भित्तिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भित्तिः, स्त्री, (भिद्यते इति । भिद् + क्तिन् ।) गृहादेर्मृदिष्टकादिमयी वृतिः । का~थ इति भित् इति च ख्याता । तत्पर्य्यायः । कूड्यम् २ । इत्य- मरः । २ । २ । ४ ॥ भित्तिका ३ कुड्यम् ४ कुड्यकम् ५ । इति शब्दरत्नावली ॥ (यथा, विश्वकर्म्मप्रकाशे । पञ्चमाध्याये । “मानेनानेन विस्तारो भित्तीनान्तु विधीयते । पादे पञ्चगुणं कृत्वा भित्तीनामुच्छ्रयो भवेत् ॥”) प्रभेदः । सम्बिभागः । अवकाशः । इति विश्वः । प्रदेशः । इति शब्दरत्नावली ॥ (यथा, रघौ । ५ । ४३ । “अथोपरिष्टाद् भ्रमरैर्भ्रमद्भिः प्राक् सूचितान्तःसलिलप्रवेशः । निर्धौतदानामलगण्डभित्तिः र्वन्यः सरित्तो गज उन्ममज्ज ॥”)

"https://sa.wiktionary.org/w/index.php?title=भित्तिः&oldid=154389" इत्यस्माद् प्रतिप्राप्तम्