पतङ्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पतङ्गम्, क्ली, (पत् ऌ गत्यैश्वर्य्ययोः । बाहुलकात् अङ्गच् ।) सुतम् । पारदम् । इति मेदिनी ॥ चन्दनभेदः । इति शब्दचन्द्रिका ॥

पतङ्गः, पुं, (पतति गच्छतीति । “पतेरङ्गच् पक्षिणि ।” उणां । १ । ११८ । इति अङ्गच् ।) पक्षी । (यथा, मार्कण्डेये । १० । ८६ । “ततः सर्व्वेषु निस्तीर्णः पापी तिर्य्यक्त्वमश्नुत । कृमिकीटपतङ्गेषु श्वापदे मशकादिषु ॥”) सूर्य्यः । (यथा, माघे । १ । १२ । “पतत्पतङ्गप्रतिमस्तपोनिधिः पुरोऽस्य यावन्न भुवि व्यलीयत ॥” “कथं पतङ्गः सूर्य्यः । खगत्वसामान्योपचारात् । ‘पतङ्गः शलभे सूर्य्ये पतङ्गः पक्षिणि स्मृतः ॥’ इति कोषान्तरम् ॥” इत्युज्ज्वलदत्तः ॥) शलभः । इत्यमरः । ३ । ३ । २० ॥ शालि- प्रभेदः । इति मेदिनी ॥ जलमधूकवृक्षः । इति राजनिर्घण्टः ॥

पतङ्गम्, क्ली, (पत्रमिव अङ्गं यस्य । पृषोदरात्- साधु ।) रक्तचन्दनम् । इति शब्दरत्नावली ॥ वृक्षविशेषः । वकम् इति भाषा । तत्पर्य्यायः । पत्राङ्गम् २ रक्तकाष्ठम् ३ सुरङ्गदम् ४ पत्रा- ण्यम् ५ पट्टरङ्गम् ६ भार्य्यावृक्षः ७ रक्तकः ८ लोहितम् ९ रङ्गकाष्ठम् १० रोगकाष्ठम् ११ कुचन्दनम् १२ पट्टरञ्जनकम् १३ सुरङ्गम् १४ । अस्य गुणाः । कटुत्वम् । रूक्षत्वम् । अम्लत्वम् । शीतत्वम् । गौल्यत्वम् । वातपित्तज्वरविष्फो- टोन्मादभूतनाशित्वञ्च । इति राजनिर्घण्टः ॥ अपि च भावप्रकाशे । “पतङ्गन्तु रक्तसारं सुरङ्गं रञ्जनं तथा । पटरञ्जनमाख्यातं पत्तूरञ्च कुचन्दनम् ॥ पतङ्गं मधुरं शीतं पित्तश्लेष्मव्रणास्रनुत् । हरिचन्दनवज्ज्ञेयं विशेषाद्दाहनाशनम् ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पतङ्ग पुं।

पतङ्गः

समानार्थक:पतङ्ग,शलभ

2।5।28।2।1

भृङ्गारी झीरुका चीरी झिल्लिका च समा इमाः। समौ पतङ्गशलभौ खद्योतो ज्योतिरिङ्गणः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, कीटः

पतङ्ग पुं।

पक्षी

समानार्थक:खग,विहङ्ग,विहग,विहङ्गम,विहायस्,शकुन्ति,पक्षिन्,शकुनि,शकुन्त,शकुन,द्विज,पतत्रिन्,पत्रिन्,पतग,पतत्,पत्ररथ,अण्डज,नगौकस्,वाजिन्,विकिर,वि,विष्किर,पतत्रि,नीडोद्भव,गरुत्मत्,पित्सन्त्,नभसङ्गम,पतङ्ग,वयस्

3।3।20।1।1

पतङ्गौ पक्षिसूर्यौ च पूगः क्रमुकवृन्दयोः। पशवोऽपि मृगा वेगः प्रवाहजवयोरपि॥

अवयव : पक्षिपक्षः,पक्षमूलम्,अण्डम्

वैशिष्ट्यवत् : पक्षिशब्दः,पक्षिगतिविशेषः

वृत्तिवान् : पक्षीणां_हन्ता

 : गरुडः, कपोतः, श्येनः, उलूकः, भरद्वाजपक्षी, खञ्जनः, कङ्कः, चाषः, भृङ्गः, काष्ठकुट्टः, चातकपक्षी, कुक्कुटः, चटकः, अशुभवादिपक्षिविशेषः, अशुभपक्षिभेदः, कोकिलः, काकः, कालकण्ठकः, चिल्लः, गृध्रः, शुकः, क्रौञ्चः, बकः, सारसः, चक्रवाकः, कलहंसः, कुररः, हंसः, आडिः, जतुका, तैलपायिका, मयूरः, पक्षिजातिविशेषः, भासः, मत्स्यात्खगः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

पतङ्ग पुं।

सूर्यः

समानार्थक:सूर,सूर्य,अर्यमन्,आदित्य,द्वादशात्मन्,दिवाकर,भास्कर,अहस्कर,ब्रध्न,प्रभाकर,विभाकर,भास्वत्,विवस्वत्,सप्ताश्व,हरिदश्व,उष्णरश्मि,विकर्तन,अर्क,मार्तण्ड,मिहिर,अरुण,पूषन्,द्युमणि,तरणि,मित्र,चित्रभानु,विरोचन,विभावसु,ग्रहपति,त्विषाम्पति,अहर्पति,भानु,हंस,सहस्रांशु,तपन,सवितृ,रवि,पद्माक्ष,तेजसांराशि,छायानाथ,तमिस्रहन्,कर्मसाक्षिन्,जगच्चक्षुस्,लोकबन्धु,त्रयीतनु,प्रद्योतन,दिनमणि,खद्योत,लोकबान्धव,इन,भग,धामनिधि,अंशुमालिन्,अब्जिनीपति,चण्डांशु,क,खग,पतङ्ग,तमोनुद्,विश्वकर्मन्,अद्रि,हरि,हेलि,अवि,अंशु,तमोपह

3।3।20।1।1

पतङ्गौ पक्षिसूर्यौ च पूगः क्रमुकवृन्दयोः। पशवोऽपि मृगा वेगः प्रवाहजवयोरपि॥

अवयव : किरणः

पत्नी : सूर्यपत्नी

सम्बन्धि2 : सूर्यपार्श्वस्थः

वैशिष्ट्यवत् : प्रभा

सेवक : सूर्यपार्श्वस्थः,सूर्यसारथिः

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पतङ्ग¦ पुंस्त्री पतन् उत्प्लवन् गच्छति ड नि॰।

१ खगेअमरः स्त्रियां जातित्वात् ङीष्।

२ सूर्य्ये पु॰

३ शलभे(फडिङ्ग) कीटभेदे

४ शालिभेदे पु॰ मेदि॰

५ जलमधूकवृक्षेराजनि॰।

६ पारदे न॰ मेदि॰

७ चन्दनभेदे न॰ शब्दच॰। प्लक्षद्वीपस्थे क्षत्रियस्थानीये

८ वर्णभेदे पु॰
“हंसपतङ्गोर्द्धा-यनसत्याङ्गसंज्ञाश्चत्वारो वर्णाः” भाग॰

५ ।

२ । ॰

७ श्लो॰। उत्प्लवनेन

१० पतने च पतङ्गरशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पतङ्ग¦ mf. (-ङ्गः-ङ्गी)
1. A grasshopper.
2. A bird.
3. A sort of rice.
4. The sun. n. (-ङ्गं)
1. Quicksilver.
2. A kind of Sandal. E. पत् falling, गम् to proceed, aff.; खच्; or पत् to fall, अङ्गच् Una4di aff. also पतङ्गम | [Page416-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पतङ्गः [pataṅgḥ], [पतन् उत्प्लवन् गच्छति गम्-ड नि˚]

A bird; नृपः पतङ्गं समधत्त पाणिना N.1.124; Bv.1.17.

The sun; विकसति हि पतङ्गस्योदये पुण्डरीकम् U.6.12; Mal.1.24; Śi. 1.12; R.2.15.

A moth, locust, or grass-hopper; पतङ्गवद्वह्निमुखं विविक्षुः Ku.3.64;4.2; Pt 3.126.

A bee.

A ball for playing with; यो$सौ त्वया करसरोजहतः पतङ्गः Bhāg.5.2.14.

Ved. A spark.

A devil.

Quicksilver.

N. of Kṛiṣṇa

A horse.

A species of rice.

ङ्गम् Quicksilver.

A kind of sandal wood.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(III)--a son of देवकी killed by Kamsa; taken to द्वारका from Sutala by कृष्ण, and after having been seen by his parents, went to Heaven. भा. X. ८५. ५१-6. [page२-281+ २७]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PATAṄGA : A mountain. There are twenty small mountains around Mahāmeru and Pataṅga is one of them.


_______________________________
*1st word in right half of page 583 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Pataṅga, ‘flying,’ denotes a ‘winged insect’ in the Atharvaveda[१] and the Upaniṣads.[२]

  1. vi. 50, 1.
  2. Bṛhadāraṇyaka Upaniṣad, vi. 1, 19 (Mādhyaṃdina = vi. 2, 14 Kāṇva);
    2, 14 (= 1, 14);
    Chāndogya Upaniṣad, vi. 9, 3;
    10, 2;
    vii. 2, 1;
    7, 1;
    8, 1;
    10, 1;
    Adbhuta Brāhmaṇa, vi. 5 (Indische Studien, 1, 40).
"https://sa.wiktionary.org/w/index.php?title=पतङ्ग&oldid=500768" इत्यस्माद् प्रतिप्राप्तम्