शीघ्रम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीघ्रम्, क्ली, (शिङ्घति व्याप्नोतीति । शिघ व्याप्तौ + रक्प्रत्ययेन साधु ।) विलम्बाभावः । तत्- पर्य्यायः । त्वरितम् २ लघु ३ क्षिप्रम् ४ अरम् ५ द्रुतम् ६ सत्वरम् ७ चपलम् ८ तूर्णम् ९ अवि- लम्बितम् १० आशु ११ । अव्ययाः शीघ्र- वाचकाः यथा । स्राक् १२ झटिति १३ अञ्जसा १४ अह्राय १५ सपदि १६ द्राक् १७ मंक्षु १८ । इत्यमरः ॥ तद्वैदिकपर्य्यायः । नु १ मक्षु २ द्रवत् ३ ओषम् ४ जीराः ५ जूर्णिः ६ शूर्त्ताः ७ शूघ- नाशः ८ शीभम् ९ तृषु १० तूयम् ११ तूर्णिः १२ अजिरम् १३ भुरण्युः १४ शु १५ आशुः १६ प्राशः १७ तूतुजिः १८ तूतुजानः १९ तुज्यमानासः २० अज्वाः २१ साचिवित् २२ द्युगत् २३ ताजत् २४ तरणिः २५ वात- रम्हा २६ । इति षड्विंशतिः क्षिप्रनामानि इति वेदनिघण्टौ । २ । १५ ॥ लामज्जकम् । इति राजनिर्घण्टः ॥ (पुं, कुशवशौयाग्निवर्णस्य पुत्त्रः । यथा, भागवते । ९ । १२ । ५ । “सुदर्शनोऽथाग्निवर्णः शीघ्रस्तस्य मरुः सुतः ॥”) शीघ्रविशिष्टे, त्रि । इत्यमरः ॥ (यथा, महा- भारते । ३ । ६७ । ६ । “स त्वमातिष्ठ योगं तं येन शीघ्रा हया मम । भवेयुरश्वाध्यक्षोऽसि वेतनं ते शतं शताः ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीघ्रम् ind. 218197

"https://sa.wiktionary.org/w/index.php?title=शीघ्रम्&oldid=504945" इत्यस्माद् प्रतिप्राप्तम्