पत्नी

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • पत्नी, जाया, पली, भार्या, वल्लभा, नारी, प्रिया, हृदयेशा, सुरता, ऊढा, कान्ता, गृहिणी, जनी, दयिता, त्रिणीता, द्वितीया, धूता, पाणिप्रणयिनी, पुरंध्री, प्राणेशा, प्राणेश्र्वरी, प्रेष्ठा, प्रियतमा, रामा, रमणा, योषणा, योषिता, ललना, वाशिता, विलासिनी, विरा, श्रृङ्गारिणी, सधर्मचारिणी, सहचरी, सती, स्त्री, ग्ना, प्रणयिनी, रमा, रमणी।

नामः[सम्पाद्यताम्]

इतरलिम्गम्[सम्पाद्यताम्]

भर्ता

अनुवादाः[सम्पाद्यताम्]

  1. самка в животной паре
  2. диалект женщина

इत्तालियन्-moglie फ़्रन्च्-Femme, épouse.

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत्नी, स्त्री (पत्यर्यज्ञे सम्बन्धो यया । “पत्युर्नोयज्ञ- संयोगे ।” ४ । १ । ३२ । इति नकारादेशः ङीप् च ।) वेदविधानेनोढा । अन्यत्रोपचारात् । पत्या उद्वाहविहितमन्त्रादिना ऊढा । इति भरतः ॥ तत्पर्य्यायः । पाणिगृहीती २ द्वितीया ३ सहधर्म्मिणी ४ भार्य्या ५ जाया ६ दाराः ७ सधर्म्मिणी ८ धर्म्मचारिणी ९ दारः १० गृहिणी ११ । इति शब्दरत्नावली ॥ सहचरी १२ गृहः १३ क्षेत्रम् १४ वधूः १५ जनी १६ परिग्रहः १७ ऊढा १८ कलत्रम् १९ । इति हेमचन्द्रः ॥ (पत्नीगुणेनैव हि पुरुषाः सुखिनो भवन्ति । यस्य पत्नी वशानुगा स भूस्थोऽपि स्वर्गस्थः । गृहाश्रमतुल्यं किञ्चिदपि नास्ति यदि तत्र हित- कामा पत्नी वर्त्तते । सपत्नीक एव सर्व्वधर्म्म- करणार्हः । यदक्तं दक्षसंहितायाम् । “पत्नीमूलं गृहं पुंसां यदि छन्दोनुवर्त्तिनी । गृहाश्रमसमं नास्ति यदि भार्य्या वशानुगा ॥ तया धर्म्मार्थकामानां त्रिवर्गफलमश्नुते । प्राकाम्ये वर्त्तमाना तु स्नेहान्नतु निवारिता ॥ अवश्या सा भवेत् पश्चात् यथा व्याधिरपेक्षितः । अनुकूला न वागदुष्टा दक्षा साध्वी प्रियंवदा ॥ आत्मगुप्ता स्वामिभक्ता देवता सा न मानुषी । अनुकूलकलत्रो यस्तस्य स्वर्ग इहैव हि ॥ प्रतिकूलकलत्रस्य नरको नात्र संशयः । स्वर्गेऽपि दुर्लभं ह्येतदनुरागं परस्परम् ॥ रक्त एको विरक्तोऽन्यस्तस्मात् कष्टतरं नु किम् ॥ गृहवासः सुखार्थाय पत्नीमूलं गृहे सुखम् । सा पत्नी या विनीता स्याच्चित्तज्ञा वशवर्त्तिनी ॥ दुःखदान्या सदा खिन्ना चित्तभेदात् परस्परम् । प्रतिकूलकलत्रस्य द्विदारस्य विशेषतः ॥ योषित् सर्व्वा जलौकेव भूषणाच्छादनाशनैः । सुभूत्यापि कृता नित्यं पुरुषं ह्यपकर्षति ॥ जलौका रक्तमादत्ते केवलं सा तपस्विनी । इतरा तु धनं वित्तं मांसं वीर्य्यं बलं सुखम् ॥ सशङ्का बालभावे तु यौवने विमुखी भवेत् । तृणवन्मन्यते पश्चाद्वृद्धभावे स्वकं पतिम् ॥ अनुकूला न वाग्दुष्टा दक्षा साध्वी पतिव्रता । एभिरेव गुणैर्युक्ता श्रीरेव स्त्री न संशयः ॥ या हृष्टमनसा नित्यं स्थानमानविचक्षणा । भर्त्तुः प्रीतिकरी नित्यं सा पत्नी हीतरा ज्वरा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत्नी स्त्री।

पत्नी

समानार्थक:सधर्मिणी,पत्नी,पाणिगृहीती,द्वितीया,सहधर्मिणी,भार्या,जाया,दार,वधू,तल्प,कलत्र,क्षेत्र,परिग्रह,गृह

2।6।5।2।1

कृताभिषेका महिषी भोगिन्योऽन्या नृपस्त्रियः। पत्नी पाणिगृहीती च द्वितीया सहधर्मिणी॥

पति : पतिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत्नी¦ स्त्री पति +
“पत्युर्नो यज्ञसम्बन्धे” पा॰ नः, ङीप् च।

१ पतिकृतयज्ञफलभोक्त्र्यां विवाहितायां स्त्रियाम् अमरः
“पत्नीमूलं गृहं पुंसां यदि छन्दोऽनुवर्त्तिनी। गृहाश्रमसमं नास्ति यदि भार्य्या वशानुगा। तया धर्मार्थकामानांत्रिवर्गफलमश्नुते। प्राकाम्ये वर्त्तमाना तु स्नेहान्न तुनिवारिता। अवश्या सा भवेत् पश्चाद् यथा व्याघि-रुपेक्षितः। अनुकूला न वाग्दष्टा दक्षा साध्वी प्रियं-वदा। आत्मगुप्ता स्वामिभक्ता देवता सा न मानुषी। अनुकूलकलत्रो यस्यस्य स्वर्ब इहैव हि। प्रतिकूत्रकलत्रस्य नरको नात्र संशयः। स्वर्गोऽपि दुर्लभं ह्येत-दनुरागः परस्परम्। रक्त एको विरक्तोऽन्यस्तस्मात्कष्टतरं नु किम्?। गृहवासः सुखार्थाय पत्नीमूलं गृहेसुखम्। सा पत्नी या विनीता स्याच्चितज्ञा वशवर्त्तिनी। दुःखदाऽन्या सदा खिन्ना चित्तभेदात् परस्परम्। प्रतिकूलकलत्रस्य द्विदारस्य विशेषतः। योषित् सर्वा जलौ-केव भूषणाच्छादनाशनैः। सुभूत्यापि कृता नित्यं पुरुषंह्यपकर्षति। जलौका रक्तमादत्ते केवलं सा तपस्विनी। इतरा तु धनं वित्तं मांसं वीर्य्यं बलं सुखम्। स-शङ्का बालभावे तु यौवने विसुखी भवेत्। तृणवन्मन्थतेपश्चाद्वृद्धभावे स्वकं पतिम्। अनुकूला न श्राग्दुष्टादक्षा साध्वी पतिव्रता। एभिरेव गुणैर्युक्ता श्रीरेवस्त्री न संशयः। या हृष्टमनसा नित्यं स्थानमानविचक्षणा। भर्तुः प्रीतिकरी नित्यं सा भार्य्या हीतराज्वरा” दक्षसं॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत्नी [patnī], 1 A wife; वृषेव पत्नीरभ्येति रोरुवत् Rv.1.14.6; पत्नीमूलं गृहं पुंसां यदि छन्दोनुवर्तिनी, गृहाश्रमसमं नास्ति यदि भार्या वशानुगा ॥ Dakṣasaṁhitā.

Ved. A mistress; पत्नी इति हि यज्ञस्य स्वामिनीति उच्यते, न क्रीता ŚB. on MS.6.1.17.

(in Astro.) N. of the 7th mansion. -Comp. -आटः seraglio, women's apartments. -शाला a hut tent, room for wives and domestic purposes.

संनहनम् girdling a wife.

the girdle of a wife. -संयाजः a particular sacrifice; पत्नीसंयाजावभृथ्यैश्चरित्वा ते तमृत्विजः Bhāg.1.75.19.

पत्नी [patnī], See under पति.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत्नी f. (rarely पत्नि)a female possessor , mistress RV. etc.

पत्नी f. a wife( RV. i , 140 , 6 ; iv , 24 , 8 , even applied to cows) ib. (See. पतिf. )

पत्नी f. (in astrol. ) N. of the 7th mansion Var. [ cf. Gk. ?.]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Patnī. See Pati. A part of the house is the Patnīnāṃ Sadana, mentioned in the Atharvaveda,[१] presumably the women's quarters. The phrase is borrowed from the Patnīśāla, ‘hut for the wife,’ of the Brāhmaṇa[२] ritual.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत्नी स्त्री.
(पति + ङीप् + नकारादेश, पत्युर्नो यज्ञसंयोगे, पा 4.1.33) यजमान की पत्नी, जो श्रौत कृत्यों में बहुत सीमित ढंग से भाग लेती है, उदाहरणार्थ-मण्डप को बुहारना, यज्ञीय भूमि को लीपना एवं इसे सजाना-संवारना, पञ्चाङ्गीबद्ध पत्नी 278 आप.श्रौ.सू. 1.6.12 पुरोडाश के लिए अनाज को पीसना, 1.7.5; अपने पति के साथ दीक्षा में उसका थोड़ी अधिक महत्त्वपूर्ण भूमिका होती है, 1०.15.13 (सोम); सोम की टहनियों के साथ शोभायात्रा में, 11.16.4; बाद में वह ‘पन्नेजनी’ संज्ञक कृत्य का अनुष्ठान करती है, 12.5.3. वरुणप्रघास में उसे अपने उपपति (जार) की घोषणा करनी पड़ती है। राजा की पत्नियां ऋत्विजों के साथ अश्लील वार्तालाप (वाद-विवाद) में भाग लेती हैं, का.श्रौ.सू. 2०.5.15; 18 (अश्वमेध); प्रधान महिषी मृत अश्व के साथ संभोग करती है, आप.श्रौ.सू. 22.18.3-4; वास्तव में अवाञ्छनीय स्थिति तक पदावनत की गई (दर्ज़ा घटाया गया); मूकदर्शक, का.श्रौ.सू. 4.13 पर पद्धति देखें, मी.सू. 6.1.24 उसके पति के साथ उसके अतुल्यता की बात करता है; अनुवाक में (प्रयुक्त) एक मन्त्र जिसका प्रारम्भ ‘सेने इन्द्रस्य’ से होता है और इसका पाठ ‘इयं नारी’ इस ऋचा के साथ होता है, श्रौ.को. (अं.) I.116।

  1. ix. 3, 7.
  2. Vājasaneyi Saṃhitā, xix. 18;
    Śatapatha Brāhmaṇa, iv. 6, 9, 8;
    x. 2, 3, 1;
    Aitareya Brāhmaṇa, v. 22 (-śālā);
    Kauṣītaki Brāhmaṇa, xix. 6, etc.
"https://sa.wiktionary.org/w/index.php?title=पत्नी&oldid=508979" इत्यस्माद् प्रतिप्राप्तम्