श्रवणम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रवणम्, क्ली, (श्रूयतेऽनेनेति । श्रु + करणे ल्युट् ।) कर्णः । इत्यमरः ॥ न स्त्रियां श्रवणः कर्णः । इति हेममाली । इति तट्टीकायां भरतः ॥ षण्मासाभ्यन्तरे श्रवणयोश्छिद्रं भवति । इति सुखबोधः ॥ श्रुतिः । सा तु कर्णेन्द्रियज्ञानम् । इति मेदिनी ॥ शोना इति भाषा ॥ (यथा, मनुः । ८ । ७४ । “समक्षद्रर्शनात् साक्ष्यं श्रवणाच्चैव सिध्यति ॥” तत्तु नीतिशास्त्रोक्तधीगुणानामन्यतमम् । यथा, कामन्दकीये । ४ । २२ । “शुश्रूषा श्रवणञ्चैव ग्रहणं धारणं तथा । ऊद्वोऽपोहोऽर्थविज्ञानं तत्त्वज्ञानञ्च धीगुणाः ॥”) षड्विधलिङ्गैरशेषवेदान्तानामद्वितीये वस्तुनि तात्पर्य्यावधारणम् । लिङ्गानि तु उपक्रमोप- संहाराभ्यासापूर्व्वता फलार्थवादोपपत्त्या- ख्यानि । इति वेदान्तसारः ॥

"https://sa.wiktionary.org/w/index.php?title=श्रवणम्&oldid=507391" इत्यस्माद् प्रतिप्राप्तम्