बुभुक्षा

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • बुभुक्षा, अशना, क्षुधा, अशनाया, क्षारिका, भोगपिशाचिका, क्षुध्, प्सा, जिघत्सा।

नाम[सम्पाद्यताम्]

  • बुभुक्षा नाम इच्छा।


  1. भोक्तुम् इच्छा;

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुभुक्षा, स्त्री, (भोक्तुमिच्छा । भुज धौ भक्षे + “घातोः कर्म्मणः समानकर्त्तृकादिच्छायां वा ।” ३ । १ । ७ । इति सन् । ततः “अः प्रत्ययात् ।” ३ । ३ । १०२ । इत्यस्ततष्टाप् ।) क्षुधा । इत्य- मरः । २ । ९ । ५४ ॥ (यथा, रामायणे । २ । २८ । १८ । “अतीववातस्तिमिरं बुभुक्षा चास्ति नित्यशः । भयानि च महान्त्यत्र ततो दुःखतरं वनम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुभुक्षा स्त्री।

बुभुक्षा

समानार्थक:अशनाया,बुभुक्षा,क्षुत्

2।9।54।2।2

मण्डम्दधिभवं मस्तु पीयूषोऽभिनवं पयः। अशनाया बुभुक्षा क्षुद्ग्रासस्तु कवलः पुमान्.।

वैशिष्ट्य : बुभुक्षितः

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुभुक्षा¦ स्त्री॰ भुज--सन्--भावे अ। भोजनेच्छायां क्षुधायाम्सा च प्राणधर्मः यथोक्तं शा॰ ति॰
“बुभुक्षा च पिपाषा चप्राणस्य” ऊर्मिशब्दे दृश्यम्। अश्चेऽजीर्णे च सा नभवति अथ मवति चेत् अनिष्टदा यथोक्तं सुश्रुते
“उद्गा-रशुद्धावपि भक्तकाङ्क्षा न जावते हृद्गुरुता चनस्य”
“सल्पं यदा दोषविवृद्धमामं लीनं न तेजः पथ-ग्रावृणोति। भवत्यजीर्णेऽपि तदा पुमुक्षा षा मन्दबुद्धिंविषवन्निहन्ति”। छवादि॰ शीलार्थे अण्। बौभुक्षतच्छीले त्रि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुभुक्षा¦ f. (-क्षा)
1. Hunger.
2. The desire of enjoyment. E. भुज् to eat, in the desid. form, affs. अङ् and टाप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुभुक्षा [bubhukṣā], 1 Desire of eating, hunger.

The desire of enjoying anything.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुभुक्षा f. (fr. Desid. of 3. भुज्)desire of enjoying anything MBh.

बुभुक्षा f. wish to eat , appetise , hunger R. Var. etc.

"https://sa.wiktionary.org/w/index.php?title=बुभुक्षा&oldid=503139" इत्यस्माद् प्रतिप्राप्तम्