भूगोलः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूगोलः, पुं, (भूर्गोलो मण्डलमिव ।) भुवनकोषः । (यदुक्तं सूर्य्यसिद्धान्ते । “मध्ये समन्तादण्डस्य भूगोलो व्योम्नि तिष्ठति । बिभ्राणः परमां शक्तिं ब्रह्मणो धारणा- त्मिकाम् ॥”) तस्य विवरणम् । यथा, -- “प्रकृतेस्तु महान् जातोऽहङ्कारो महतः पुनः । तन्मात्राणि ह्यहङ्कारात् शब्दः स्पर्शोऽथ रूपकम् ॥ रसो गन्धश्च पञ्चैव गुणा नाम प्रकीर्त्तिताः । ब्रह्माण्डमेतन्मितमस्तु नो वा कल्पे ग्रहः क्रामति योजनानि । यावन्ति पूर्ब्बैरिह तत्प्रमाणं प्रोक्तं खकक्षाख्यमिदं मतं नः ॥” इति सिद्धान्तशिरोमणौ गोलाध्याये भुवनकोषः समाप्तः ॥

"https://sa.wiktionary.org/w/index.php?title=भूगोलः&oldid=503255" इत्यस्माद् प्रतिप्राप्तम्