शुक्रवारः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुक्रवारः, पुं, (शुक्रस्य वारः ।) शुक्रग्रहभोग्य- दिनम् । यथा । तीर्थेतरत्र प्रतिप्रसवमाह । स्मृतिः । “अयने विषुवे चैव संक्रान्त्यां ग्रहणेषु च । उपाकर्म्मणि चोत्सर्गे युगादौ मृतवासरे । सूर्य्यशुक्रादिवारेऽपि न दोषस्तिलतर्पणे ॥” इति प्रायश्चित्ततत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=शुक्रवारः&oldid=504966" इत्यस्माद् प्रतिप्राप्तम्