रूप्यम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूप्यम्, क्ली, (आहतं रूपं अस्यास्तीति । रूप् + “रूपादाहतप्रशंसयोर्यप् ।” ५ । २ । १२० । इति यप् ।) आहतस्वर्णरजतम् । इत्यमरः । २ । ९ । ९१ ॥ हेम रूप्यञ्च आहतं अश्ववराहपुरुषादि- रूपमुत्थापयितुं निर्घातिकया ताडितं रूप्य- मुच्यते रूपाय आहतं रूप्यं ढघे कादिति ष्ण्यः । इति भरतः ॥ * ॥ धातुविशेषः । रूपा इति भाषा ॥ (यथा, महाभारते । ५ । ३९ । ७९ । “सुवर्णस्य मलं रूप्यं रूप्यस्यापि मलं त्रपु । ज्ञेयं त्रपु मलं सीसं सीसस्यापि मलं मलम् ॥”) तत्पर्य्यायः । शुभ्रम् २ वसुश्रेष्ठम् ३ रुधिरम् ४ चन्द्रलोहकम् ५ श्वेतकम् ६ महाशुभ्रम् ७ रजतम् ८ तप्तरूपकम् ९ चन्द्रभूति १० सितम् ११ तारम् १२ कलधूतम् १३ इन्द्रलोहकम् १४ रौप्यम् १५ धौतम् १६ सौधम् १७ चन्द्र- हासम् १८ । इति राजनिर्घण्टः ॥ खर्ज्जूरम् १९ दुर्व्वर्णम् २० श्वेतम् २१ रङ्गबीजम् २२ राज- रङ्गम् २३ लोहराजकम् २४ । इति शब्दरत्ना- वली ॥ कलधौतम् २५ । इति जटाधरः ॥ अस्य गुणाः । स्निग्धत्वम् । कषायत्वम् । अम्लत्वम् । विपाके मधुरत्वम् । सरत्वम् । वातपित्तहरत्वम् । रुच्यत्वम् । वलीपलितनाशित्वञ्च । इति राज- निर्घण्टः ॥ * ॥ अथ रूप्यस्योत्पत्तिनामलक्षण- गुणाः । “त्रिपुरस्य वधार्थाय निर्निमेषैर्व्विलोकनैः । निरीक्षयामास शिवः क्रोधेन परिपूरितः ॥ ततस्तूल्का समपतत्तस्यैकस्माद्विलोकनात् ।

रूप्यम्, त्रि, (प्रशस्तं रूपं अस्यास्तीति । रूप + “रूपादाहतप्रशंसयोर्यप् ।” ५ । २ । १२० । इति यप् ।) सुन्दरम् । इति मेदिनी । ये, ५० ॥ (क्ली, उपमेयम् । यथा, साहित्यदर्पणे १० परि- च्छेदे समासोक्त्यलङ्कारे । “तत्र हि तिमिरांशुकयोर्रूप्यरूपकभावो द्बयो- रावरकत्वेन स्फुटमिति ॥” * ॥ पुं, प्रत्ययविशेषः । स च तत आगत इत्येतस्मिन्विषये “हेतुमनुष्ये- भ्योऽन्यतरस्यां रूप्यः ।” ४ । ३ । ८१ । इति सूत्रेण हेतुभ्यो मनुष्येभ्यश्चान्यतरस्यां भवति ॥ यथा समादागतं समरूप्यम् । देवदत्तरूप्यम् ॥)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--fit for श्राद्ध. M. २२. ८६.

"https://sa.wiktionary.org/w/index.php?title=रूप्यम्&oldid=503903" इत्यस्माद् प्रतिप्राप्तम्