पारदः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारदः, पुं, (जरामरणसङ्कटादिभ्यः पारं ददा- तीति । दा + कः ।) धातुविशेषः । पारा इति भाषा । तत्पर्य्यायः । रसराजः २ रसनाथः ३ महारसः ४ रसः ५ महातेजः ६ रसलेहः ७ रसोत्तमः ८ सूतराट् ९ चपलः १० जैत्रः ११ शिवबीजम् १२ शिवः १३ अमृतम् १४ रसेन्द्रः १५ लोकेशः १६ दुर्द्धरः १७ प्रभुः १८ रुद्रजः १९ हरतेजः २० रसधातुः २१ अचि- न्त्यजः २२ खेचरः २३ अमरः २४ देहदः २५ मृत्युनाशकः २६ सूतः २७ स्कन्दः २८ स्कन्दां- शकः २९ देवः ३० दिव्यरसः ३१ रसायनश्रेष्ठः ३२ यशोदः ३३ । इति राजनिर्घण्टः ॥ सूतकः ३४ सिद्धधातुः ३५ पारतः ३६ । इति शब्दरत्ना- वली ॥ हरबीजम् ३७ रजस्वलः ३८ । इति हेमचन्द्रः ॥ शिववीर्य्यम् ३९ शिवाह्वयः ४० । इति भावप्रकाशः ॥ अस्य गुणाः । क्रमिकुष्ठ- नाशित्वम् । चक्षुष्यत्वम् । रसायनत्वञ्च । इति राजवल्लभः ॥ अस्य भस्मनः पूर्णवीर्य्यं मासत्रय- पर्य्यन्तं तिष्ठति । इति परिभाषा ॥ * ॥ अपि च । “पारदः सकलरोगनाशकः षड्रसो निखिलयोगवाहकः । पञ्चभूतमय एष कीर्त्तितो देहलोहवरसिद्धिकारकः ॥ मूर्च्छितो हरते व्याधीन् बद्धः खेचरसिद्धिदः । सर्व्वसिद्धिकरो लीनो निरुत्थो देहसिद्धिदः ॥ विविधव्याधिभयोदयमरणजरासङ्कटेऽपि मर्त्त्येभ्यः । पारं ददाति यस्मात्तस्मादयं पारदः कथितः ॥” इति राजनिर्घण्टः ॥ मृन्मूषासंपुटे पक्वः सूतो यात्येव भस्मताम् ॥” इति भावप्रकाशे पूर्ब्बखण्डे २ भागे ॥ अथ पारदशिवलिङ्गनिर्म्माणविधिः । “पारदे शिवनिर्म्माणे नानाविघ्नं यतः प्रिये ! । अतएव महेशानि ! शान्तिस्वस्त्ययनं चरेत् ॥ पारदं शिवबीजं हि ताडनं नहि कारयेत् । ताडनाद्वित्तनाशः स्यात्ताडनाद्वित्तहीनता ॥ ताडनाद्रोगयुक्तत्वं ताडनान्मरणं भवेत् । द्वादशं पार्थिवं लिङ्गमुपचारैश्च षोडशैः । पट्टादिसूत्रनिर्म्माणरचितं शुक्लमेव वा ॥ पुरुषस्य यथायोग्यं युग्मवस्त्रं निवेदयेत् ॥ भोगयोग्यं प्रदातव्यं मधुपर्कं कुलेश्वरि ! । अलङ्कारं यथाशक्ति दद्यात् कल्याणहेतवे ॥ पूजयेद्बहुयत्नेन विल्वपत्रेण पार्व्वति ! । तोडलोक्तेन विधिना प्रत्येकेनायुतं जपेत् ॥ आदौ पञ्चाक्षरं मन्त्रमष्टोत्तरशतं जपेत् । पूजान्ते प्रजपेत् पश्चात् प्रासादाख्यं महामनुम् ॥ दक्षिणान्तं समाचर्य्य हविष्याशी जितेन्द्रियः । ताम्बूलञ्च तथा मत्स्यं वर्जयेन्न कदाचन । अस्मिंस्तन्त्रे हविष्यान्नं ताम्बूलं मीनमुत्तमम् ॥ होमयेत् परमेशानि ! दशांशं वा शतांशकम् । होमस्य दक्षिणा कार्य्या तदा विघ्नैर्न लिप्यते ॥ ततः परस्मिन् दिवसे पारदं आनयेत् सुधीः । तस्योपरि जपेन्मन्त्रं सर्व्वबन्धं नवात्मकम् ॥ व्योमबीजं शिवार्णञ्च वर्णाद्यं बिन्दुमस्तकम् । वायुबीजं चेन्दुयुतं त्रितयं त्र्यम्बकं प्रिये ! ॥ इमं मन्त्रं महेशानि ! प्रजपेदौषधोपरि ॥ पारदे प्रजपेन्मन्त्रमष्टोत्तरशतं यदि । तदैवौषधयोगेन बद्धो भवति नान्यथा ॥ ततः परस्मिन् दिवसे शृणु यत् प्राणवल्लभे ! । वरयेत् सर्व्वकर्त्तारं यथोक्तविभवावधि ॥ सुवर्णं चम्पकाकारं कर्णयुग्मे निवेशयेत् । चतुष्कोणयुतं स्वर्णं ग्रीवायां सुमनोहरम् ॥ हस्तद्वये महेशानि ! दद्याद्वलययुग्मकम् । वलयं शुक्लवर्णञ्च अङ्गुरीयं तथैव च ॥ ऊर्म्मीं दद्यात् पीतवर्णां क्षौमवस्त्रयुगं शिवे ! । एवं कृत्वा महेशानि ! शिवरूपं विचिन्तयेत् ॥ अथातः संप्रवक्ष्यामि विधानं शृणु पार्व्वति ! । प्रस्तरे चैव संस्थाप्य झिण्टीपत्ररसेन च । प्रणवेन समालोड्य कुर्य्यात् कर्द्दमवन् प्रिये ! ॥ निर्म्माणयोग्यं तद्द्रव्यं यदि स्यात् सुरसुन्दरि ! । तदा निर्म्माय तल्लिङ्गं पुनर्दृढतरञ्चरेत् ॥ खपुष्पसंयुते वस्त्रे अङ्गारे च करीषके । किञ्चिदुष्णं प्रकर्त्तव्यं यतो दृढतरं भवेत् ॥” इति मातृकाभेदतन्त्रे ८ पटलः ॥ * ॥ सगरराजकृतमुक्तकेशम्लेच्छजातिविशेषः ॥ (यथा, महाभारते । २ । ५१ । १३ । “कैराता दरदा दर्व्वाः शूरा वैयामकास्तथा । औदुम्बरादुर्विभागा पारदाः सह वाह्लिकैः ॥”) अस्य विवरणं पह्नवशब्दे द्रष्टव्यम् ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारदः [pāradḥ], quick-silver; पारदः पारतः सूतो हरबीजं रसश्चलः Abh. Chin.15; निदर्शनं पारदो$त्र रसः Bv.1.82; पारदं हरितालं च Śiva B.3.19; संसारस्य परं पारं दत्ते$सौ पारदः स्मृतः Raseśvaradarśanam. -दाः m. (pl.) N. of a barbarous tribe; see Ms.1.44; Mb.2.

"https://sa.wiktionary.org/w/index.php?title=पारदः&oldid=294128" इत्यस्माद् प्रतिप्राप्तम्