वाजिन्

विकिशब्दकोशः तः
वाजिन्

संस्कृतम्[सम्पाद्यताम्]

  • वाजिन्, अश्र्वः, घोटकः, तिरगः, तुरङ्गः, पालकः, वाहः, रत्थ्यः, हयः, तुरंगमः, हरिः, सु्पर्णः, अक्रः, अमृतबन्धुः, अमृतसहोदरः, अरावन्, अर्वत्, अर्हसानः, अविष्ठुः, किङ्किरः, किन्विन्, किन्धिन्, कीकटः, कीकटकः, कुण्डिन्, कुरुटिन्, केशरिन्, क्रमणः, क्रान्तः, ॠतुपशुः, खरुः, ग्रहभोजनः, गुहः, चामरिन्, घोटः, टारः, तुरंगः, दुर्मुखः, धाराटः, धुर्यः, निगालवत्, पिञ्जरः, पीथिः, प्रकीर्णः, बाहः, ब्रह्माग्रभूः, प्रचेलः, प्रमथः, प्रयागः, मरुद्रथः, माषाशः, मयः, राजस्कन्धः, राजवाहः, रामः, रसिकः, यज्ञपशुः, ययुः, युद्धसारः, लक्ष्मीपुत्रः, वाहनश्रेष्ठः, वारुः,वीक्ष्यः, वोरुखानः, वृषलः, व्यतिः, श्रीभ्रातृः, श्रीपुत्रः।

नामः[सम्पाद्यताम्]

  • वाजिन् नाम अश्र्वः, तुरंगमः।
  • वाजिन् नाम शरः । - वाजिनः शत्रुसैन्यस्य समारब्धनवाजिनः - माघ १२-६२।
  • वाजिन् नाम पक्षिः । वाजिबाणाश्वपक्षिषु - मेदिनी ।

पर्यायपदानि[सम्पाद्यताम्]

  1. अर्वा
  2. अश्वः
  3. गन्धर्वम्
  4. घोटकः
  5. तुरम्गमः
  6. पीती
  7. सैन्धवम्
  8. हयम्

अनुवादाः[सम्पाद्यताम्]

pu:കുതിര pra:കുതിര

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाजी [न्] पुं, (वाजी वेगोऽस्त्यस्येति । वाज + इनिः ।) घोटकः । (यथा, रघुः । ३ । ४३ । “शतैस्तमक्ष्णामनिमेषवृत्तिभि- र्हरिं विदित्वा हरिभिश्च वाजिभिः ॥” वाजः पक्षोऽस्त्यस्येति ।) बाणः । पक्षी । इत्य- मरः ॥ वासकः । इति शब्दरत्नावली ॥ (वजति गच्छतीति । वज् + णिनिः । त्रि, चलनवान् यथा, वाजसनेयसंहितायाम् । २९ । १ । “वाजी वहन्वाजिनं जातवेदो देवानां वक्षि- प्रियमासधस्थम् ॥” “वजति वाजी । वजगतौ चलनवान् ।” इति तद्भाष्ये महीधरः ॥ * ॥ वाजमन्नमस्यास्तीति अन्नवान् । यथा, ऋग्वेदे । ३ । २ । १४ । “तमीमहे नमसा वाजिनं बृहत् ॥” “वाजिनं अन्नवन्तम् ।” इति तद्धाष्ये सायणः ॥ वाजः पक्षोऽस्त्यस्येति । पक्षविशिष्टः । यथा, भागवते । ४ । ७ । १६ । “मुष्णंस्तेज उपानीतस्तार्क्ष्येण स्तोत्र- बाजिना ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाजिन् पुं।

पक्षी

समानार्थक:खग,विहङ्ग,विहग,विहङ्गम,विहायस्,शकुन्ति,पक्षिन्,शकुनि,शकुन्त,शकुन,द्विज,पतत्रिन्,पत्रिन्,पतग,पतत्,पत्ररथ,अण्डज,नगौकस्,वाजिन्,विकिर,वि,विष्किर,पतत्रि,नीडोद्भव,गरुत्मत्,पित्सन्त्,नभसङ्गम,पतङ्ग,वयस्

2।5।33।2।2

पतत्रिपत्रिपतगपतत्पत्ररथाण्डजाः। नगौकोवाजिविकिरविविष्किरपतत्रयः॥

अवयव : पक्षिपक्षः,पक्षमूलम्,अण्डम्

वैशिष्ट्यवत् : पक्षिशब्दः,पक्षिगतिविशेषः

वृत्तिवान् : पक्षीणां_हन्ता

 : गरुडः, कपोतः, श्येनः, उलूकः, भरद्वाजपक्षी, खञ्जनः, कङ्कः, चाषः, भृङ्गः, काष्ठकुट्टः, चातकपक्षी, कुक्कुटः, चटकः, अशुभवादिपक्षिविशेषः, अशुभपक्षिभेदः, कोकिलः, काकः, कालकण्ठकः, चिल्लः, गृध्रः, शुकः, क्रौञ्चः, बकः, सारसः, चक्रवाकः, कलहंसः, कुररः, हंसः, आडिः, जतुका, तैलपायिका, मयूरः, पक्षिजातिविशेषः, भासः, मत्स्यात्खगः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाजिन् पुं।

अश्वः

समानार्थक:घोटक,वीति,तुरग,तुरङ्ग,अश्व,तुरङ्गम,वाजिन्,वाह,अर्वन्,गन्धर्व,हय,सैन्धव,सप्ति,तार्क्ष्य,हरि

2।8।44।1।1

वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः। आजानेयाः कुलीनाः स्युर्विनीताः साधुवाहिनः॥

अवयव : अश्वमध्यम्,अश्वगलसमीपभागः,अश्वनासिका,मृगपादः,मृगपुच्छः,केशवल्लाङ्गूलम्,अश्वखुरम्

पत्नी : अश्वा

सम्बन्धि2 : अश्वेन_दिनैकाक्रमणदेशः,अश्वशब्दः,खलीनः,अश्वारोहः

वैशिष्ट्यवत् : अश्वशब्दः,अश्वगतिविशेषः

जन्य : अश्वबालः

 : विष्णोः_अश्वः, इन्द्राश्वः, कुलीनाश्वः, सम्यग्गतिमान्_वाजिः, वनायुदेशवाजिः, पारसीदेशवाजिः, काम्बोजदेशवाजिः, बाल्हिकदेशवाजिः, अश्वमेधीयवाजिः, अधिकवेगवाजिः, भारवाह्यश्वः, शुक्लाश्वः, रथवाहकाश्वः, अश्वबालः, श्रान्त्या_भूमौ_लुठिताश्वः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाजिन् पुं।

बाणः

समानार्थक:पृषत्क,बाण,विशिख,अजिह्मग,खग,आशुग,कलम्ब,मार्गण,शर,पत्रिन्,रोप,इषु,सायक,शिलीमुख,गो,काण्ड,वाजिन्,किंशारु,प्रदर,स्वरु,पीलु

3।3।107।2।1

प्रतियत्नावुभौ लिप्सोपग्रहावथ सादिनौ। द्वौ सारथिहयारोहौ वाजिनोऽश्वेषु पक्षिणः॥

अवयव : शरपक्षः,शराधारः

वृत्तिवान् : बाणधारिः

वैशिष्ट्य : बाणधारिः

 : कामबाणः, सर्वलोहमयशरः, प्रक्षिप्तबाणः, विषसम्बद्धबाणः

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाजिन्¦ पु॰ वाजः वेमः पक्षो वा अस्त्यस्य इनि।

१ घोटके

२ वाणे

३ वा{??}के च शब्दर॰।

४ वेभवति त्रि॰ स्वियांङीप्। मा म।

५ {??}न्धायथ

६ प्राठक्याम्{??}[Page4873-a+ 38] राजनि॰।

७ देवभेदे पु॰। वाजिनशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाजिन्¦ m. (-जी)
1. A horse.
2. An arrow.
3. A bird.
4. A plant (Justicia adhenatoda.) f. (-जिनी) A mare. E. वाज speed or a feather, &c., and इनि poss. aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाजिन् [vājin], a. [वाज-अस्त्यर्थे इनि]

Swift, quick.

Strong.

Winged; having anything for wings; मुष्णं- स्तेज उपानीतस्तार्क्ष्येण स्तोत्रवाजिना Bhāg.4.7.19. -m.

A horse; न गर्दभा वाजिधुरं वहन्ति Mk.4.17; सत्यमतीत्य हरितो हरींश्च वर्तन्ते वाजिनः Ś.1; R.3.43;4.25,67; Śi.18.31.

An arrow.

A follower of the Vājasaneyin branch of the Yajurveda; एतावदित्याह च वाजिनां श्रुतिः A. Rām.7.5.21.

The sun; ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि T. Up.1.1.

N. of Indra, Bṛihaspati and other gods.

A bird; शूलव्यालसमाकीर्णां प्राणिवाजिनि- षेविताम् Mb.7.14.16.

The number 'seven'.

नी A mare.

N. of Uṣas (dawn).

Food (Ved.).-Comp. -गन्धः Name of a tree, Physalis Flexuosa. (Mar. आसंध); Mātaṇga L.11.31. -दन्तः, -दन्तकः Adhatoda Vasika (Mar. अडूळसा). -पृष्ठः the globeamaranth. -भक्षः a chick-pea. (Mar. चणा, हरभरा). -भूः, -भूमिः a place abounding in horses. -भोजनः a kind of kidney-bean (Mar. मूग). -मेघः a horse-sacrifice.-योजकः a driver, groom. -राजः N. of Viṣṇu. -विष्ठा the Indian fig-tree (Mar. वड). -शाला a stable.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाजिन् mfn. swift , spirited , impetuous , heroic , warlike RV. etc. etc. (with रथm. a war-chariot ; superl. वाजिन्-तम)

वाजिन् mfn. strong , manly , procreative , potent RV. TS. Br.

वाजिन् mfn. winged , ( ifc. )having any thing for wings BhP.

वाजिन् mfn. feathered (as an arrow) Hariv.

वाजिन् m. a warrior , hero , man RV. (often applied to gods , esp. to अग्नि, इन्द्र, the मरुत्s etc. )

वाजिन् m. the steed of a war-chariot ib.

वाजिन् m. a horse , stallion Mn. MBh. etc.

वाजिन् m. N. of the number " seven " Gol. (See. अश्व)

वाजिन् m. a bridle L.

वाजिन् m. a bird L.

वाजिन् m. an arrow L.

वाजिन् m. Adhatoda Vasika L.

वाजिन् m. pl. " the Coursers " , a class of divine beings (prob. the steeds of the gods , but accord. to TBr. अग्नि, वायुand सूर्य) RV. Br. S3rS. ( वाजिनां सामN. of a सामन्A1rshBr. )

वाजिन् m. the school of वाजसनेय(so called because the Sun in the shape of a horse revealed to याज्ञवल्क्यpartic. यजुस्verses called अ-यातयामानिSee. ) VP.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vājin in several passages of the Rigveda[१] denotes ‘steed’ with reference to its swiftness and strength. In one passage[२] it is perhaps, as Ludwig[३] thinks, a proper name, that of a son of Bṛhaduktha, but this view seems forced.

  1. ii. 5, 1;
    10, 1;
    34, 7;
    iii. 53, 23;
    vi. 75, 6;
    x. 103, 10, etc.
  2. x. 56, 2.
  3. Translation of the Rigveda, 3, 133.
"https://sa.wiktionary.org/w/index.php?title=वाजिन्&oldid=506955" इत्यस्माद् प्रतिप्राप्तम्