संस्कृत सुभाषितानि - ०१

विकिपीडिया, एक मुक्त ज्ञानकोष से

यहां जाईयें: नेविगेशन, ख़ोज

अधिगत्य गुरोर्ज्ञानं छात्रेभ्यो वितरन्ति ये |
विद्यावात्सल्यनिधयः शिक्षका मम दैवतम् ||१||

अश्वस्य भूषणं वेगो मत्तं स्याद् गजभूषणम् |
चातुर्यम् भूषणं नार्या उद्योगो नरभूषणम् ||२||

अलसस्य कुतो विद्या अविद्यस्य कुतो धनम् |
अधनस्य कुतो मित्रं अमित्रस्य कुतः सुखम् ||३||

अष्टादशपुराणेषु व्यासस्य वचनद्वयम् |
परोपकारः पुण्याय पापाय परपीडनम् ||४||

अहं नमामि वरदां ज्ञानदां त्वां सरस्वतीम् |
प्रयच्छ विमलां बुद्धिं प्रसन्ना भव सर्वदा ||५||

अब्धेः क्षारं जलं पीत्वा वर्षन्ति मधुरं भुविम् |
परोपकारे निरताः कथं मेघा न सज्जनाः ||६||

अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम् |
सदा लोकहिते युक्ता रत्नदीपा इवोत्तमाः ||७||

अष्टादशपुराणानां सारं व्यासेन कीर्तितम् |
परोपकारः पुण्याय पापाय परपीडनम् ||८||

अधमा धनमिच्छन्ति धनं मानं च मध्यमाः |
उत्तमा मानमिच्छन्ति मानो हि महताम् धनम् ||९||

अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते |
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ||१०||

अश्वं नैव गजं नैव व्याघ्रं नैव च नैव च |
अजापुत्रं बलिं दद्यात् देवो दुर्बलघातकः ||११||

अग़ाधजलसञ्चारी गर्वम् नायाति रोहितः |
अङ्गुष्टोदकमात्रेण शफरी फप्र्हरायते ||१२||

अन्नदानं परं दानं विद्यादानमतः परम् |
अन्नेन क्षणिका त्रुप्तिर्यावज्जीवं च विद्यया ||१३||

अल्पकार्यकराः सन्ति ये नरा बहुभाषिणः |
शरत्कालिनमेघास्ते नूनं गर्जन्ति केवलम् ||१४||

अन्नं वस्त्रं निवासश्च ज्ञानमारोग्यमेव च |
विज्ञानं राष्ट्रनिष्ठा च सन्मार्गश्चाष्टमो मतः ||१५||

अतिलोभात्कुबेरोऽपि दरिद्रो निश्चितं भवेत् |
मितव्ययात् दरिद्रोऽपि निश्चितं धनवान् भवेत् ||१६||

अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च |
वश्यश्च पुत्रोऽर्थकारी च विद्या षड् जीवलोकस्य सुखानि राजन् ||१७||

अतितृष्णा न कर्तव्या तृष्णां नैव परित्यजेत् |
शनैः शनैश्च भोक्तव्यं स्वयं वित्तमुपार्जितम् ||१८||

अकृत्यं मन्यते कृत्यमगम्यं मन्यते सुगम् |
अभक्ष्यम् मन्यते भक्ष्यम् स्त्रीवाक्यप्रेरितो नरः ||१९||

अविश्रामं वहेद्भारं शीतोष्णं न च विन्दति |
ससन्तोषस्तथा नित्यं त्रीणि शिक्षेत गर्दभात् ||२०||

अतिपरिचयादवज्ञा सन्ततगमनादनादरो भवति |
मलये भिल्लपुरन्ध्री चन्दनतरुकाष्ठमिन्धनं कुरुते ||२१||

अजरामरवत् प्राज्ञो विद्यामर्थञ्च साधयेत् |
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ||२२||

अयं निजः परो वेऽति गणना लघुचेतसाम् || उदारचरितानां तु वसुधैव कुटुम्बकम् ||२३||

अतितीक्ष्णेन खड्गेन वरं जिंव्हा द्विधा कृता |
न तु मानं परित्यज्य यच्छ यच्छेति भाषितम् ||२४||

अहो दुर्जनसंसर्गात् मानहानिः पदे पदे |
पावको लोहसङ्गेन मुद्गरैरभिताड्यते ||२५||

अहो किमपि चित्राणि चरित्राणि महात्मनाम् |
लक्ष्मीस्तृणाय मन्यन्ते तद्भरेण नमन्त्यपि ||२६||

अकृत्वा परसन्तापं अगत्वा खलमन्दिरम् |
साधोर्मार्गमनुत्सृज्य यत्स्वल्पमपि तद् बहु ||२७||

अशनं मे वसनं मे जाया मे बन्धुवर्गो मे |
इति मे मे कुर्वाणं कालवृको हन्ति पुरुषाजम् ||२८||

अहञ्च त्वञ्च राजेन्द्र लोकनाथावुभावपि |
बहुव्रीहिरहं राजन् षष्ठी तत्पुरुषो भवान् ||२९||

अव्याकरणमधीतं भिन्नद्रोण्यतरङ्गिणीतरणम् |
भेशजमपथ्यसहितं त्रयमिदं कृतं न कृतम् ||३०||



अहं स्वर्णं न मे दुःखमग्निदाहे न ताडने |
एतत्तु मे महादुःखं गुञ्जया तोलयन्ति माम् ||३१||

अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया |
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ||३२||

अभीप्सितार्थसिध्यर्थं पूजितो यः सुरासुरैः |
सर्वविघ्नहरस्तस्मै श्रीगणाधिपतये नमः ||३३||

अनाचारेण मालिन्यम् अत्याचारेण मूर्खता |
विचाराचारयोर्योगः स सदाचार उच्यते ||३४||

अर्थनाशं मनस्तापं गृहे दुश्चरितानि च |
वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ||३५||

अर्थेन तु विहीनस्य पुरुषस्याल्पमेधसः |
क्रियाः सर्वा विनश्यन्ति ग्रीष्मे कुसरितो यथा ||३६||

अग्रतः संस्कृतं मेऽस्तु पुरतो मेऽस्तु संस्कृतम् || संस्कृतं हृदये मेऽस्तु विश्वमध्येऽस्तु संस्कृतम् ||३७||

असितगिरिसमं स्यात् कज्जलं सिन्धु पात्रम् सुरतरुवरशाखा लेखनी पत्रमुर्वी |
लिखति यदि गृहीत्वा शारदा सर्वकालम् तदपि तव गुणानामीश पारं न याति ||३८||

अपारे काव्यसंसारे कविरेकः प्रजापतिः |
यथास्यै रोचते विश्वं तथा वै परिवर्तते ||३९||

अधनाद्हि निवर्तन्ते ज्ञातयः सुहृदो जनाः |
अपुष्पादफलाद्वृक्षात् यथा सर्वे पतत्रिणः ||४०||

अस्माकं बदरीचक्रं युष्माकं बदरीतरुः |
बादरायणसम्बन्धात् यूयं यूयं वयं वयम् ||४१||


अहम्पूरुषो भारतीयोऽस्मि नूनं

न धैर्यङ्कदाचित्त्यजेयं विपत्सु |

स्वकर्तव्यनिष्ठां न वा विस्मरेयं

यतिष्ये स्वराष्त्रस्य कल्याणहेतोः ||४२||


अहम्भारती स्त्री स्वयं शक्तिरूपा

मयि श्रीश्च दुर्गा तथा शारदा च |

त्यजेयं कदाचिन्न शीलाभिमानम्

विरोद्धुं तु सिद्धाहमन्याय्यरूहीः ||४३||


अञ्जलिस्थानि पुष्पाणि वासयन्ति करद्वय.म् |
अहो सुमनसां प्रीतिर्वामदक्षिणयोः समा ||४४||

अङ्गारा अञ्जलिस्था हि दाहयन्ति करद्वयम् |
अहो दुर्मनसां वैरं वामदक्षिणयोः समम् ||४५||


अनुदिनमनुतापेनास्म्यहं राम तप्तः

परमकरुणमोहं छिन्धि मायासमेतम् |
इदमतिचपलं मे मानसं दुर्निवारम्

भवति च बहुखेदस्त्वां विना धाव शीघ्रम् ||४६||


अतिकुपिताऽपि सुजना योगेन मृदूभवन्ति न तु नीचाः |
हेम्नः कठिनस्यापि द्रवणोपायोऽस्ति न तृणानाम् ||४७||


अस्यां सखे बधिरलोकनिवासभूमौ

किं कूजितेन किल कोकिल कोमलेन |
एते हि दैवहतकास्तदभिन्नवर्णम्

त्वां काकमेव कलयन्ति कलानभिज्ञाः ||४८||


अत्तुं वाञ्चति वाहनं गणपतेराखुं क्षुधार्तः फणी

तं च क्रौंचपतेः शिखी च गिरिजासिंहोऽपि नागाननम् |
गौरी जह्नुसुतामसूयति कलानाथं कपालानलः

निर्विण्णः स पपौ कुटुम्बकलहादीशोऽपि हालाहलम् ||४९||


अभिवादनशीलस्य नित्यं वृद्धोपसेविनः |
चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम् ||५०||

अम्बा यस्य उमादेवी जनको यस्य शङ्करः |
विद्या ददाति सर्वेभ्यः स नः पातु गजाननः ||५१||

अस्थिरं जीवितं लोके अस्थिरे धनयौवने |
अस्थिराः पुत्रदाराश्च धर्मः कीर्तिद्र्वयं स्थिरं ||५२||


आकाशात् पतितं तोयं यथा गच्छति सागरम् |
सर्वदेवनमस्कारः केशवं प्रतिगच्छति ||१||

आत्मार्थम् जीवलोके च को न जीवति मानवः |
परं परोपकाराय यो जीवति स जीवति ||२||

आचारः परमो धर्मः आचारः परमं तपः |
आचारः परमं ज्ञानमाचारात् किं न साध्यते ||३||

आयुषः क्षण एकोऽपि सर्वरत्नैर्न लभ्यते |
नीयते स वृथा येन प्रमादः सुमहानहो ||४||

आस्ते भग आसीनस्य ऊध्र्वस्तिष्ठति तिष्ठतः |
शेते निपद्यमानस्य चराति चरतो भगः ||५||


आपद्गतं हससि किं द्रविणान्ध मूढ

लक्ष्मीस्थिरा न भवतीति किमत्र चित्रम् |
एतान् प्रपश्यसि घटां जलयन्त्रचक्रे

रिक्ता भवन्ति भरिता भरिताश्च रिक्ताः ||६||

आशा नाम महुष्याणां काचिदाश्चर्यशृङ्खला |
यया बद्धा प्रधावन्ति मुक्तास्तिष्ठन्ति पङ्गुवत् ||७||

आत्मनः परितोषाय कवेः काव्यं तथापि तत् |
स्वामिनो देहलीदीपसममन्योपकारकम् ||८||

आत्मनः मुखदोषेण बध्यन्ते शुकसारिकाः |
बकास्तत्र न बध्यन्ते मौनं सर्वाथसाधनम् ||९||

आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः |
क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् ||१०||

आपदि मित्रपरीक्षा शूरपरीक्षा रणाङ्गणे भवति |
विनये वंशपरीक्षा शीलपरीक्षा धनक्षये भवति ||११||

आत्मपक्षं परित्यज्य परपक्षेषु यो रतः |
स परैर्हन्यते मूढः नीलवर्णशृगालवत् ||१२||

आशुशब्दस्य अन्तेन कलायाः प्रथमेन च |
विहगो यो भवेत्तस्य वर्णम् शीघ्रं निवेदय ||१३||

आततायिनमायान्तमपि वेदान्तपारगम् |
जिघांसन्तं जिघांसीयात् न तेन ब्रह्महा भवेत् ||१४||


आदौ रामतपोवनाभिगमनं हत्वा मृगं काञ्चनम्

वैदेहीहरणं जटायुमरणं सुग्रीवसम्भाषणम् |
वालीनिर्दलनं समुद्रतरणं लङ्कापुरीदाहनम्

पश्चाद्रावण कुम्भकर्णहननं एतद्हि रामायणम् ||१५||


आदौ देवकिदेवगर्भजननं गोपीगृहे वर्धनम्

मायापुतनजीवितापहरणं गोवर्धनोद्धारणम् |
कंसच्छेदनकौरवादिहननं कुन्तीतनूजावनम्

एतद्भागवतं पुराणकथितं श्रीकृष्णलीलामृतम् ||१६||


आदौ श्रीभरताख्यभूपतिकुले भक्तोत्तमाः पाण्डवाः

तेषामन्धसुताः शतः कपटिका दुर्भ्रातरः कौरवाः |
बन्धुद्वेशकरं हि कौरवकुलं भेजे रणे दुर्गतिम् |
गीता तारयति स्म कृष्णभजकान्नेतन्महाभारतम् ||१७||


इच्छेयेत् विपुलां मैत्रीं त्रीणि तत्र न कारयेत् |
वाग्वादमर्थसम्बन्धं तस्याः स्त्रीपरिभाषणम् ||१||

ईक्षणं द्विगुणं प्रोक्तं भाषणस्येति वेधसा |
अक्षिणि द्वे मनुष्याणां जिंव्हा त्वेकैव निर्मिता ||२||

उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः |
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ||३||

उत्तमो नातिवक्ता स्यात् अधमो बहु भाषते |
न काञ्चने ध्वनिस्तादृक् यादृक् कांस्ये प्रजायते ||४||

उपकारोऽपि नीचानां अपकारो हि जायते |
पयःपानं भुजङ्गानां केवलं विषवर्धनम् ||५||

उत्साहो बलवानार्य नास्त्युत्साहात् परं बलम् |
सोत्साहस्य च लोकेषु न किञ्चिदपि दुर्लभम् ||६||

उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये |
पयःपानं भुजङ्गानां केवलं विषवर्धनम् ||७||

उत्तमा आत्मनः ख्याताः पितुः ख्याताश्च मध्यमाः |
अधमा मातुलात् ख्याताः श्वशुराच्चाधमाधमाः ||८||

उदारस्य तृणं वित्तं शूरस्य मरणं तृणम् |
विरक्तस्य तृणं भार्या निःस्पृहस्य तृणं जगत् ||९||

एक एव तपः कुर्यात् द्वौ स्वाध्यायपरौ हितौ |
त्रयोऽधिका वा क्रीडायां प्रवासेऽपि च ते मताः ||१०||


एकः स्वादु न भुञ्जीत नैकः सप्तेषु जागृयात् |
एको न गच्छेदध्वानं नैकश्चार्थान् विचिन्तयेत् ||११||

एकचक्रो रथो यन्ता विकलो विषमा हयाः |
आक्रामत्येव तेजस्वी तथाप्यर्को नभस्तलम् ||१२||

एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना |
वासितं तद्वनं सर्वम् सुपुत्रेण कुलं यथा ||१३||

एको हि दोशो गुणसन्निपाते निमज्जतीन्दोरिति यो बभाषे |
नूनं न दृष्टं कविनापि तेन दारिद्र्यदोशो गुणराशिनाशी ||१४||


एते सत्पुरुषा परार्थघटकाः स्वार्थान् परित्यज्य ये

सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये |
तेऽमी मानवराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये

ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे ||१५||

एको ना विंशतिः स्त्रीणां स्नानार्थम् शरयूं गताः |
विंशतिः पुनरायाता एको व्याघ्रेण भक्षितः ||१६||

ऐक्यं बलं समाजस्य तदभावे स दुर्बलः |
तस्मादैक्यं प्रशंसन्ति दृढं राष्ट्रहितैषिणः ||१७||

ॐकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा |
कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ ||१८||

ऋग्वेदोऽथ यजुर्वेदो सामवेदो ह्यथर्वणः |
चत्वारः सन्ति ते वेदाः मान्याः सर्वत्र पूजिताः ||१९||

ऋणशेषोऽग्निशेषश्च शत्रुशेषस्तथैव च |
पुनः पुनः प्रवर्धन्ते तस्माच्छेषं न रक्षयेत् ||२०||


इच्छेयेत् विपुलां मैत्रीं त्रीणि तत्र न कारयेत् |
वाग्वादमर्थसम्बन्धं तस्याः स्त्रीपरिभाषणम् ||१||

ईक्षणं द्विगुणं प्रोक्तं भाषणस्येति वेधसा |
अक्षिणि द्वे मनुष्याणां जिंव्हा त्वेकैव निर्मिता ||२||

उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः |
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ||३||

उत्तमो नातिवक्ता स्यात् अधमो बहु भाषते |
न काञ्चने ध्वनिस्तादृक् यादृक् कांस्ये प्रजायते ||४||

उपकारोऽपि नीचानां अपकारो हि जायते |
पयःपानं भुजङ्गानां केवलं विषवर्धनम् ||५||

उत्साहो बलवानार्य नास्त्युत्साहात् परं बलम् |
सोत्साहस्य च लोकेषु न किञ्चिदपि दुर्लभम् ||६||

उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये |
पयःपानं भुजङ्गानां केवलं विषवर्धनम् ||७||

उत्तमा आत्मनः ख्याताः पितुः ख्याताश्च मध्यमाः |
अधमा मातुलात् ख्याताः श्वशुराच्चाधमाधमाः ||८||

उदारस्य तृणं वित्तं शूरस्य मरणं तृणम् |
विरक्तस्य तृणं भार्या निःस्पृहस्य तृणं जगत् ||९||

एक एव तपः कुर्यात् द्वौ स्वाध्यायपरौ हितौ |
त्रयोऽधिका वा क्रीडायां प्रवासेऽपि च ते मताः ||१०||


एकः स्वादु न भुञ्जीत नैकः सप्तेषु जागृयात् |
एको न गच्छेदध्वानं नैकश्चार्थान् विचिन्तयेत् ||११||

एकचक्रो रथो यन्ता विकलो विषमा हयाः |
आक्रामत्येव तेजस्वी तथाप्यर्को नभस्तलम् ||१२||

एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना |
वासितं तद्वनं सर्वम् सुपुत्रेण कुलं यथा ||१३||

एको हि दोशो गुणसन्निपाते निमज्जतीन्दोरिति यो बभाषे |
नूनं न दृष्टं कविनापि तेन दारिद्र्यदोशो गुणराशिनाशी ||१४||


एते सत्पुरुषा परार्थघटकाः स्वार्थान् परित्यज्य ये

सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये |
तेऽमी मानवराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये

ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे ||१५||

एको ना विंशतिः स्त्रीणां स्नानार्थम् शरयूं गताः |
विंशतिः पुनरायाता एको व्याघ्रेण भक्षितः ||१६||

ऐक्यं बलं समाजस्य तदभावे स दुर्बलः |
तस्मादैक्यं प्रशंसन्ति दृढं राष्ट्रहितैषिणः ||१७||

ॐकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा |
कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ ||१८||

ऋग्वेदोऽथ यजुर्वेदो सामवेदो ह्यथर्वणः |
चत्वारः सन्ति ते वेदाः मान्याः सर्वत्र पूजिताः ||१९||

ऋणशेषोऽग्निशेषश्च शत्रुशेषस्तथैव च |
पुनः पुनः प्रवर्धन्ते तस्माच्छेषं न रक्षयेत् ||२०||


इच्छेयेत् विपुलां मैत्रीं त्रीणि तत्र न कारयेत् |
वाग्वादमर्थसम्बन्धं तस्याः स्त्रीपरिभाषणम् ||१||

ईक्षणं द्विगुणं प्रोक्तं भाषणस्येति वेधसा |
अक्षिणि द्वे मनुष्याणां जिंव्हा त्वेकैव निर्मिता ||२||

उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः |
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ||३||

उत्तमो नातिवक्ता स्यात् अधमो बहु भाषते |
न काञ्चने ध्वनिस्तादृक् यादृक् कांस्ये प्रजायते ||४||

उपकारोऽपि नीचानां अपकारो हि जायते |
पयःपानं भुजङ्गानां केवलं विषवर्धनम् ||५||

उत्साहो बलवानार्य नास्त्युत्साहात् परं बलम् |
सोत्साहस्य च लोकेषु न किञ्चिदपि दुर्लभम् ||६||

उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये |
पयःपानं भुजङ्गानां केवलं विषवर्धनम् ||७||

उत्तमा आत्मनः ख्याताः पितुः ख्याताश्च मध्यमाः |
अधमा मातुलात् ख्याताः श्वशुराच्चाधमाधमाः ||८||

उदारस्य तृणं वित्तं शूरस्य मरणं तृणम् |
विरक्तस्य तृणं भार्या निःस्पृहस्य तृणं जगत् ||९||

एक एव तपः कुर्यात् द्वौ स्वाध्यायपरौ हितौ |
त्रयोऽधिका वा क्रीडायां प्रवासेऽपि च ते मताः ||१०||


एकः स्वादु न भुञ्जीत नैकः सप्तेषु जागृयात् |
एको न गच्छेदध्वानं नैकश्चार्थान् विचिन्तयेत् ||११||

एकचक्रो रथो यन्ता विकलो विषमा हयाः |
आक्रामत्येव तेजस्वी तथाप्यर्को नभस्तलम् ||१२||

एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना |
वासितं तद्वनं सर्वम् सुपुत्रेण कुलं यथा ||१३||

एको हि दोशो गुणसन्निपाते निमज्जतीन्दोरिति यो बभाषे |
नूनं न दृष्टं कविनापि तेन दारिद्र्यदोशो गुणराशिनाशी ||१४||


एते सत्पुरुषा परार्थघटकाः स्वार्थान् परित्यज्य ये

सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये |
तेऽमी मानवराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये

ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे ||१५||

एको ना विंशतिः स्त्रीणां स्नानार्थम् शरयूं गताः |
विंशतिः पुनरायाता एको व्याघ्रेण भक्षितः ||१६||

ऐक्यं बलं समाजस्य तदभावे स दुर्बलः |
तस्मादैक्यं प्रशंसन्ति दृढं राष्ट्रहितैषिणः ||१७||

ॐकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा |
कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ ||१८||

ऋग्वेदोऽथ यजुर्वेदो सामवेदो ह्यथर्वणः |
चत्वारः सन्ति ते वेदाः मान्याः सर्वत्र पूजिताः ||१९||

ऋणशेषोऽग्निशेषश्च शत्रुशेषस्तथैव च |
पुनः पुनः प्रवर्धन्ते तस्माच्छेषं न रक्षयेत् ||२०||


क्षमा बलमशक्तानां शाक्तानां भूषणं क्षमा |
क्षमा वशीकृते लोके क्षमया किं न सिध्यति ||१||

कार्याथीर् भजते लोकः यावत्कार्यम् न सिध्यति |
उत्तीर्णे च परे पारे नौकाया किं प्रयोजनम् ||२||

काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः |
वसन्तसमये प्राप्ते काकः काकः पिकः पिकः ||३||

क्षुद्रो हि समये प्राप्ते बलिष्ठमपि रक्षति |
प्राज्ञा यूयं विजानीत मा मा निन्दत कञ्चन ||४||

कश्यपोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ गौतमः |
वामदेवो वसिष्ठश्च मुनयः सप्त विश्रुताः ||५||

को न याति वशं लोके मुखे पिण्डेन पूरितः |
मृदङ्गो मुखलेपेन करोति मधुरध्वनिम् ||६||


काकः पद्मवने रतिं न कुरुते हंसो न कूपोदके

मूर्खः पण्डितसङ्गमे न रमते दासो न सिंहासने |
दुष्टः सज्जनसङ्गमं न सहते नीचं जनं सेवते

या यस्य प्रकृतिः स्वभावनियता केनापि न त्यज्यते ||७||

क्षमा शस्त्रं करे यस्य दुर्जनः किं करिष्यति |
अतृणे पतितो वह्निः स्वयमेवोपशाम्यति ||८||

कमले कमला शेते हरः शेते हिमालये |
क्षीराब्धौ च हरिः शेते मन्ये मत्कुणशङ्कया ||९||

कुलीनता सदाराध्या सुप्रतिष्ठां यदीच्छसि |
आत्मवैभवलाभार्थम् गुणवान् शीलवान् भव ||१०||

कविः करोति काव्यानि रसं जानाति पण्डितः |
तरुः सृजति पुष्पाणि मरुद्वहति सौरभम् ||११||

कार्या च महदाकाङ्क्षा क्षुद्राकाङ्क्षा कदापि न |
यथाकाङ्क्षा तथा सिद्धिर्निरीहो नाश्नुते महत् ||१२||


का पाण्डुपत्नी गृहभूषणं किम्

को रामशत्रुः किमगस्तिजन्म |
को सूर्यपुत्रो विपरीतपृच्छा

कुन्ती सुतो रावणकुम्भकर्णः ||१३||

कस्तूरी जायते कस्मात् को हन्ति करिणां शतम् |
किं कुर्यात् कातरो युद्धे मृगात् सिंहः पलायते ||१४||

कन्या वरयते रूपं माता वित्तं पिता श्रुतं |
बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः ||१५||

करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् |
वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि ||१६||

के शवं पतितं दृष्ट्वा पाण्डवा हर्शनिर्भराः |
रुदन्ति कौरवाः सर्वे भो भो के शव के शव ||१७||


क्वचित् दुष्टः क्वचित् तुष्टः

दुष्टस्तुष्टः क्वचित् क्वचित् |
अव्यवस्थितचित्तानां

प्रसादोऽपि भयङ्करः ||१८||

कं सञ्जधान कृष्णः का शीतलवाहिनी गङ्गा |
के दारपोषणरताः कं बलवन्तं न बाधते शीतम् ||१९||

क्वचित् काणो भवेत्साधुः क्वचित् गानी पतिव्रता |
विरलदन्तो क्वचिन्मूर्खो खल्वाटो निर्धनः क्वचित् ||२०||

काव्येषु नाटकं रम्यं तत्र रम्यं शकुन्तला |
तत्रापि च चतूर्थोऽङ्को तत्र श्लोकचतुष्टयम् ||२१||

किमप्यस्तु स्वभावेन सुन्दरं वाप्यसुन्दरम् |
यदेव रोचते यस्मै भवेत्तत्तस्य सुन्दरम् ||२२||


कस्यचित् किमपि नो हरणीयम्

मर्मवाक्यमपि नोच्चरणीयम् |
श्रीपतेः पदयुगं स्मरणीयम्

लीलया भवजलं तरणीयम् ||२३||

कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् |
को विदेशः सुविद्यानां कः परः प्रियवादिनम् ||२४||

केचिदज्ञानतो नष्टाः केचिन्नष्टाः प्रमादतः |
केचित् ज्ञानावलोकेन केचिद्दुष्टैस्तु नाषिताः ||२५||


काचं मणिं काञ्चनमेकसूत्रे

मुग्धा निबध्नन्ति किमत्र चित्रम् |
विचारवान् पाणिनिरेकसूत्रे

श्वानं युवानं मघवानमाह ||२६||

कौशिकेन स किल क्षितीश्वरः राममध्वरविघातशान्तये |
काकपक्षधरमेत्य याचितस्तेजसां हि न वयः समीक्ष्यते ||२७||

कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती |
करमूले तु गोविन्दः प्रभाते करदर्शनम् ||२८||


किसलयानि कुतः कुसुमानि वा

क्व च फलानि तथा नववीरुधाम् |
अयमकारणकारुणिको न चेत्

वितरतीह पयांसि पयोधरः ||२९||


कल्पद्रुमः कल्पितमेव सूते

सा कामधुक् कामितमेव दोग्धि |
चिन्तामणिश्चिन्तितमेव दत्ते

सतां तु सङ्गः सकलं प्रसूते ||३०||


करोति स्वमुखेनैव बहुधान्यस्य खण्डनम् |
नमः पतनशीलाय मुसलाय खलाय च ||३१||

किन्तु मद्यं स्वभावेन यथैवान्नं तथा स्मृतम् |
अयुक्तियुक्तं रोगाय युक्तियुक्तं यथा स्मृतम् ||३२||

कवयः किं न पश्यन्ति किं न भक्षन्ति वायसाः |
मद्यपाः किं न जल्पन्ति किं न कुर्वन्ति योषितः ||३३||


काके शौचं द्यूतकारे च सत्यम्

सर्पे शान्तिः स्त्रीषु कामोपशान्तिः |
क्लीबे धैर्यम् मद्यपे तत्त्वचिन्ता

भूपे सख्यं केन दृष्टं श्रुतं वा ||३४||

कमले कमलोत्पत्तिः श्रूयते न तु दृष्यते |
बाले तव मुखाम्भोजे कथमिन्दीवरद्वयम् ||३५||

कथं गुरूनहं संख्ये द्रोणं च मधुसूदन |
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ||३६||

कालो वा कारणं राज्ञः राजा वा कालकारणं |
इति ते संशयो मा भूत् राजा कालस्य कारणम् ||३७||

किं तया क्रियते धेन्वा या न सूते न दुग्धदा |
कोऽर्थः पुत्रेण जातेन यो न विद्वान्न भक्तिमान् ||३८||

कमलासनकमलेक्षणकमलारिकिरीटकमलभृद्वाहैः |
नुतपदकमला कमला स्तुतपदकमला करोतु मे कमलम् ||३९||


करोति शोभामलके स्त्रियाः को

दृष्या न कान्ता विधिना च कोक्ता |
अङ्गे तु कस्मिन् दहनं पुरारेः

सिन्दूरबिन्दुः विधवाललाटे ||४०||


क्षुत्क्षामोऽपि जराकृशोऽपि शिथिलप्रायोऽपि कष्टां दशाम्

आपन्नोऽपि विपन्नदीधितिरपि प्राणेषु गच्छत्स्वपि |
मत्तेभेन्द्रविभिन्नकुम्भकवलग्रासैकबद्धस्पृहः

किं जीर्णं तृणमत्ति मानमहतामग्रेसरः केसरी ||४१||


किं वाससेति तत्र विचारणीयम्

वासः प्रधानं खलु योग्यतायै |
पीताम्बरं वीक्ष्य ददौ स्वकन्यां

दिगम्बरं वीक्ष्य विषं समुद्रः ||४२||


केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वलाः

न स्नानं न विलोपनं न कुसुमं नालङ्कृता मूर्धजाः |
वाण्येका समलङ्करोति पुरुषं या संस्कृता र्धायते

क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ||४३||

कुलीनैः सह सम्पर्कं सज्जनैः सह मित्रतां |
ज्ञातिभिश्च सह मेलं कुर्वाणो न विनश्यति ||४४||

काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् |
व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ||४५||

कर्तव्यमाचरन् कार्यमकर्तव्यमनाचरन् |
तिष्ठति प्रकृताचारे स वै आर्य इति स्मृतः ||४६||


खलः करोति दुर्वृत्तं नूनं फलति साधुषु |
दशाननोऽहरत् सीतां बन्धनं तु महोदधेः ||१||


खिन्नं चापि सुभाषितेन रमते स्वीयं मनः सर्वदा

श्रुत्वान्यस्य सुभाषितं खलु मनः श्रोतुं पुनर्वाञ्छति |
अज्ञान् ज्ञानवतोऽप्यनेन हि वशीकर्तुं समर्थो भवेत्

कर्तव्यो हि सुभाषितस्य मनुजैरावश्यकः सङ्ग्रहः ||२||


खद्योतो द्योतते तावत् यावत् न उद्यते शशिः |
उदिते तु सह्स्रांशे न खद्योतो न चन्द्रमाः ||३||

गच्छन् गगग्नमागेर्ण नित्यं लोकान् प्रकाशयन् |
वर्धयन् चेतनान् सर्वान् प्रदीपो राजते रविः ||४||

गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत् |
वर्तमानेन कालेन वर्तयन्ति विचक्षणाः ||५||

गणयन्ति न ये सूर्यं वृष्टिं शीतं च कर्षकाः |
यतन्ते धान्यलाभाय तैः साकं हि वसाम्यहम् ||६||

गुरुर्बन्धुरबन्धूनां गुरुश्चक्षुरचक्षुषाम् |
गुरुः पिता च माता च सर्वेषां न्यायवर्तिनाम् ||७||

गुणैरुत्तुङ्गता याति नोत्तुङ्गेनासनेन वै |
प्रासादशिखरस्थोऽपि काको न गरुडायते ||८||

गुणाः कुर्वन्ति दूतत्त्वं दूरेऽपि वसतां सताम् |
केतकीगन्धमाघ्राय स्वयमायान्ति षट्पदाः ||९||

गर्जसि मेघ न यच्छसि तोयं चातकपक्षी व्याकुलितोऽहम् |
दैवादिह यदि दक्षिणवातः क्व त्वं क्वाहं क्व च जलपातः ||१०||

गर्जति शरदि न वर्षति वर्षति वर्षासु निःस्वनो मेघः |
नीचो वदति न कुरुते वदति न साधुः करोत्येव ||११||

गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा |
अथ वा विद्यया विद्या चतूर्थो नोपलभ्यते ||१२||

गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः |
राजहंस तव सैव शुक्लता चीयते न च न चापचीयते ||१३||

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः |
गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ||१४||

गुणेष्वनादरं भ्रातः पूर्णश्रीरपि मा कृथाः |
सम्पूर्णोऽपि घटः कूपे गुणछेदात्पतत्यधः ||१५||

गौरवं प्राप्यते दानान्नतु वित्तस्य सञ्चयात् |
स्थितिरुच्चैः पयोदानां पयोधीनामधस्थितिः ||१६||

गवीशपत्रो नगजापहारी कुमारतातः शशिखण्डमौलिः |
लङ्केशसम्पूजितपादपद्मः पायादनादिः परमेश्वरो नः ||१७||

गर्वाय परपीडायै दुर्जनस्य धनं बलम् |
सज्जनस्य तु दानाय रक्षणाय च ते सदा ||१८||

घटं भिन्द्यात् पटं छिन्द्यात् कुर्याद्रासभरोहणम् |
येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत् ||१९||


घृष्टं घृष्टं पुनरपि पुनश्चन्दनं चारुगन्धम्

छिन्नं छिन्नं पुनरपि पुनः स्वादु चैवेक्षुकाण्डम् |
दग्धं दग्धं पुनरपि पुनः काञ्चनं कान्तवर्णम्

प्राणान्तेऽपि हि प्रकृतिविकृतिर्जायते नोत्तमानाम् ||२०||



खलः करोति दुर्वृत्तं नूनं फलति साधुषु |
दशाननोऽहरत् सीतां बन्धनं तु महोदधेः ||१||

खिन्नं चापि सुभाषितेन रमते स्वीयं मनः सर्वदा

श्रुत्वान्यस्य सुभाषितं खलु मनः श्रोतुं पुनर्वाञ्छति |
अज्ञान् ज्ञानवतोऽप्यनेन हि वशीकर्तुं समर्थो भवेत्

कर्तव्यो हि सुभाषितस्य मनुजैरावश्यकः सङ्ग्रहः ||२||


खद्योतो द्योतते तावत् यावत् न उद्यते शशिः |
उदिते तु सह्स्रांशे न खद्योतो न चन्द्रमाः ||३||

गच्छन् गगग्नमागेर्ण नित्यं लोकान् प्रकाशयन् |
वर्धयन् चेतनान् सर्वान् प्रदीपो राजते रविः ||४||

गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत् |
वर्तमानेन कालेन वर्तयन्ति विचक्षणाः ||५||

गणयन्ति न ये सूर्यं वृष्टिं शीतं च कर्षकाः |
यतन्ते धान्यलाभाय तैः साकं हि वसाम्यहम् ||६||

गुरुर्बन्धुरबन्धूनां गुरुश्चक्षुरचक्षुषाम् |
गुरुः पिता च माता च सर्वेषां न्यायवर्तिनाम् ||७||

गुणैरुत्तुङ्गता याति नोत्तुङ्गेनासनेन वै |
प्रासादशिखरस्थोऽपि काको न गरुडायते ||८||

गुणाः कुर्वन्ति दूतत्त्वं दूरेऽपि वसतां सताम् |
केतकीगन्धमाघ्राय स्वयमायान्ति षट्पदाः ||९||

गर्जसि मेघ न यच्छसि तोयं चातकपक्षी व्याकुलितोऽहम् |
दैवादिह यदि दक्षिणवातः क्व त्वं क्वाहं क्व च जलपातः ||१०||

गर्जति शरदि न वर्षति वर्षति वर्षासु निःस्वनो मेघः |
नीचो वदति न कुरुते वदति न साधुः करोत्येव ||११||

गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा |
अथ वा विद्यया विद्या चतूर्थो नोपलभ्यते ||१२||

गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः |
राजहंस तव सैव शुक्लता चीयते न च न चापचीयते ||१३||

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः |
गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ||१४||

गुणेष्वनादरं भ्रातः पूर्णश्रीरपि मा कृथाः |
सम्पूर्णोऽपि घटः कूपे गुणछेदात्पतत्यधः ||१५||

गौरवं प्राप्यते दानान्नतु वित्तस्य सञ्चयात् |
स्थितिरुच्चैः पयोदानां पयोधीनामधस्थितिः ||१६||

गवीशपत्रो नगजापहारी कुमारतातः शशिखण्डमौलिः |
लङ्केशसम्पूजितपादपद्मः पायादनादिः परमेश्वरो नः ||१७||

गर्वाय परपीडायै दुर्जनस्य धनं बलम् |
सज्जनस्य तु दानाय रक्षणाय च ते सदा ||१८||

घटं भिन्द्यात् पटं छिन्द्यात् कुर्याद्रासभरोहणम् |
येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत् ||१९||


घृष्टं घृष्टं पुनरपि पुनश्चन्दनं चारुगन्धम्

छिन्नं छिन्नं पुनरपि पुनः स्वादु चैवेक्षुकाण्डम् |
दग्धं दग्धं पुनरपि पुनः काञ्चनं कान्तवर्णम्

प्राणान्तेऽपि हि प्रकृतिविकृतिर्जायते नोत्तमानाम् ||२०||


चन्दनं शीतलं लोके चन्दनादपि चन्द्रमाः |
चन्द्रचन्दनयोर्मध्ये शीतला साधुसङ्गतिः ||१||

चितां प्रज्वलितां दृष्ट्वा वैद्यो विस्मयमागतः |
नाहं गतो न मे भ्राता कस्येतद् हस्तलाघवम् ||२||

चतुरः सखि मे भर्ता यल्लिखति तद परो न वाचयति |
तस्मादप्यधिकं मे स्वयमपि लिखितं स्वयं न वाचयति ||३||

चित्ते प्रसन्ने भुवनं प्रसन्नं चित्ते विषण्णे भुवनं विषण्णम् |
अतोऽभिलाषो यदि ते सुखे स्याच्चित्तप्रसादे प्रथमं यतस्व ||४||

चलत्येकेन पादेन तिष्ठत्येकेन पण्डितः |
नासमीक्ष्यापरं स्थानं पूर्वमायातनं त्यजेत् ||५||

चिन्तनीया हि विपदामादावेव प्रतिक्रिया |
न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे ||६||

चित्ते भ्रान्तिर्जायते मद्यपानात् भ्रान्ते चित्ते पापचर्यामुपैति |
पापं कृत्वा दुर्गतिं याति मूढास्तस्मान्मद्यं नैव पेयं न पेयम् ||७||

चिता चिन्ता समाप्रोक्ता बिन्दुमात्रं विशेषता |
सजीवं दहते चिन्ता निर्जीवं दहते चिता ||८||

चातक धूमसमूहं दृष्ट्वा मा धाव वारिधरबुद्ध्या |
इह हि भविष्यति भवतो नयनयुगादेव वारिणं पूरः ||९||

छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे |
फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव ||१०||


जीवनं स्वं परार्थाय नित्यं यच्छत मानवाः |
इति सन्देशमाख्यातुं समुद्रं यान्ति निम्नगाः ||११||

जनैर्जनहितार्थाय जनानामेव निर्मितं |
लोकतन्त्रं भारतस्य वसुधायां विराजते ||१२||

जीविते यस्य जीवन्ति लोके मित्राणि बान्धवाः |
सफलं जीवितं तस्य को न स्वार्थाय जीवति ||१३||

ज्येष्ठत्त्वं जन्मना नैव गुणैज्र्येष्ठत्त्वमुच्यते |
गुणात् गुरुत्वमायाति दुग्धं दधि घृतं क्रमात् ||१४||

जन्मदाता अन्नदाता विद्यादाता तथैव च |
कन्यादाता भयत्राता पञ्चैते पितरः स्मृताः ||१५||


तृणं खादिति केदारे जलं पिबति पल्वले |
दुग्धं यच्छति लोकेभ्यो धेनुर्नो जननी प्रिया ||१||

तदेवास्यं परं मित्रं यत्र सङ्क्रमति द्वयं |
दृष्टे सुखं च दुःखं च प्रतिच्छायेव दर्पणे ||२||

त्याग एक गुणः श्लाघ्यः किमन्यैर्गुणराषिभिः |
त्यागाज्जगति पूज्यन्ते पशुपाषाणपादपाः ||३||

तातेन कथितं पुत्र पत्रं लिख ममाज्ञया |
नतेन लिखितं पत्रं पितुराज्ञा म लङ्घिता ||४||

ते यान्ति तीर्थेषु बुधाः ये शम्भोदूर्रवर्तिनः |
यस्य गौरीश्वरश्चित्ते तीर्थं भोज परं हि सः ||५||

त्यजन्ति मित्राणि धनैर्विहीनं पुत्राश्च दाराश्च सुहृज्जनाश्च |
तमर्थवन्तं पुनराश्रयन्ति अर्थो हि लोके मनुषस्य बन्धुः ||६||

ताडिताः पीडिता ये स्युस्तान्ममेत्यभ्युदीरयेत् |
स साधुरवगन्तव्यस्तत्र द्रष्टव्य ईश्वरः ||७||

तृणादपि लघुस्तूलं तूलादपि च याचकः |
वायुना किं न नीतोऽसौ मामयं प्रार्थयेदिति ||८||

तुष्टोऽपि राजा यदि सेवकेभ्यः भाग्यात्परं नैव ददाति किञ्चित् |
अहर्निशं वर्षति वारिवाहास्तथापि पत्रत्रितयः पलाशः ||९||


तिलवत्स्निग्धं मनोऽस्तु वाण्यां गुडवन्माधुर्यम्

तिलगुडलड्डुकवत् सम्बन्धे अस्तु सुवृत्तत्वम् |
अस्तु विचारे शुभसङ्क्रमणं मङ्गलाय यशसे

कल्याणी सङ्क्रान्तिरस्तु वः सदाहमाशंसे ||१०||


दधि मधुरं मधु मधुरं द्राक्षा मधुरा सुधापि मधुरैव |
तस्य तदेव हि मधुरं यस्य मनो यत्र संलग्नम् ||१||

द्राक्षा म्लानमुखी जाता शर्करा चाश्मताङ्गता |
सुभाशितरसस्याग्रे सुधा भीता दिवङ्गता ||२||

दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा |
पुरतो मारुतिर्यस्य तं वन्दे रधुनन्दनम् ||३||

दानेन तुल्यं सुहृदास्ति नान्यो लोभाच्च नान्योऽस्ति रिपुः पृथिव्याम् |
विभूषणं शीलसमं न चान्यत् सन्तोषतुल्यं धनमस्ति नान्यत् ||४||

दरिद्रता धीरतया विराजते कुरूपता शीलगुणेन राजते |
कुभोजनं चोष्णतया विराजते कुवस्त्रता शुभ्रतया विराजते ||५||

दुर्जनः प्रियवादीति नैतद्विश्वासकारणम् |
मधु तिष्ठति जिंव्हाग्रे हृदये तु हलाहलम् ||६||

दुर्जनेन समं वैरं प्रीतिं चापि न कारयेत् |
उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् ||७||

दातव्यं भोक्तव्यं धनविषये सञ्चयो न कर्तव्यः |
पश्येह मधुकरीणां सञ्चितार्थम् हरन्त्यन्ये ||८||

दाता क्षमी गुणग्राही स्वामी दुःखेन लभ्यते |
शुचिर्दक्षोऽनुरक्तश्च जाने भृत्योऽपि दुर्लभः ||९||

दुर्जनदूषितमनसां पुंसाम् सुजनेऽपि नास्ति विश्वासः |
दुग्धेन दग्धवदनस्तक्रं फूत्कृत्य पामरः पिबति ||१०||

दैवमवेति संचिन्त्य स्वोद्योगं न नरस्त्यजेत् |
अनुद्यमेन कस्तैलं तिलेभ्यः प्राप्तुमर्हति ||११||

दुन्दुभिस्तु नितरामचेतनस्तन्मुखादपि धनं धनं धनम् |
इत्थमेव निनादः प्रवर्तते किं पुनर्यदि भवेत्सचेतनः ||१२||

दुर्जनैः सह वासो हि ध्रुवं नाशाय कल्पते |
काकस्य सहवासेन हंसो नष्टो वृथा पुरा ||१३||

द्वाविमौ पुरुषौ लोके सुर्यमण्दलभेदिनौ |
परिव्राट् योगयुक्तश्च रणस्याभिमुखे हतः ||१४||

द्वन्द्वो द्विगुरपि चाहं मद्गेहे नित्यमव्ययी भावः |
तत्पुरुष कर्म धारय येनाहं स्यां बहुव्रीहिः ||१५||

दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य |
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भ्वति ||१६||

दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपि सन् |
मणिना भूषितः सर्पः किमसौ न भयङ्करः ||१७||

दिवसेनैव तत्कुर्याद् येन रात्रौ सुखं वसेत् |
पूर्वे वयसि तत्कुर्याद् येन वृद्धः सुखी भवेत् ||१८||

देशाटनं राजसभाप्रवेशो व्यापारिविद्वज्जनसङ्गतिश्च |
सर्वेषु शास्त्रेष्ववलोकनं च चातुर्यमूलानि भवन्ति पञ्च ||१९||

दातव्यमिति यद्दानं दीयतेऽनुपकारिणे |
देशे काले च पात्रे च तद्दानं सात्विकं स्मृतम् ||२०||


दर्शने स्पर्शणे वापि श्रवणे भाषणेऽपि वा |
यत्र द्रवत्यन्तरङ्गं स स्नेह इति कथ्यते ||२१||

ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति |
भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम् ||२२||

दारिद्र्यान्मरणाद्वा मरणं मे रोचते न दारिद्र्यं |
अल्पक्लेशं मरणं दारिद्र्यं त्वनन्तकं दुःखम् ||२३||

दातुर्याचकयोर्भेदः कराभ्यामेव दर्शितः |
एकस्य गच्छतोऽधस्तादुपर्यन्यस्य तिष्ठताम् ||२४||

धनमलब्धं काङ्क्षेत लब्धं रक्षेदवेक्षणात् |
रक्षितं वर्धयेत् सम्यक् वृद्धं तीर्थेषु निक्षिपेत् ||२५||

धवलयति समग्रं चन्द्रमा जीवलोकं किमिति निजकलङ्कं नात्मसंस्थं प्रमार्ष्टि |
भवति विदितमेतद् प्रायशः सज्जनानां परहितनिरतानामादरो नात्मकार्ये ||२६||

धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः |
धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ||२७||


न धैर्येण विना लक्ष्मीर्न शौर्येण विना जयः |
न ज्ञानेन विना मोक्षो न दानेन विना यशः ||१||

नारिकेलसमाकारा दृश्यन्तेऽपि हि सज्जनाः |
अन्ये बदरिकाकारा बहिरेव मनोहराः ||२||

न हि कश्चित् विजानाति किं कस्य श्वो भविश्यति |
अतः श्वः करणीयानि कुर्यादद्यैव बुद्धिमान् ||३||

नरो हि मलिनैर्वस्त्रैः यत्र क्वापि निषीदति |
तथा चलितशीलस्तु शेषं शीलं न रक्षति ||४||

नरस्याभरणं रूपं रूपस्याभरणं गुणः |
गुणस्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा ||५||

न कश्चित् कस्यचित् मित्रं न कश्चित् कस्यचित् रिपुः |
कारणेनैव जायन्ते मित्राणि रिपवोऽपि वा ||६||


नागो भाति मदेन कं जलरुहैर्नित्योत्सवैर्मन्दिरं

शीलेनैव नरो जवेन तुरगः पूर्णेन्दुना शर्वरी |
वाणी व्याकरणेन हंसमिथुनैर्वापी सभा पण्दितैः

सत्पुत्रेण कुलो बुधेन वसुधा कीत्र्या च लोकत्रयम् ||७||

न भूतपूर्वम् न कदापि वार्ता हेम्नः कुरङ्गो न कदापि दृष्टः |
तथापि तृष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिः ||८||

न हि प्राणात् प्रियतरं लोके किञ्चन विद्यते |
तस्मात् दयां नरः कुर्यात् यथात्मनि तथा परे ||९||

नमस्ते सर्वदेवानां वरदासि हरेः प्रिया |
या गतिस्त्वत्प्रसन्नानां सा मे स्यात्तव दर्शनात् ||१०||

नवं पुरातनं वापि लेखं पश्यन्ति पण्डिताः |
सारमासाद्य तुष्यन्ति निःसारं च त्यजन्ति ते ||११||

नमस्ते शारदे देवी वीणा पुस्तकधारिणि |
विद्यारम्भं करिष्यामि प्रसन्ना भव सर्वदा ||१२||

न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारी |
व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम् ||१३||

न दुर्जनः सज्जनतामुपैति बहुप्रकारैरपि सेव्यमानः |
भूयोपि सिक्तः पयसा घृतेन न निम्बवृक्षः मधुरत्वमेति ||१४||

नमन्ति फलिता वृक्षा नमन्ति च बुधा जनाः |
शुष्ककाष्ठानि मूर्खाश्च भिद्यन्ते न नमन्ति च ||१५||

नक्रः स्वस्थानमासाद्य राजेन्द्रमपि कर्षति |
स एव प्रच्युतः स्थानाच्छुनापि परिभूयते ||१६||

नमस्ते शारदे देवी काश्मीरपुरवासिनि |
त्वामहं प्रार्थये देवि विद्यादानं च देहि मे || १७||

निर्विषेणापि सर्पेण कर्तव्या महती फणा |
विषमस्तु न चाप्यस्तु फटाटोपो भयङ्करः ||१८||

न हि ज्ञानसमं लोके पवित्रं चान्यसाधनं |
विज्ञानं सर्वलोकानामुत्कर्षाय स्मृतं खलु ||१९||

नरनारीसमुत्पन्ना सा स्त्री देहविवर्जिता |
अमुखी कुरुते शब्दं जातमात्रा विनश्यति ||२०||


न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते |
गृहं तु गृहिणीहीनं कान्तारादतिरिच्यति ||२१||

न देवो विद्यते काष्ठे न पाषाणे न मृन्मये |
भावे हि विद्यते देवस्तस्माद्भावो हि कारणम् ||२२||

न विद्यया नैव कुलेन गौरवं जनानुरागो धनिकेषु सर्वदा |
कपालिना मौलिधृतापि जाह्नवी प्रयाति रत्नाकरमेव सर्वदा ||२३||


निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु

लक्ष्मीः स्थिरा भवतु गच्छतु वा यथेष्टम् |
अद्यैव वा मरणमस्तु युगान्तरे वा

न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ||२४||

न भीतो मरणादस्मि केवलं दूषितं यशः |
विशुद्धस्य हि मे मृत्युः पुत्रजन्मसमं किल ||२५||

नमो दीपशिखे तुभ्यमन्धकारं निरस्यसि |
प्रयच्छसि धनं स्वास्थ्यं कल्याणाय च जायसे ||२६||

नाभिषेको न संस्कारः सिंहस्य क्रियते वने |
विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता ||२७||

न वित्तं दर्शयेत्प्राज्ञः कस्यचित्स्वल्पमप्यहो |
मुनेरपि यतस्तस्य दर्शनाच्चलते मनः ||२८||

न भूप्रदानं न सुवर्णदानं न गोप्रदानं न तथान्नदानम् |
यथा वदन्तीह महाप्रदानं सर्वेषु दानेष्वभयप्रदानम् ||२९||

न पण्डिताः साहसिका भवन्ति श्रुत्वापि ते सन्तुलयन्ति तत्त्वम् |
तत्त्वं समादाय समाचरन्ति स्वार्थं प्रकुर्वन्ति परस्य चार्थम्||

३०||

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः |
नचैनं क्लेदयत्यापो न शोषयति मारुतः ||३१||


नानाधर्मनिगूढतत्त्वनिचिता यत्संस्कृती राजते

सेयं भारतभूर्नितान्तरुचिरा मातैव नः सर्वदा |
तस्या उन्नतिहेतवे हि भवतां ज्ञानं तथा मे बलम्

सम्पन्ना बलशालिनी विजयताम् मे मातृभूः सर्वदा ||३२||


नरपतिहितकर्ता द्वेष्यतां याति लोके

जनपदहितकर्ता त्यज्यते पार्थिवेन |
इति महति विरोधे विद्यमाने समाने

नृपतिजनपदानां दुर्लभः कार्यकर्ता ||३३||


नायं प्रयाति विकृतिं विरसो न यः स्यात्

न क्षीयते बहुजनैर्नितरां निपीतः |
जाड्यं निहन्ति रुचिमेति करोति तृप्तिं

नूनं सुभाशितरसोऽन्यरसातिशायी ||३४||


निवृत्तो यस्तु मद्येभ्यः जितात्मा बुद्धिपूर्वकः |
विकारैः स्पृश्यते जातु न स शारीरमानसैः ||३५||


निःस्वो वष्टि शतं शती दशशतं लक्षं सहस्राधिपः

लक्षेशः क्षितिपालतां क्षितिपतिः चक्रेशतां वाञ्छति |
चक्रेषः पुनरिन्द्रतां सुरपतिः ब्राह्मं पदं वाञ्छति

ब्रह्मा शैवपदं शिवो हरिपदं चाशावधिं को गतः ||३६||


न व्याधिर्न विषं नापत्तथा नाधिश्च भूतले |
खेदाय स्वशरीरस्थं मौख्र्यमेकं यथा नृणाम् ||३७||

न तेन स्थविरो भवति येनास्य पलितं शिरः |
स वै युवाप्यधीयानो देवास्तं स्थविरं विदुः ||३८||

निर्गुणेश्वपि सत्त्वेषु दयां कुर्वन्ति साधवः |
न हि संहरते ज्योत्स्नां चन्द्रश्चाण्डालवेश्मनः ||३९||

नृत्यं मयूराः कुसुमानि वृक्षाः दर्भानुपात्तान्विजहुर्हरिण्यः |
तस्याः प्रपन्ने समदुःखभावमत्यन्तमासीद्रुदितं वनेऽपि ||४०||


नृपस्य वर्णाश्रमपालनं यत्स एव धर्मो मनुना प्रणीतः

निर्वासिताप्येवमतस्त्वयाहं तपस्विसामान्यमवेक्षणीया |
तथेति तस्या प्रतिगृह्य वाचं रामानुजे दृष्टिपथं व्यतीते

सा मुक्तकण्ठं व्यसनातिभाराच्चक्रन्द विग्ना कुररीव भूयः ||४१||


नक्षत्रभूषणं चन्द्रो नारीणां भूषणं पतिः |
पृथिवीभूषणं राजा विद्या सर्वस्य भूषणं ||४२||

नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र |
येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः ||४३||

नमः सर्वविदे तस्मै व्यासाय कविवेधसे |
चक्रे पुण्यं सरस्वत्या यो वर्षमिव भारतम् ||४४||


परित्राणाय साधूनां विनाशाय च दुश्कृताम् |
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ||१||

परोपकारकरणं नूनं हस्तस्य भूषणम् |
पूज्येषु च नमस्कारः उत्तराङ्गस्य भूषणम् ||२||

पोषयन्ति पयो दत्त्वा यथा वत्सान् तथा जनान् |
नित्यं समानया प्रीत्या धेनवो मातरो नृणाम् ||३||

पादपानां भयं वातात् पद्मानां शिशिराद्भयम् |
पर्वतानां भयं वज्रात् साधूनां दुर्जनाद्भयम् ||४||

प्रथमे नार्जिता विद्या द्वीतीये नार्जितं धनं |
तृतीये नार्जितं पुण्यं चतूर्थे किं करिष्यति ||५||

पिबन्ति नद्यः स्वयमेव नाम्भः स्वयं न खादन्ति फलानि वृक्षाः |
नादन्ति स्वस्यं खलु वारिवाहाः परोपकाराय सतां विभूतयः ||६||

परोपकारशून्यस्य धिङ् मनुष्यस्य जीवनम् |
यावन्तः पशवस्तेशां चर्माप्युपकरोति हि ||७||

पक्षिणां बलमाकाशो मत्स्यानामुदकं बलम् |
दुर्बलस्य बलं राजा बालानां रोदनं बलम् ||८||

पिपीलिकार्जितं धान्यं मक्षिकासञ्चितं मधु |
लुब्धेन सञ्चितं द्रव्यं समूलं हि विनश्यति ||९||

परोपदेशे पाण्दित्यं सर्वेषां सुकरं नृणाम् |
विस्मरन्तीह शिष्टत्त्वं स्वकार्ये समुपस्थिते ||१०||

पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितं |
मूढैः पाषाणखण्डेषु रत्नं संज्ञा विधीयते ||११||

परान्नं प्राप्य दुर्बुद्धे मा प्राणेषु दयां कुरु |
दुर्लभानि परान्नानि प्राणा जन्मनि जन्मनि ||१२||

पानीयं पातुमिच्छामि त्वत्तः कमललोचने |
यदि दास्यसि नेच्छामि न दास्यसि पिबाम्यहम् ||१४||


प्रारभ्यते न खलु विघ्नभयेन नीचैः

प्राभ्य विघ्नविहता विरमन्ति मध्याः |
विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः

प्रारब्धमुत्तमजना न परित्यजन्ति ||१४||


प्रलये पवनाघातैः प्रचलन्ति नगा अपि |
कृच्छेऽपि न चलत्येव धीराणां निश्चला मतिः ||१५||

पुस्तकेषु च नाधीतं नाधीतं गुरुसन्निधौ |
न शोभते सभामध्ये हंसमध्ये बको यथा ||१६||

पुस्तकस्था तु या विद्या परहस्तगतं धनं |
कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ||१७||


परिश्रमो मिताहारः भेषजे सुलभे मम

नित्यं ते सेवमानस्य व्याधिर्भ्यो नास्ति मे भयम् |
धनिकस्तु तदाकण्र्य स्वायत्तं भेषजद्वयं

सेवनीयं तदेवेति निश्चित्य गृहमागतः ||१८||

प्राणनाशेऽपि कुर्वीत परेषां मानवो हितम् |
दिशः सुगन्धयत्येव वह्नौ क्षिप्तोऽपि चन्दनः ||१९||

पराधिकारचर्चाम् यः कुर्यात् स्वामिहितेच्छया |
स निषीदति चीत्कारात् गर्दभस्ताडितो यथा ||२०||


पङ्गो धन्यस्त्वमसि न गृहं यासि योऽर्थी परेषाम्

धन्योऽन्ध त्वं धनमवदतां नेक्षसे यन्मुखानि |
श्लाघ्यो मूक त्वमसि कृपणं स्तौषि नार्थाशया यः

स्तोतव्यस्त्वं बधिर गिरं यः खलानां न शृणोसि ||२१||

पुष्पेऽस्ति गन्धो मधुरो नारिकेले जलं तथा |
परमेशस्य सा लीला यतः स सर्वशक्तिमान् ||२२||

प्रारम्भगुर्वी क्षयिणी क्रमेन गुर्वी पुरा वृद्धिमती च पश्चात् |
दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्रिः खलसज्जनानाम् ||२३||

पञ्चैते देवतरवः मन्दारः पारिजातकः |
सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ||२४||

प्राणभूतञ्च यत्तत्त्वं सारभूतं तथैव च |
संस्कृतौ भारतस्यास्य तन्मे यच्छतु संस्कृतम् ||२५||

प्राणां त्यजति देशार्थम् पण्दितानां सहायकः |
य आचरति कल्याणं लोके मानं स विन्दति ||२६||


प्रथमवयसि पीतं तोयमल्पं स्मरन्तः

शिरसि निहितभारा नारिकेला नराणाम् |
ददति जलमनल्पास्वादमाजीवितान्तं

न हि कृतमुपकारं साधवो विस्मरन्ति ||२७||


पश्चाद्बर्हं वहति विपुलं चित्रितं दीप्तिमन्तम्

काले काले व्यजनमिव तं विस्तृतं यः करोति |
शीर्षे कान्तं वहति तरलं पिच्छकानां कलापं

कोऽयं पक्षी रुचिरवदनो नर्तने च प्रवीणः ||२८||


पलाशमुकुलभ्रान्त्या शुकतुण्डे पतत्यलिः |
सोऽपि जम्बूफलभ्रान्त्या तमलिं धर्तुमिच्छति ||२९||

पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासः |
अद्यापि तत्तुल्य कवेरभावात् अनामिका सार्थवती बभूव ||३०||


पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटम्

नानाख्यानककेसरं हरिकथासम्बोधनाबोधितम् |
लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा

भूयाद्भारतपङ्कजं कलिमलप्रध्वंसि नः श्रेयसे ||३१||


पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयम्

व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम् |
अद्वैतामृतवर्षिणीं भगवतीमष्टादशाध्यायिनीं

अम्ब त्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीम् ||३२||

प्रमदा मदिरा लक्ष्मीः विज्ञेया त्रिविधा सुरा |
दृष्ट्वैवोन्मादयत्येका पीता चान्यातिसञ्चयात् ||३३||

पुनर्वित्तं पुनर्मित्रं पुनर्भाया पुनर्मही |
एतत् सर्वं पुनर्लभ्यं न शरीरं पुनः पुनः ||३४||

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः |
तस्मात् तदेव वक्तव्यं वचने किं दरिद्रता ||३५||

पिनाकफणिबालेन्दुभस्ममन्दाकिनीयुता |
पवर्गरचिता मूर्तिरपवर्गप्रदास्तु नः ||३६||

पिण्डे पिण्डे मतिर्भिन्ना कुण्डे कुण्डे नवं पयः |
जातौ जातौ नवाचाराः नवा वाणी मुखे मुखे ||३७||


फणिनो बहवः सन्ति भेकभक्षणतत्पराः |
एक एव हि शेषोऽयं धरणीधरणक्षमः ||१||


फलं स्वेच्छालभ्यं प्रतिदिनमखेदं क्षितिरुहां

पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरितां |
मृदुस्पर्शा शय्या सुललितलतापल्लवमयी

सहन्ते सन्तापं तदपि धनिनां द्वारि कृपणाः ||२||

बालो वा यदि वा वृद्धो युवा वा गृहमागतः |
तस्य पूजा विधातव्या सर्वस्याभ्यागतो गुरुः ||३||

बहुभिर्न विरोद्धव्यं दुर्जनैः सज्जनैरपि |
स्फुरन्तमपि नागेन्द्रं भक्षयन्ति पिपीलिकाः ||४||

बालस्यापि रवेः पादाः पतन्त्युपरि भूभृतां |
तेजसा सह जातानां वयः कुत्रोपयुज्यते ||५||

बुभुक्षितः किं न करोति पापं क्षीणा नरा निष्करुणा भवन्ति |
आख्याहि भद्रे प्रियदर्शनस्य न गंगदत्तः पुनरेति कूपं ||६||


ब्रह्मन्नध्ययनस्य नैष समयस्तूष्णीं बहिः स्थीयतां

स्वल्पं जल्प बृहस्पते जडमते, नैषा सभा वज्रिणः |
वीणां संहर नारद स्तुतिकथालापैरलं तुम्बुरो

सीतारल्लकभल्लभग्नहृदयः स्वस्थो न लंकेश्वरः ||७||

भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती |
तस्यां हि काव्यं मधुरं तस्मादपि सुभाशितम् ||८||

भीतेभ्यश्चाभयं देयं व्याधितेभ्यस्तथौषधम् |
देया विद्यार्थिने विद्या देयमन्नं क्षुधातुरे ||९||

भोजनान्ते च किं पेयं जयन्तः कस्य वै सुतः |
कथं विष्णुपदं प्रोक्तं तक्रं शक्रस्य दुर्लभम् ||१०||

भ्रमन् वनान्ते नवमंजरीषु न षट्पदो गन्धफलीमजिघ्रत् |
सा किं न रम्या स च किं न रन्ता बलीयसी केवलमीश्वरेच्छा ||११||

भो दारिद्र्य नमस्तुभ्यं सिद्धोऽहं त्वत्प्रसादतः |
पश्याम्यहं जगत्सर्वं न मां पश्यति कश्चन ||१२||

भासस्य कालिदासस्य भवभूतेश्च विश्रुता |
बाणशूद्रकहर्षाणां काव्यभाषास्ति संस्कृतम् ||१३||


भीष्मद्रोणतटा जयद्रथजला गान्धारनीलोत्पला

शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला |
अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी

सोत्तीर्णा खलु पाण्डवैर्रणनदी कैवर्तकः केशवः ||१४||

भोजनान्ते पिबेत् तक्रं दिनान्ते च पिबेत् पयः |
निशान्ते च पिबेत् वारि किं वैद्येन प्रयोजनं ||१५||


माता मित्रं पिता चेति स्वभावात् त्रितयं हितं |
कार्यकारणतश्चान्ये भवन्ति हितबुद्धयः ||१||

मनो मधुकरो मेघो मद्यपो मत्कुणो मरुत् |
मा मदो मर्कटो मत्स्यो मकारा दश चंचलाः ||२||


मात्रा समं नास्ति शरीरपोषणं

चिन्तासमं नास्ति शरीरशोषणं |
मित्रं विना नास्ति शरीर तोषणं

विद्यां विना नास्ति शरीरभूषणं ||३||


मुखं पद्मदलाकारं वाणी चन्दनशीतला |
हृदयं क्रोधसंरक्तं त्रिविधं धूर्तलक्षणम् ||४||

मयूरो विहगो रम्यः आनन्दयति मानवान् |
पृष्ठे सरस्वती तस्य उपविष्टेति मन्यते ||५||

मूर्खस्य पंच चिह्नानि गर्वो दुर्वचनं तथा |
क्रोधश्च दृढवादश्च परवाक्येष्वनादरः ||६||

मूकं करोति वाचालं पंगुं लंघयते गिरिम् |
यत्कृपा तमहं वन्दे परमानन्दमाधवम् ||७||

मणिना वलयं वलयेन मणिः मणिना वलयेन विभाति करः |
पयसा कमलं कमलेन पयः पयसा कमलेन विभाति सरः ||८||

मृगमीनसज्जनानां तृणजलसन्तोषविहितवृत्तीनाम् |
लुब्धकधीवरपिशुनः निष्कारणवैरणो जगति ||९||


मर्कटस्य सुरापानं तस्य वृश्चिकदंशनम् |
तन्मध्ये भूतसंचारो यद्वा तद्वा भविष्यति ||१०||

मृगा मृगैः संगमुपव्रजन्ति गावश्च गोभिस्तुरगास्तुरंगैः |
मूर्खाश्च मूर्खैः सुधयः सुधीभिः समानशीलव्यसनेषु सख्यं ||११||

महाजनस्य संसर्गः कस्य नोन्नतिकारकः |
पद्मपत्रस्थितं तोयं धत्ते मुक्ताफलश्रियम् ||१२||

महानुभावसंसर्गः कस्य नोन्नतिकारकः |
रत्याम्बु जाह्नवीसंगात त्रिदशैरपि वन्द्यते ||१३||

मा निशाद प्रतिष्ठां त्वं अगमः शाश्वतीः समाः |
यत्क्रौंचमिथुनादेकमवधीः काममोहितम् ||१४||

मलिनैरलकैरेतैः शुक्लत्वं प्रकटीकृतम् |
तद्रोषादिव निर्याता वदनाद्रदनावलिः ||१५||

मृदुरित्यवजानन्ति तीक्ष्ण इत्युद्विजन्ति च |
तीक्ष्णकाले भवेत्तीक्ष्णो मृदुकाले मृदुर्भवेत् ||१६||

मारात्परः शूरतरो न कश्चित् पराभवः स्त्रीहरणान्न चान्यः |
तथापि नाब्धिं प्रविवेश रामो बबन्ध सेतुं विजयी सहिष्णुः ||१७||


मौनान्मूर्खः प्रवचनपटुर्वातुलो जल्पको वा

क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः |
धृष्टः पाश्र्वे वसति नियतं दूरतश्चाप्रगल्भः

सेवाधर्मः परमगहनो योगिनामप्यगम्यः ||१८||


यथा देशस्तथा भाषा यथा राजा तथा प्रजा |
यथा भूमिस्तथा तोयं यथा बीजस्तथांकुरः ||१||

यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् |
लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ||२||

यः पठति लिखति पश्यति परिपृच्छति पण्डितानुपाश्रयति |
तस्य दिवाकरकिरणैर्नलिनीदलमिव विकासते बुद्धिः ||३||


या कुन्देन्दु तुषारहारधवला या शुभ्रवस्त्रावृता

या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना |
या ब्रह्माच्युतशंकरप्रभृतिभिर्देवैः सदा वन्दिता

सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ||४||


यस्तु संचरते देशान् सेवते यस्तु पण्डितान् |
तस्य विस्तारिता बुधिस्तैलबिन्दुरिवाम्भसि ||५||

यो न संचरते देशान् सेवते यो न पण्डीतान् |
तस्य संकुचिता बुधिर्धृतबिन्दुरिवाम्भसि ||६||

यौवनं धनसंपत्तिः प्रभुत्त्वमविवेकिता |
एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ||७||

यस्मिन् देशे न संमानो न प्रीतिर्न च बान्धवाः |
न च विद्यागमः कश्चित् न तत्र दिवसं वसेत् ||८||

येन केन प्रकारेण यस्य कस्यापि देहिनः |
संतोषं जनयेत् प्राज्ञस्तदेवेश्वरपूजनम् ||९||


येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः |
ते मर्त्यलोके भुविभारभूता मनुष्यरूपेण मृगाश्चरन्ति ||१०||

यस्य कस्य तरोर्मूलं येन केनापि मिश्रितम् |
यस्मै कस्मै प्रदातव्यं यद्वा तद्वा भविष्यति ||११||

युधिष्ठिरो कस्य पुत्रो गंगा वहति कीदृशी |
हंसस्य शोभा का वास्ति धर्मस्य त्वरिता गतिः ||१२||

यथा काष्ठं च काष्ठं च समेयातां महोदधौ |
समेत्य च व्यपेयातां तद्वत्भूतसमागमः ||१३||

यस्यास्ति वित्तं स वरः कुलीनः स पण्डितः स श्रुतवान् गुणज्ञः |
स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ते ||१४||

यथैकेन न हस्तेन तालिका सम्प्रपद्यते |
तथोद्यमपरित्यक्तं कर्म नोत्पादयेत् फलम् ||१५||

यो धृवाणि परित्यज्य अधृवाणि निषेवते |
धृवाणि तस्य नश्यन्ति अधृवं नष्टमेव च ||१६||

यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत् |
एवं पुरुषकारेण विना दैवं न सिध्यति ||१७||

याचते कार्यकाले यः स किं भृत्यो स किं सुहृद् |
भृत्यात्सम्भावयेत् यस्तु कार्यकाले स किं प्रभुः ||१८||


ये नाम केचिदिह प्रथयन्यवज्ञाम्

जानन्तु ते किमपि तान्प्रति नैष यत्नः |
उत्पस्यते सति मम कोऽपि समानधर्मा

कालो ह्ययं निरवधिर्विपुला च पृथ्वी ||१९||


यस्य शष्ठी चतुर्थी च विहस्य च विहाय च |
अहं कथं द्वितीया स्यात् द्वितीया स्यामहं कथम् ||२०||


यत्र रामकथागानं तत्रास्ते हनुमान् यथा |
संस्कृतध्ययनं यत्र तत्र संस्कृतिदर्शनम् ||२१||

यदेवोपनतं दुःखात् सुखं तद्रसवत्तरम् |
निर्वाणाय तरुच्छाया तप्तस्य हि विशेषतः ||२२||

यः समुत्पतितं क्रोधं क्षमयैव निरस्यति |
यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ||२३||

योगक्षेमाय राष्ट्रस्य सभ्यतायाश्च संस्कृतेः |
नैवान्यो विद्यते पन्था लोकसंघटनं विना ||२४||


यां चिन्तयामि सततं मयि सा विरक्ता

साप्यन्यमिच्छति जनं स जनोऽन्यसक्तः |
अस्मत्कृते च परितुष्यति काचिदन्या

धिक् तां च तं च मदनं च इमां च मां च ||२५||

ययोरैव समं वित्तं ययोरैव समं कुलम् |
तयोमैर्त्रिर्विवाहश्च न तु पुष्टविपुष्टयोः ||२६||

यद् यद् विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा |
तत्तदेवावगच्छ त्वं मम तेजोऽंशसम्भवम् ||२७||

यः पूतनामारणलब्धकीर्तिः काकोदरो येन विनीतदर्पः |
यशोदयालंकृतमूर्तिरव्यात् पतिर्यदूनामथवा रघूणाम् ||२८||

यदि वा याति गोविन्दो मथुरातः पुनः सखी |
राधाया नयनद्वन्द्वे राधानामविपर्ययः ||२९||


यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः |
यत्र तास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः ||३०||

यत्र नास्ति दधिमन्थनघोषः तत्र नो लघुलघुनि शिशुनि |
यत्र नास्ति गुरुगौरवपूजा तानि किं बत गृहाणि वनानि ||३१||


रूपयौवनसम्पन्ना विशालकुलसम्भवाः |
विद्याहीना न शोभन्ते निर्गन्धाः किंशुका यथा ||१||

राष्ट्रध्वजो राष्ट्रभाषा राष्ट्रगीतं तथैव च |
एतानि मानचिह्नानि सर्वदा हृदि धार्यताम् ||२||

रत्नैर्महाहैर्स्तुतुषुर्न देवाः न भेजिरे भीमविषेण भीतिम् |
सुधां विना न प्रययुर्विरामं न निश्चिदार्थाद्विरमन्ति धीराः ||३||


रात्रिर्गमिष्यति भविष्यति सुप्रभातं

भास्वानुदेष्यति हसिष्यति पंकजश्रीः |
इत्थं विचिन्तयति कोषगते द्विरेफे

हा हन्त हन्त नलिनीं गज उज्जहार ||४||


रे रे चातक सावधानमनसा मित्र क्षणं श्रूयताम्

अम्भोदा बहवो वसन्ति गगने सर्वेपि नैकादृशाः |
केचिद्वृष्टीभिरार्दयन्ति धरणीं गर्जन्ति केचिद्वृथा

यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ||५||


रात्रौ जानु दिवा भानु कृशानुः सन्ध्ययोद्र्वयोः |
पश्य शीतं मया नीतं जानुभानुकृशानुभिः ||६||

रामायणम् महाकाव्यम् महाभारतमेव च |
उभे च विश्वविख्याते संस्कृतस्य महानिधी ||७||


रथस्यैकं चक्रं भुजगयामिता सप्ततुरगाः

निरालम्बो मार्गश्चरणविकलः सारथिरपि |
रविर्यात्यन्तं प्रतिदिनमपारस्य नभसः

क्रियासिधिः सत्त्वे भवति महतां नोपकरणे ||८||

रजकश्चर्मकारश्च नटो वरुड एव च |
कैवर्तभेदभिल्लाश्च सप्तैते चान्त्यजाः स्मृताः ||९||


रे रे रासभ वस्त्रभारवहनात्कुग्रासमश्नासि किं

राजाश्वावसथं प्रयाहि चणकाभ्यूषान् सुखं भक्षय |
सर्वान् पृच्छवतो हयानिति वदन्त्यत्राधिकारे स्थिता

राजा तैरुप्दिष्टमेव मनुते सत्यं तटस्थाः परे ||१०||


रामाद्याचय मेदिनीं धनपतेर्बीजं बलाल्लांगलम्

प्रेतेशान्महिषं तवास्ति