश्चापि भूमिजः । जलाशयानां वैकृत्यं भौमं तदपि कीर्त्तितम् ॥” इति मात्स्ये २०३ अध्यायः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाशः [nāśḥ], [नश्-भावे घञ्]

Disappearance; गता नाशं तारा उपकृतमसाधाविव जने Mk.5.25.

Frustration, destruction, ruin, loss; नेहाभिक्रमनाशो$स्ति Bg.2.4; R.8.88;12. 67: so वित्त˚, बिद्धि˚ &c.

Death.

Misfortune, calamity.

Abandonment, desertion.

Flight, retreat.

(In arith.) Elimination.

Want of apprehension, non-perception (अनुपलम्भ).

"https://sa.wiktionary.org/w/index.php?title=नाशः&oldid=353914" इत्यस्माद् प्रतिप्राप्तम्