प्रथमः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रथमः, त्रि, (प्रथते प्रसिद्धो भवतीति । प्रथ् + “प्रथेरमच् ।” उणा० ५ । ६८ । इति अमच् ।) प्रधानम् । (यथा, रघुः । १० । ६७ । “राम इत्यभिरामेण वपुषा तस्य चोदितः । नामधेयं गुरुश्चक्रे जगत्प्रथममङ्गलम् ॥”) आदिमः । तत्पर्य्यायः । आदिः २ पूर्ब्बः ३ पौरस्त्यः ४ आद्यः ५ । इत्यमरः ॥ अग्रिमः ६ इति जटाघरः ॥ प्राक् ७ । इत्यव्ययवर्गे अमरः ॥ (यथा, विष्णुपुराणे । १ । ११ । ५२ । “बाह्यार्थानखिलांश्चित्तं त्याजयेत्प्रथमं नरः ॥”)

"https://sa.wiktionary.org/w/index.php?title=प्रथमः&oldid=502094" इत्यस्माद् प्रतिप्राप्तम्