संस्कृत सुभाषितानि - ०२
विकिपीडिया, एक मुक्त ज्ञानकोष से
सुभाषित-रत्न-भाण्डागारम्
सप्तमं सङ्कीर्णक-प्रकरणं
The text here is taken from the seventh book of the Subhäñita-ratna-bhäëòägära, (ed.) Narayana Ram Acharya, Kavyatirtha, as volume 106 in the Chowkhamba Sanskrit Series (Varanasi: Chowkhamba Sanskrit Series Office, 1998). It is, of course, a reprint of the Nirnaya Sagar Press edition which went through a number of different editions, the last in 1952.
This last section appears to contain odds and ends that did not fit in easily or were missed in the preparation of the earlier sections, which are organized according to subject matter. References throughout SRB are not given consistently, and that is reflected in this edition, though we have made some attempt to place the references next to the verse for the convenience of the reader. However, there are inconsistencies in the numbering, due to the differences between the editions used by the original editor and myself. Here are some of the abbreviations used here:
का.नी. = कामन्दकी-नीतिः. (Triv. Skt. Ser. no. xiv.)
कथा. = कथा-सरित्-सागर (समदेव.)
कु.सं. = कुमार-सम्भव.
चा.नी.सा. = चाणक्य-नीति-सार.
नी.श. = नीति-शतक.
पञ्च. = पञ्चतन्त्र.
प.पु. = पद्म-पुराण.
प्र. = प्रसङ्गाभरणम्. (Grantha-ratna-mala IV, 10-11).
बृ.चा. = बृहत् चाणकय-नीति.
भर्तृ. = भर्तृहरि-शतक-त्रयम्
भर्तृ.सं. = भर्तृहरि-सुभाषित-सङ्ग्रह
भा.पु. = भागवत-पुराण.
भोज. = भोज-प्रबन्ध.
म.भा. = महाभारत.
मनु = मनु-स्मृति.
रा. = वाल्मीकि ऋआमायण.
रा.त. = राज-तरङ्गिणी.
विक्रम. = विक्रम-चरितम्
वे. = वेताल-पञ्चविंशति.
वै.श. = वैराग्य-शतक.
शा. = आभिज्ञान-शकुन्तला (कालिदास)
शा.प. = शार्ङ्गधार-पद्धति.
शृ.ति. = शृङ्गार-तिलक.
शृ.श. = शृङ्गार-शतक.
सं.पा. = संस्कृत-पाठोपकारक-तत्त्व-बोधिनी.
सु. = सुभाषितावलि (वल्लभदेव)
हि. = हितोपदेश.
शीलं प्रधानं पुरुषे तद् यस्येह प्रणश्यति ।
न तस्य जीवितेनार्थो न धनेन न बन्धुभिः ।।१।। [म.भा. ५.३४.४६]
महतो हि क्षयं लब्ध्वा श्लाघां नीचोऽपि गच्छति ।
दानार्थी मधुपो यद्वद् गज-कर्ण-समाहतः ।।२।। [भाव. ३१]
महद्भिः स्पर्धमानस्य विपद् एव गरीयसी ।
दन्त-भङ्गो हि नागानां श्लाघ्यो गिरि-विदारणे ।।३।। [पञ्च. १.४०४]
पञ्चास्यस्य पराभवाय भषको मांसेन गोर्-भूयसा ।
दध्य्-अन्नैर् अपि पायसैः प्रतिदिनं संवर्धितो यो मया ।।४।। [?]
पञ्चेन्द्रियस्य मर्त्यस्य छिद्रं चेद् एकम् इन्द्रियम् ।
ततोऽस्य स्रवति प्रज्ञा दृतेः पात्राद् इवोदकम् ।।५।। [म.भा. ५.२०४७]
पञ्चैव पूजयन् लोके यशः प्राप्नोति केवलम् ।
देवान् पितॄन् मनुष्यांश् च भिक्षून् अतिथि-पञ्चमान् ।।६।। [म.भा. ५.२०४५]
यन्-निमित्तं भवेच् छोकस् त्रासो वा दुःखम् एव वा ।
आयासो वा यतो मूलस् तद्-एकाङ्गम् अपि त्यजेत् ।।७।। [शा.प. १४६१]
यन् निःशब्द-जला घनाश्म-परुषे देशेऽतिघोरारवा यच् चाच्छाः समये पयोद-मलिने कालुष्य-सन्दूषिताः ।
दृश्यन्ते कुल-निम्नगा अपि परं दिग्-देश-कालाव् इमौ तत् सत्यं महताम् अपि स्व-सदृशाचार-प्रवृत्ति-प्रदौ ।।८।। [रा.त. ४.३०८]
यमो वैवस्वतस् तस्य निर्यातयति दुष्कृतम् ।
हृदि स्थितः कर्म-साक्षी क्षेत्रज्ञो यस्य तुष्यति ।।९।। [म.भा. १.३०१८]
भीतवत् संविधातव्यं यावद् भयम् अनागतम् ।
आगतं तु भयं दृष्ट्वा प्रहर्तव्यम् अभीतवत् ।।१०।। [म.भा. १.५६२२]
भुञ्जानाः पवनं सरीसृप-गणाः प्रख्यापिता भोगिनो गायद्-भृङ्ग-निवारका निगदिता विस्तीर्ण-कर्णा गजाः ।
यश् चाभ्यन्तर-सम्भृतोष्म-विकृतिः प्रोक्तः शमी स द्रुमो लोकेनेति निरर्गलं प्रलपता सर्वं विपर्यासितम् ।।११।। [रा.त. ३.१९४]
पति-व्रता पति-प्राणा पत्युः प्रिय-हिते रता ।
यस्य स्याद् ईदृशी भार्या धन्यः स पुरुषो भुवि ।।१२।। [पञ्च. ३.१४४]
संक्षेपात् कथ्यते धर्मो जनाः किं विस्तरेण तु ।
परोपकारः पुण्याय पापाय पर-पीडनम् ।।१३।। [?]
शुभ्रं सद्य सविभ्रमा युवतयः श्वेतातपत्रोज्ज्वला लक्ष्मीर् इत्य् अनुभूयते स्थिरम् इव स्फीते शुभे कर्मणि ।
विच्छिन्ने नितराम् अनङ्ग-कलह-क्रीडा-त्रुटत्-तन्तुकं मुक्ता-जालम् इव प्रयाति झटिति भ्रश्यद्-दिशो दृश्यताम् ।।१४।। [भर्तृ. १.९५]
यन् नम्रं सरलं चापि यच् चापत्सु न सीदति ।
धनुर् मित्रं कलत्रं च दुर्लभं शुद्ध-वंशजम् ।।१५।। [पञ्च. २.१८८]
यन् नवे भाजने लग्नः संस्कारो नान्यथा भवेत् ।
कथा-च्छलेन बालानां नीतिस् तद् इह कथ्यते ।।१६।। [हि. ०.८]
यद् अप्य् उच्चैर् विजानीयान् नीचैस् तद् अपि कीर्तयेत् ।
कर्मणा तस्य वैशिष्ट्यं कथयेद् विनयान्वितः ।।१७।। [?]
सकृज् जल्पन्ति राजानः सकृज् जल्पन्ति साधवः ।
सकृत् कन्याः प्रदीयन्ते त्रीण्य् एतानि सकृत् सकृत् ।।१८।। [वे. ३४]
मुखं प्रसन्नं विमला च दृष्टिः कथानुरागो मधुरा च वाणी ।
स्नेहोऽधिकः सम्भ्रम-दर्शनं च सदानुरक्तस्य जनस्य चिह्नम् ।।१९।। [हि. २.५९]
पञ्च त्वानुगमिष्यन्ति यत्र यत्र गमिष्यसि ।
मित्राण्य् अमित्रा मध्यस्था उपजीव्योपजीविनः ।।२०।। [म.भा. ५.१०४६]
परेषाम् आत्मनश् चैव योऽविचार्य बलाबलम् ।
कार्यायोत्तिष्ठते मोहाद् आपदः स समीहते ।।२१।। [पञ्च. ३.८७]
बलीयसा हीन-बलो विरोधं न भूति-कामो मनसापि वाञ्छेत् ।
न वध्यतेऽत्यन्त-बलो हि यस्माद् व्यक्तं प्रणाशोऽस्ति पतङ्ग-वृत्तेः ।।२२।। [पञ्च. ३.१२६]
बलोपपन्नोऽपि हि बुद्धिमान् नरः परं नयेन् न स्वयम् एव वैरिताम् ।
भिषङ् ममास्तीति विचिन्त्य भक्षयेद् अकारणात् को हि विचक्सणो विषम् ।।२३।। [पञ्च. ३.१११]
मित्र-स्वजन-बन्धूनां बुद्धेर् धैर्यस्य चात्मनः ।
आपन्-निकष-पाषाणे नरो जानाति सारताम् ।।२४।। [भो.प्र. १५६]
मित्राण्य् एव हि रक्षन्ति मित्रवान् नावसीदति ।
मित्राद् उत्पादितं वैरम् अपि मूलं निकृन्तति ।।२५।। [रा. ४.२०.१८]
मित्रार्थे बान्धवार्थे च बुद्धिमान् यतते सदा ।
जातास्व् आपत्सु यत्नेन जगादेदं वचो मनुः ।।२६।। [पञ्च. १.३४६]
प्रत्यासत्तिं मद-करटिनो दान-गन्धेन वायुर् गर्जोद्भूतिं प्रकटित-रुचिश् चञ्चलेवाम्बुदस्य ।
चेष्टा स्पष्टं वदति मतिमन्-नैपुणोन्नेय-तत्त्वा जन्तोर् जन्मान्तर-परिचितां निश्चलां चित्त-वृत्तिम् ।।२७।। [रा.त. ४.३५४]
प्रसादः कुरुते पत्युः सम्पत्तिं नाभिजानताम् ।
कालिमा काल-कूटस्य नापैति हर-सङ्गमात् ।।२८।। [हि. ३.१९]
प्रसादो निष्फलो यस्य क्रोधश् चापि निरर्थकः ।
न तं भर्तारम् इच्छन्ति षण्ढं पतिम् इव स्त्रियः ।।२९।। [भो.प्र. ५७।
प्रजा-वृद्धं धर्म-वृद्धं स्व-बन्धुं विद्या-वृद्धं वयसा चापि वृद्धम् ।
कार्याकार्ये पूजयित्वा प्रसाद्य यः सम्पृच्छेन् न स मुह्येत् कदाचित् ।।३०।। [म.भा. ५.१५५]
यथा ग्रामान्तरं गच्छन् नरः कश्चित् क्वचिद् वसेत् ।
उत्सृज्य च तम् आवासं प्रतिष्ठेतापरेऽहनि ।।३१।। एवम् एव मनुष्याणां पिता माता गृहं वसु ।
आवास-मात्रं काकुत्स्थ सज्जन्ते नात्र सज्जनाः ।।३२।। [रा. २.१०८.५-६]
यथा छायातपौ नित्यं सुसम्बद्धौ परस्परम् ।
एवं कर्म च कर्ता च संश्लिष्टाव् इतरेतरम् ।।३३।। [पञ्च. २.१३६]
यथा फलानां पक्वानां नान्यस्य पतनाद् भयम् ।
एवं नरस्य जातस्य नान्यत्र मरणाद् भयम् ।।३४।। [?]
यथा बीजं विना क्षेत्रम् उप्तं भवति निष्फलम् ।
तथा पुरुष-कारेण विना दैवं न सिध्यति ।।३५।। [म.भा. १३.३०१]
योऽन्यथा सन्तम् आत्मानम् अन्यथा सत्सु भाषते ।
स पाप-कृत्तमो लोके तेनात्मापहारकः ।।३६।। [मनु. ४.२५५]
शान्तेऽनन्त-महिम्नि निर्मल-चिद्-आनन्दे तरङ्गावली- निर्मुक्तेऽमृत-सागराम्भसि मनाङ् मग्नोऽपि नाचामति ।
निःसारे मृगतृष्णिकार्णव-जले श्रान्तो विमूढः पिबत्य् आचामत्य् अवागहतेऽभिरमते मज्जत्य् अथोन्मज्जति ।।३७।। [?]
वशं प्राप्ते मृत्योः पितरि तनये वा सुहृदि वा शुचालं तप्यन्ते भृशम् उदर-ताडं जड-धियः ।
असारे संसारे विरस-परिणामे तु विदुषां वियोगो वैराग्यं द्रढयति वितन्वन् शम-सुखम् ।।३८।। [प्र. ९५]
विधिर् एव हि जागर्ति भव्यानाम् अर्थ-सिद्धये ।
असंचेतयमानानां सद्-भृत्याः स्वामिनाम् इव ।।३९।। [?]
लीलायन्त्यः कुलं घ्नन्ति कुलानीव सरिद्-वराः दोषान् सर्वांश् च मत्याशु प्रजापतिर् अभाषत ।।४०।। [म.भा. १३.१४७५]
रामो हेम-मृगं न वेत्ति नहुषो नो यान् युनक्ति द्विजान् विप्राद् एव स-वत्स-धेनु-हरणे जाता मतिश् चार्जुने ।
द्यूते भ्रातृ-चतुष्टय-स्व-महिषीं धर्मात्मजो दत्तवान् प्रायः सत्-पुरुषो विनाश-समये बुद्ध्या परित्यज्यते ।।४१।। [वे. १५]
पुरा विद्वत्तासीद् अमलिन-धियां क्लेश-हतये गता कालेनासौ विषय-सुख-सिद्धौ विषयिणाम् ।
इदानीं सम्प्रेक्ष्य क्षिति-लव-भुजः शास्त्र-विमुखान् अहो कष्टं सापि प्रतिदिनम् अधोऽधः प्रविशति ।।४२।। [भर्तृ. ३.१००]
राजा धर्मविना द्विजः शुचिविना ज्ञानं विना योगिनः कान्ता सत्यविना हयो गतिविना ज्योतिर् विना भूषणम् ।
योद्धा शूरविना तपो व्रतविना छन्दो विना गायनं भ्राता स्नेहविना नरो हरिविना मुञ्चन्ति शीघ्रं बुधाः ।।४३।। [सप्त-रत्न २]
प्रिय-वचन-कृतोऽपि योषितां दयित-जनानुनयो रसाद् ऋते ।
प्रविशति हृदयं न तद्-विदां मणिर् इव कृत्रिम-राग-योजितः ।।४४।। [?]
मानो वा दर्पो वा विज्ञानं विभ्रमः सुबुद्धिर् वा ।
सर्वं प्रणश्यति समं वित्त-विहीनो यदा पुरुषः ।।४५।।
परां विनीतः समुपैति सेव्यतां मही-पतीनां विनयो विभूषणम् ।
प्रवृत्त-दानो मृदु-सञ्चरत्-करः करीव भद्रो विनयेन शोभते ।।४६।। [का.नी. १.६५]
प्रीणाति यः सुचरितैः पितरं स पुत्रो यद् भर्तुर् एव हितम् इच्छति तत् कलत्रम् ।
तन् मित्रम् आपदि सुखे च सम-क्रियं यद् एतत् त्रयं जगति पुण्य-कृतो लभन्ते ।।४७।। [भर्तृ.सं. २७९]
भार्यायां जनितं पुत्रम् आदर्शेष्व् इव चाननम् ।
ह्लादते जनिता प्रेक्ष्य स्वर्गं प्राप्येव पुण्य-कृत् ।।४८।। [?]
हिंसकान्य् अपि भूतानि यो हिनस्ति स निर्घृणः ।
स याति नरकं घोरं किं पुनर् यः शुभानि च ।।४९।। [पञ्च. ३.१६]
सुखास्वाद-परो यस् तु संसारे सत्-समागमः ।
स वियोगावसानत्वाद् दुःखानां धुरि युज्यते ।।५०।। [हि. ४.७७]
पूज्यो बन्धुर् अपि प्रियोऽपि तनयो भ्राता वयस्योऽपि वा मोहाद् अनवद्य-कार्य-विमुखो हेयः स कार्यार्थिना ।
लोके हि प्रथिता ननु श्रुतिर् इयं नार्योऽपि गायन्ति यां किं कार्यं कनकेन तेन भवति च्छेदाय कर्णस्य यत् ।।५१।। [पञ्च. १.२४०]
सुधा-शुभ्रं धाम स्फुरद्-अमल-रश्मिः शशधरः प्रिया-वक्त्राम्भोजं मलयज-रजश् चातिसुरभि ।
स्रजो हृद्यामोदास् तद् इदम् अखिलं रागिणि जने करोत्य् अन्तः-क्षोभं न तु विषय-संसर्ग-विमुखे ।।५२।।
भार्यावन्तः क्रियावन्तः स-भार्या गृह-मेधिनः ।
भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रियान्विताः ।।५३।। [म.भा. १.३०२९]
मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ ।
यादृशी भावना यस्य सिद्धिर् भवति तादृशी ।।५४।। [विक्रम. ६४]
बाहू द्वौ च मृणालम् आस्य-कमलं लावण्य-लीला-जलं श्रोणी तीर्थ-शिला च नेत्र-शफरं धम्मिल्ल-शैवालकम् ।
कान्तायाः स्तन-चक्रवाक-युगलं कन्दर्प-बाणानलैर् दग्धानाम् अवगाहनाय विधिना रम्यं सरो निर्मितम् ।।५५।। [शृ.ति. १]
भार्या पुत्रश् च दासश् च त्रय एवाधनाः स्मृताः ।
यत् ते समधिगच्छन्ति यस्य ते तस्य तद् धनम् ।।५६।। [मनु. ८.४१६]
प्रिया हिताश् च ये राज्ञो ग्राह्य-वाक्या विशेषतः ।
आश्रयेत् पार्थिवं विद्वांस् तद्-द्वारेण नान्यथा ।।५७।। [पञ्च. १.३२?]
भवारण्यं भीमं तनु-गृहम् इदं छिद्र-बहुलं बली कालश् चौरो नियतम् असिता मोह-रजनी ।
गृहीत्वा ज्ञानासि विरति-फलकं शील-कवचं समाधानं कृत्वा स्थिरतर-दृशो जाग्रत जनाः ।।५८।। [?]
प्रत्युपस्थित-कालस्य सुखस्य परिवर्जनम् ।
अनागत-सुखाशा च नैव बुद्धिमता नयः ।।५९।। [म.भा. १२.५२८०]
प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते ।
पूर्वं मृतं च भर्तारं पश्चात् साद्यनुगच्छति ।।६०।। [म.भा. १.३०३३]
प्रथमे नार्जिता विद्या द्वितीये नार्जितं धनम् ।
तृतीये नार्जितं पुण्यं चतुर्थे किं करिष्यते ।।६१।। [चा.नी.सा. ९३]
रागी बिम्बाधरोऽसौ स्तन-कलश-युगं यौवनारूढ-गर्वं नीचा नाभिः प्रकृत्या कुटिल-कमलकं स्वल्पकं चापि मध्यम् ।
कुर्वन्त्व् एतानि नाम प्रसभम् इह मनश् चिन्तितान्य् आशु स्वेदं यन् मां तस्या कपोलौ दहत इति मुहुः स्वच्छकौ तन् न युक्तम् ।।६२।। [पञ्च. १.२२१]
यो नाना-द्युति-मत्-पदार्थ-रसिकोऽसारेऽपि शक्रायुधे स-प्रेमा स विलोक्य बर्हम् इह मे किं किं न कुर्यात् प्रियम् ।
इत्य् आविष्कृत-बर्ह-राजि नटते यो बर्हिणोऽम्भोलवान् नान्यन् मुञ्चति तं विहाय जलदं कोऽन्योऽस्ति शून्याशयः ।।६३।। [रा.त. ३.२१८]
शरीरम् एवायतनं सुखस्य दुःखस्य चाप्य् आयतनं शरीरम् ।
यद् यच् छरीरेण करोति कर्म तेनैव देही समुपाश्नुते तत् ।।६४।। [म.भा. १२.५४७८]
विनयेन विना का श्रीः का निशा शशिना विना ।
रहिता सत्-कवित्वेन कीदृशी वाग्-विदग्धता ।।६५।। [?]
शशिना सह याति कौमुदी सह मेघेन तडित् प्रलीयते ।
प्रमदाः पति-वर्त्मगा इति प्रतिपन्नं हि विचेतनैर् अपि ।।६६।। [कु.सं. ४.३३]
वरं मौनं कार्यं न च वचनम् उक्तं यद् अनृतं वरं क्लैब्यं पुंसां न च पर-कलत्राभिगमनम् ।
वरं प्राण-त्यागो न च पिशुन-वाक्येष्व् अभिरुचिर् वरं भिक्षाशित्वं न च पर-धनास्वादन-सुखम् ।।६७।। [हि. १.१३७]
पुरो रेवा-पारे गिरि-रति-रादु-रोह-शिखरो धनुर् बाणैः पश्चाच् छबर-कवरो धावति भृशम् ।
सरः सव्येऽसव्ये दव-दहन-दाह-व्यतिकरो न गन्तुं न स्थातुं हरिण-शिशुर् एवं विलपति ।।६८।। [नीति-रत्न ५]
लीलावतीनां सहजा विलासास् त एव मूढस्य हृदि स्फुरन्ति ।
रागो नलिन्या हि निसर्ग-सिद्धस् तत्र भ्रमत्य् एव सुधा षडङ्घ्रिः ।।६९।। [?]
बुद्धिश् च हीयते पुंसां नीचैः सह समागमात् ।
मध्यमैर् मध्यतां याति श्रेष्ठतां याति चोत्तमैः ।।७०।। [म.भा. ३.३०]
विस्तीर्ण-व्यवसाय-साध्य-महतां स्निग्ध-प्रयुक्ताशिषां� कार्याणां नय-साहसोन्नति-मताम् इच्छा-पदारोहिणाम् ।
मानोत्सेक-पराक्रम-व्यसनिनः पारं न यावद्-गताः सामर्षे हृदयेऽवकाश-विषया तावत् कथं निर्वृतिः ।।७१।। [पञ्च. ३.२५३]
लोको वहति किं राजन् न मूर्ध्ना दग्धुम् इन्धनम् ।
क्षालयन्न् अपि वृक्षाङ्घ्रीन् नदी-वेगो निकृन्तति ।।७२।। [हि. ४.६०]
वरुणेन यथा पाशैर् बद्ध एवाभिदृश्यते ।
तथा पापान् निगृह्णीयाद् व्रतम् एतद् धि वारुणम् ।।७३।। [रा. २.१२२.१२]
लाक्षा-लक्ष्म ललाटाट्टम् अभितः केयूर-मुद्रा गले वक्रे कज्जल-कालिमा नयनयोस् ताम्बूल-रागोदयः ।
दृष्ट्वा कोप-विधायि मण्डनम् इदं प्रातश् चिरं प्रेयसो लीला-तामरसोदरे मृददृशः श्वासाः समाप्तिं गताः ।।७४।। [अमरु. ६०]
लज्जा स्नेहः स्वर-मधुरता बुद्धयो यौवन-श्रीः कान्तासङ्गो यजन-समता� दुःख-हानिर् विलासः ।
धर्मः शास्त्रं सुर-गुरु-मतिः शौचम् आचार-चिन्ता पूर्णे सर्वे जठर-पिठरे प्राणिनां सम्भवन्ति ।।७५।। [पञ्च. ५.९१]
पुण्ये ग्रामे वने वा महति सित-पटच्-छन्न-पाली-कपालीम् आदाय न्याय-गर्भं द्विज-हुत-हुतभुग्-धूम-धूम्रोपकण्ठम् ।
द्वारं द्वारं प्रविष्टो दरम् उदर-दरी-पूरणाय क्षुधार्तो मानी प्राणी सनाथो न पुनर् अनुदिनं तुल्य-कुल्येषु दीनः ।।७६।। [भर्तृ. ३.२४]
अदेश-कालार्थम् अनायति-क्षमं यद् अप्रियं लाघव-कारि चात्मनः ।
विचिन्त्य बुद्ध्या मुहुर् अप्य् अवैम्य् अहं न तद्-वचो हालाहलं हि तद् विषम्� ।।७७।। [पञ्च. ३.११२]
अदृष्ट-पूर्वान् आदाय भावान् अपरिशङ्कितान् ।
इष्टानिष्टान् मनुष्याणाम् अस्तं गच्छन्ति रात्रयः ।।७८।। [म.भा. १२.१२५१९]
सत्-क्षेत्र-प्रतिपादितः प्रिय-वचो-बद्धालवालावलिर् निर्दोषेण मनः-प्रसाद-पयसा निष्पन्न-सेक-क्रियः ।
दातुस् तत् तद् अभीप्सितं किल फलन् कालेऽतिचालोऽप्य् असौ राजन् दान-महीरुहो विजयते कल्प-द्रुमादीन् अपि ।।७९।। [सु. ३०२८]
अथ नित्यम् अनित्यं वा नेह शोचन्ति तद्-विदः ।
नान्यथा शक्यते कर्तुं स्वभावः शोचताम् इति ।।८०।। [भा.पु. ७.२.४९]
अत्युन्नतिं प्राप्य नरः प्रावारः कीटको यथा ।
स विनश्यत्य् असन्देहम् आहैवम् उशना नृपः ।।८१।। [सं.पा. ५७]
क्षेत्र-ग्राम-वनाद्रि-पत्तन-पुरी-द्वीप-क्षमा-मण्डल- प्रत्याशा-धन-सूत्र-बद्ध-मनसां लब्धादिकं ध्यायताम् ।
तृष्णे देवि यदि प्रसीदसि तनोष्य् अङ्गानि तुङ्गानि चेत् तद् भोः प्राण-भृतां कुतः शम-कथा ब्रह्माण्ड-लक्षैर् अपि ।।८२।। [प्र. ३५]
अत्युदात्त-गणेष्व् एषा कृत-पुण्यैः प्ररोपिता ।
शत-शाखी भवत्य् एव यावन्-मात्रापि सत्-क्रिया ।।८३।। [रा.त. ३.३०४]
अत्युत्सेकेन महसा साहसाध्यवसायिनाम् ।
श्रीर् आरोहति सन्देहं महताम् अपि भू-भृताम् ।।८४।। [रा.त. ४.५१७]
ज्ञातुं वपुः-परिमितः क्षमते त्रिलोकीं जीवः कथं कथय सङ्गतिम् अन्तरेण ।
शक्नोति कुम्भ-निहितः सुशिखोऽपि दीपो भावान् प्रकाशयितुम् अप्य् उदरे गृहस्य ।।८५।। [?]
अनादर�-परो विद्वान् ईहमानः स्थिरां श्रियम् ।
अग्नेः शेषम् ऋणाच् छेषं शत्रोः शेषं न शेषयेत् ।।८६।। [?]
अत्यम्बु-पानं कठिनासनं च धातु-क्षयो वेग-विधारणं च ।
दिवा-शयो जागरणं च रात्रौ षड्भिर् नराणां निवसन्ति रोगाः ।।८७।। [विक्रम. २३७]
आश्रिताश् चैव लोकेन समृद्धिं यान्ति विद्विषः ।
समृद्धाश् च विनाशाय तस्मान् नोद्वेजयेत् प्रजाः ।।८८।। [?]
अत्यन्त-चञ्चलस्येह पारदस्य निबन्धने ।
कामं विज्ञायते युक्तिर् न स्त्री-चित्तस्य काचन ।।८९।। [कथा. ३७.२३२]
अतुष्टि-दानं कृत-पूर्व-नाशनम् अमाननं दुश्चरितानुकीर्तनम् ।
कथा-प्रसङ्गेन च नाम-विस्मृतिर् विरक्त-भावस्य जनस्य लक्षणम् ।।९०।। [हि. १.११४]
दुर्जनस्य च सर्पस्य वरं सर्पो न दुर्जनः ।
सर्पो दशति कालेन दुरजनस् तु पदे पदे ।।९१।। [बृ.चा. ३.४]
अतीव गुण-सम्पन्नो न जातु विनयान्वितः ।
सुसूक्ष्मम् अपि भूतानाम् उपमर्दम् उपेक्षते ।।९२।। [म.भा. ५.१४५५]
अतीतान् आगता भावा ये च वर्तन्ति सांप्रतम् ।
तान् काल-निर्मितान् बुद्ध्वा न संज्ञां हातुम् अर्हसि ।।९३।। [म.भा. १.२४४]
धनवान् क्रोध-लोभाभ्याम् आविष्टो नष्ट-चेतनः ।
तिर्यग्-ईक्षा शुष्क-मुखः पापको भ्रुकुटी-मुखः ।।९४।। [हि. १.१२३]
अतिवादांस् तितिक्षेत नाभिमन्येत् कथंचन ।
क्रोध्यमानः प्रियं ब्रूयाद् आक्रुष्टः कुशलं वदेत् ।।९५।। [मनु. ६.४७]
अतिक्लेशेन यद् द्रव्यम् अतिलोभेन यत् सुखम् ।
पर-पीडा च या वृत्तिर् नैव साधुषु विद्यते ।।९६।। [म.भा. ५.१५२१]
निर्दशन्न् अधरोष्ठं च क्रुद्धो दारुण-भाषिता ।
कस् तम् इच्छेत् परिद्रष्टुं दातुम् इच्छति चेन् महीम् ।।९७।। [?]
अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः ।
धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ।।९८।। [मनु १२.१०३]
अज्ञानाद् यदि वा ज्ञानात् कृत्वा कर्म विगर्हितम् ।
तस्माद् विमुक्तिम् अन्विच्छन् द्वितीयं न समाचरेत् ।।९९।। [मनु ११.२३२]
मा कुरु धन-जन-यौवन-गर्वं हरति निमेषात् कालः सर्वम् ।
माया-मयम् इदम् अखिलं हित्वा ब्रह्म-पदं प्रविशाशु विदित्वा ।।१००।। [मोह-मुद्गर]
अजा-खर-खुरोत्सर्ग-मार्जनी-रेणुवज् जनैः ।
दीप-खट्वोत्थ-च्छायेव त्यज्यते निर्धनो जनः ।।१०१।। [पञ्च. २.१०८]
अचोद्यमानानि यथा पुष्पाणि च फलानि च ।
स्व-कालं नातिवर्तन्ते तथा कर्म पुरा-कृतम् ।।१०२।। [म.भा. १२.६७५६]
नाकालतो भानुर् उपैति योगं नाकालतोऽस्तं गिरिम् अभ्युपैति ।
नाकालतो हीयते वर्धते च चन्द्रः समुद्रोऽपि महोर्मि-माली ।।१०३।। [म.भा. १२.२६.१२]
अघं स केवलं भुङ्क्ते यः पचत्य् आत्म-कारणात् ।
यज्ञ-शिष्टाशनं ह्य् एतत् सताम् अन्नं विधीयते ।।१०४।। [मनु. ३.११८]
अग्न्य्-आधानेन यज्ञेन काषायेण जटाजिनैः ।
लोकान् विश्वासयित्वैव ततो लुम्पेद् यथा वृकः ।।१०५।। [म.भा. १.५५६०]
नाकालतो म्रियते जायते वा नाकालतो व्याहरते च बालः ।
नाकालतो यौवनम् अभ्युपैति नाकालतो रोहति बीजम् उप्तम् ।।१०६।। [म.भा. १२.२६.११]
अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयं कृतम् ।
तस्मात् तु पुरुषो यत्नाद् धर्मं संचिनुयाच् छनैः ।।१०७।। [म.भा. ५.१५५०]
अग्निहोत्रं त्रयो वेदास् त्रिदण्डं भस्म-गुण्ठनम् ।
प्रज्ञा-पौरुष-हीनानां जीविकेति बृहस्पतिः ।।१०८।। [प्र. ३०]
नाकाल-मत्ताः खग-पन्नगाश् च मृग-द्विपाः शैल-मृगाश् च लोके ।
नाकालतः स्त्रीषु भवन्ति गर्भा नायान्त्य् अकाले शिशिरोष्ण-वर्षाः ।।१०९।। [म.भा. १२.२६.१०]
एवम् एव कुले जाताः पावकोपम-तेजसः ।
क्षमावन्तो निराकाराः काष्ठेऽग्निर् इव शेरते ।।११०।। [?]
स एव खलु दारुभ्य यदा निर्मथ्य दीप्यते ।
तद् दारु च वनं चान्यन् निर्दहत्य् आशु तेजसा ।।१११।। [म.भा. ५.३७.५७]
नाक्रोशी स्यान् नावमानी परस्य मित्र-द्रोही नोत नीचोपसेवी ।
न चाभिमानी न च हीन-वृत्तो रूक्षां वाचम् उषतीं वर्जयति ।।११२।। [म.भा. ५.३६.६]
अग्निस् तेजो महल् लोके गूढस् तिष्ठति दारुषु ।
न चोपयुङ्क्ते तद् दारु यावन् नो दीप्यते परैः ।।११३।। [म.भा. ५.१३९४]
अग्निं प्राप्य यथा सद्यस् तूल-राशिर् विनश्यति ।
तथा गङ्गा-प्रवाहेण सर्वं पापं विनश्यति ।।११४।। [विक्रम. १८३]
व्याधिभिर् मथ्यमानानां३ त्यजतां विपुलं धनम् ।
वेदनां नापकर्षन्ति यतमानाश् चिकित्सकाः ।।११५।। [म.भा. १२.३१८.३०]
अक्षेत्रे बीजम् उत्सृष्टम् अन्तरैव विनश्यति ।
अबीजकम् अपि क्षेत्रं केवलं स्थण्डिलं भवेत् ।।११६।। [मनु. १०.७१]
अक्षमा ह्री-परित्यागः श्री-नाशो धर्म-सङ्क्षयः ।
अभिध्या-प्रख्यता चैव सर्वं लोभात् प्रवर्तते ।।११७।। [म.भा. १२.५८८१]
शमयति गजान् अन्यान् गन्ध-द्विपः कलभोऽपि सन् प्रभूतितरां वेगोदग्रं भुजङ्ग-शिशोर् विषम् ।
भुवम् अधिपतिर् बालावस्थोऽप्य् अलं परिरक्षितुं न खलु वयसा जात्यैवायं स्व-कार्य-सहो गणः ।।११८।। [विक्रमोर्वशीय ५.१८]
अक्षमः क्षमता-मानी क्रियायां यः प्रवर्तते ।
स हि हास्यास्पदत्वं च लभते प्राण-संशयम् ।।११९।। [सं. ३९]
अक्रोधेन जयेत् क्रुद्धम् असाधुं साधुना जयेत् ।
जयेत् कदर्थं दानेन जयेत् सत्येन चानृतम् ।।१२०।। [म.भा. ५.१५१८]
ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु ।
दाम्भिको दुष्कृत-प्राज्ञः शूद्रेण सदृशो भवेत् ।।१२१।। [म.भा. ३.२०६.११]
अक्रोधनः क्रोधनेभ्यो विशिष्टस् तथा तितिक्षुर् अतितिक्षोर् विशिष्टः ।
अमानुषेभ्यो मानुषाश् च प्रधाना विद्वांस् रथैवाविदुषः प्रधानः ।।१२२।। [म.भा. १.३५५६]
अकृतेष्व् एव कार्येषु मृत्युर् वै सम्प्रकर्षति ।
युवैव धर्म-शीलः स्याद् अनिमित्तं हि जीवितम् ।।१२३।। [म.भा. १२.९९४२]
यस् तु शूद्रो दमे सत्ये धर्मे च सततोत्थितः ।
तं ब्राह्मणम् अहं मन्ये वृत्तेन हि भवेद् द्विजः ।।१२४।। [म.भा. ३.२०६.१२]
अकीर्तिं विनयो हन्ति हन्त्य् अनर्थं पराक्रमः ।
हन्ति नित्यं क्षमा क्रोधम् आचारो हन्त्य् अलक्षणम् ।।१२५।। [म.भा. ५.१४८८]
अकिञ्चनस्य शुद्धस्य उपपन्नस्य सर्वशः ।
अवेक्षमाणस् त्रींल् लोकान् न तुल्यम् उपलक्षये ।।१२६।। [म.भा. १२.६५७०]
सन्तः सच्-चरितोदय-व्यसनिनः प्रादुर्भवद् यन्त्रणाः सर्वत्रैव जनापवाद-चकिता जीवन्ति दुःखं सदा ।
अव्युत्पन्न-मतिः कृतेन न सता नैवासता व्याकुलो युक्तायुक्त-विवेक-शून्य-हृदयो धन्यो जनः प्राकृतः ।।१२७।। [दशरूपक ३.१८]
अकिञ्चनः परिपतन् सुखम् आस्वादयिष्यसि ।
अकिञ्चनः सुखं शेते समुत्तिष्ठति चैव ह ।।१२८।। [म.भा. १२.६५६८]
अकाले कृत्यम् आरब्धं कऋतुं नार्थाय कल्पते ।
तद् एव काल आरब्धं महतेऽर्थाय कल्पते ।।१२९।। [म.भा. १२.५००६]
ह्यः पश्यद्भिर् अकारण-स्मित-सितं पाथोज-कोशाकृति श्मश्रूद्बोध-कठोरम् अद्य रभसाद् उत्तप्त-ताम्र-प्रभम् ।
प्रातर् जीर्ण-बलक्ष-केश-विकृतं वृद्धाज-शीर्षोपमं वक्त्रं नः परिहस्यते ध्रुवम् इदं भूतैश् चिर-स्थायिभिः ।।१३०।। [?]
अकाल-सहमत्य्-अल्पं मूर्ख-व्यसनि-नायकम् ।
अगुप्तं भीरु-योधं च दुर्ग-व्यसनम् उच्यते ।।१३१।। [हि. ३.१३५]
अकार्याण्य् अपि पर्याप्य कृत्वापि वृजिनार्जनम् ।
विधीयते हितं यस्य स देहः कस्य सुस्थिरः ।।१३२।। [रा.त. ४.३८३]
स्तन-तटम् इदम् उत्तुङ्गं निम्नो मध्यः समुन्नतं जघनम् ।
विषमे मृग-शावाक्ष्या वपुषि नवे क इव न स्खलति ।।१३३।।
अकार्य-करणाद् भीतः कार्याणां च विवर्जनात् ।
अकाले मन्त्र-भेदाच् च येन माद्येन् न तत् पिबेत् ।।१३४।।
अकामान् कामयति यः कामयानान् परित्यजेतस्मै ।
बलवन्तं च यो द्वेष्टि तम् आहुर् मूढ-चेतसम् ।।१३५।।
स्तनयोर् जघनस्यापि मध्ये मध्यं प्रिये तव ।
अस्ति नास्तीति सन्देहो न मेऽद्यापि निवर्तते ।।१३६।। [काव्या. २.२१७]
अकामां५ कामयानस्य शरीरम् उपतप्यते ।
इच्छन्तीं कामयानस्य प्रीतिर् भवति शोभना ।।१३७।।
अकामस्य क्रिया काचिद् दृश्यते नेह कऋहिचित् ।
यद् यद् धि कुरुते किञ्चित् तत् तत् कामस्य चेष्टितम् ।।१३८।।
प्रथमा गतिर् आत्मैव द्वितीया गतिर् आत्मजः ।
सन्तो गतिस् तृतीयोक्ता चतुर्थी धर्म-सञ्चयः ।।१३९।। [रा. २.६२]
अकस्मात् प्रक्रिया नॄणाम् अकस्माच् चापकर्षणम् ।
शुभाशुभे महत्त्वं च प्रकर्तुं बुद्धि-लाघवात् ।।१४०।।
अकर्म-शीलं च महाशनं च लोक-द्विष्टं बहुमायं नृशंसम् ।
अदेश-कालज्ञम् अनिष्ट-वेषम् एतान् गृहे न प्रतिवासयीत ।।१४१।।
प्रयोजनेषु ये सक्ता न विशेषेषु भारत ।
तान् अहं पण्डितान् मन्ये विशेषा हि प्रसङ्गिनः ।।१४२।। [म.भा. ५.२४४१]
अद्यैव कुरु यच् छ्रेयो वृद्धः सन् किं करिष्यसि ।
स्वगात्राण्य् अपि भाराय भवन्ति हि विपर्यये ।।१४३।।
अधरः किसलय-रागः कोमल-विटपानुकारिणौ बाहू ।
कुसुमम् इव लोभनीयं यौवनम् अङ्गेषु संनद्धम् ।।१४४।।
चत्वार्य् आहुर् नर-श्रेष्ठा व्यसनानि महीक्षिताम् ।
मृगया पानम् अक्षाश् च ग्राम्ये चैवातिरक्तता ।।१४५।।
अधर्मेण च यः प्राह यश् चाधर्मेण पृच्छति ।
तयोर् अन्यतरः प्रैति विद्वेषं वाधिगच्छति ।।१४६।।
अध्रुवेण शरीरेण प्रतिक्षण-विनाशिना ।
ध्रुवं यो नार्जयेद् धर्मं स शोच्यो मूढ-चेतनः ।।१४७।।
निबन्धनी रज्जुर् एषा या ग्रामे वसतो रतिः ।
छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः ।।१४८।। [म.भा. १२.१६९.२४]
अध्वा जरा देहवतां पर्वतानां जलं जरा ।
असम्भोगो जरा स्त्रीणां वाक्-शल्यं मनसो जरा ।।१४९।।
अनधिगत-मनोरथस्य पूर्वं६ शत-गुणितेव गता मम त्रियामा ।
यदि तु तव समागमे तथैव प्रसरति सुभ्रु ततः कृती भवेयम् ।।१५०।।
मृदुर् आर्द्रः कृशो भूत्वा शनैः संलीयते रिपुः ।
वल्मीक इव वृक्षस्य पश्चान् मूलानि कृन्तति ।।१५१।। [ह.वं. ११६८]
अनध्वन्याः काव्येष्व् अलस-गतयः शास्त्र-गहनेष्व् अदुःखज्ञा वाचां परिणतिषु मूकाः पर-गुणे ।
विदग्धानां गोष्ठीष्व् अकृत-परिचर्याश् च खलु ये भवेयुस् ते किं वा पर-भणिति-कण्डूति-निकषाः ।।१५२।।
अनभ्यासेन विद्यानाम् असंसर्गेण धीमताम् ।
अनिग्रहेण चाक्षाणां जायते व्यसनं नृणाम् ।।१५३।।
मौढ्येन विपद्-आपन्नं मध्य-स्थं सुहृदं तथा ।
शक्त्या ततः समुद्धृत्य हितार्थं भर्त्सयेत् सुधीः ।।१५४।। [कविता ७६]
अनर्थकं विप्रवासं गृहेभ्यः पापैः सन्धिं पर-दाराभिमर्शनम् ।
दैन्यं स्तैन्य्ं पैशुनं मद्य-पानं न सेवते यश् च सुखी सदैव ।।१५५।।
अनर्थम् अर्थतः पश्यन्न् अर्थं चैवाप्य् अनर्थतः ।
इन्द्रियैः प्रसृतो बालः सुदुःखं मन्यते सुखम् ।।१५६।।
बन्धु-त्यागस् तनु-त्यागो देश-त्याग इति त्रिषु ।
आद्य्-अन्ताव् आयत-क्लेशौ मध्यमः क्षणिक-ज्वरः ।।१५७।।
अनवाप्यं च शोकेन शरीरं चोपतप्यते ।
अमित्राश् च प्रहृष्यन्ति मा स्म शोके मनः कृथाः ।।१५८।।
अनातुरोत्कण्ठितयोः प्रसिध्यता समागमेनापि रतिर् न मां प्रति ।
परस्पर-प्राप्ति-निराशयोर् वरं शरीर-नाशोऽपि समानुरागयोः ।।१५९।।
प्रज्ञया मानसं दुःखं हन्याच् छारीरम् औषधैः ।
एतद् धि ज्ञान-सामर्थ्यं न बालैः समताम् इयात् ।।१६०।। [म.भा. ३.१४०७९]
अनात्मवान् नय-द्वेषी वर्धयन्न् अरि-सम्पदः ।
प्राप्यापि महद् ऐश्वर्यं सह तेन विनश्यति ।।१६१।।
अनादेयं नाददीत परिक्षीणोऽपि पार्थिवः ।
न चादेयं समृद्धोऽपि सूक्ष्मम् अप्य् अर्थम् उत्सृजेत् ।।१६२।।
न च रात्रौ सुखं शेते ससर्प इव वेश्मनि ।
यः कोपयति निर्दोषं स-दोषोऽभ्यन्तरं जनम् ।।१६३।। [म.भा. ५.३८.३७]
अनादेयस्य चादानाद् आदेयस्य च वर्जनात् ।
दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्येह च नश्यति ।।१६४।।
अनाद्य्-अन्ता तु सा तृष्णा अन्तर्-देह-गता नृणाम् ।
विनाशयति सम्भूता अयोनिज इवानलः ।।१६५।।
न च शत्रुर् अवज्ञेयो दुर्बलोऽपि बलीयसा ।
अल्पोऽपि हि दहत्य् अग्निर् विषम् अल्पं हिनस्ति च ।।१६६।। [म.भा. १२.५८.१७]
अनाम्नाय-मला वेदा ब्राह्मणस्याव्रतं मलम् ।
मलं पृथिव्या वाहीकाः पुरुषस्यानृतं मलम् ।।१६७।।
अनारभ्या भवन्त्य् अर्थाः केचिन् नित्यं तथागताः ।
कृतः पुरुषकारोऽपि भवेद् येषु निरर्थकः ।।१६८।।
द्वेषादि वै कृतवतः प्रतिभासतेऽन्यो मिथ्यैव चित्रम् अधिको विशदात्मनोऽपि ।
चन्द्रादि पश्यति पुरो द्वि-गुणं प्रकृत्या तेजो-मयं तिमिर-दोष-हतं हि चक्षुः ।।१६९।।
अनार्य-वृत्तम् अप्राज्ञम् असूयकम् अधार्मिकम् ।
अनर्थाः क्षिप्रम् आयान्ति वाग्-दुष्टं क्रोधनं तथा ।।१७०।।
अनावृत-नव-द्वार-पञ्जरे विहगानिलः ।
यत् तिष्ठति तद् आश्चर्यं वियोगे तस्य का कथा ।।१७१।।
परोक्त-मात्रं यस् तथ्यं मन्यते बुद्धि-वर्जितः ।
हसनीयः परेषां स शाखारूढो जटी यथा ।।१७२।। [वृ.चा. ४.४९]
अनित्ये प्रिय-संवासे संसारे चक्रवद् गतौ ।
पथि संगतम् एवैतद् भ्राता माता पिता सखा ।।१७३।।
अनिर्वाच्यम् अनिर्भिन्नम् अपरिच्छिन्नम् अव्ययम् ।
ब्रह्मेव सुजन-प्रेम दुःख-मूल-निकृन्तनम् ।।१७४।।
अपकृत्य बल-स्थस्य दूरस्थोऽस्मीति नाश्वसेत् ।
श्येनानुचरितैर् ह्य् एते निपतन्ति प्रमाद्यतः ।।१७५।।
अनिर्वेदः श्रियो मूलं चञ्चुर् मे लोह-संनिभा ।
अहो-रात्राणि दीर्घाणि समुद्रः किं न शुष्यति ।।१७६।।
अनिश्चितैर् अध्यवसाय-भीरुभिर् पदे पदे दोष-शतानुदर्शिभिः ।
फलैर् विसंवादम् उपागता गिरः प्रयान्ति लोके परिहास-वस्तुताम् ।।१७७।।
मित्रं परित्यजति मुञ्चति बन्धु-वर्गं शीघ्रं विहाय जननीम् अपि जन्म-भूमिम् ।
संसज्य गच्छति विदेशम् अनिष्ट-लोकं वित्ताकुली-कृत-मतिः पुरुषोऽविलम्ब्य ।।१७८।।७ [पञ्च. ५.२६]
अनिष्ट-सम्प्रयोगाच् च विप्रयोगात् प्रियस्य च ।
मानुष्या मानसैर् दुःखैर् युज्यन्ते अल्प-बुद्धयः ।।१७९।।
अनीर्ष्युर् गुप्त-दारश् च सम्विभागी प्रियंवदः ।
श्लक्ष्णो मधुर-वाक् स्त्रीणां न चासां वशगो भवेत् ।।१८०।।
न पिता नात्मजो नात्मा न माता न सखी-जनः ।
इह प्रेत्य च नारीणां पतिर् एको गतिः सदा ।।१८१।।
अनुबन्धं च सम्प्रेक्ष्य विपाकांश् चैव कर्मणाम् ।
उत्थानम् आत्मनश् चैव धीरः कुर्वीत वा न वा ।।१८२।।
अनुबन्धान् अवेक्षेत८ सानुबन्धेषु कर्मसु ।
सम्प्रधार्य च कुर्वीत न वेगेन समाचरेत् ।।१८३।।
सत्यश् चात्र प्रवादोऽयं लौकिकः प्रतिभाति माम् ।
पितॄन् समनुजायन्ते नरा मातरम् अङ्गनाः ।।१८४।। [रा. २.३५.२८]
अनुयाति न भर्तारं यदि दैवात् कथंचन ।
तथापि शीलं संरक्ष्यं शील-भङ्गात् पतत्य् अधः ।।१८५।।
अनेक-चित्त-मन्त्रस् तु द्वेष्यो भवति मन्त्रिणाम् ।
अनवस्थित-चित्तत्वात् कर्ये तैः स उपेक्ष्यते ।।१८६।।
मूढ जहीहि धनागम-तृष्णां कुरु तनु-बुद्धि-मनःसु वितृष्णाम् ।
यल् लभसे निज-कर्मोपात्तं वित्तं तेन विनोदय चित्तम् ।।१८७।। [मोह-मुद्गर]
अन्तर्-दुष्टः क्षमा-युक्तः सर्वानर्थ-करः किल ।
शकुनिः शकटारश् च दृष्टान्ताव् अत्र भूपते ।।१८८।।
अन्तर् ये सततं लुथन्त्य् अगणितास् तान् एव पाथोधरैर् आत्तान् आपततस् तरङ्ग-वलयैर् आलिङ्ग्य गृह्णन्न् असौ ।
व्यक्तं मौक्तिक-रत्नतां जल-कणान् सम्प्रापयत्य् अम्बुधिः प्रायोऽन्येन कृतादरो लघुर् अपि प्राप्तोऽर्च्यते स्वामिभिः ।।१८९।।
मूर्खा यत्र न पूज्यन्ते धान्यं यत्र सुसञ्चितम् ।
दम्पत्योः कलहो नास्ति तत्रश्रीः स्वयम् आगता ।।१९०।। [बृ.चा. ३.२१]
अन्त्येषु रेमिरे धीरा न ते मध्येषु रेमिरे ।
अन्त्य-प्राप्तिं सुखं प्राहुर् दुःखम् अन्तरम् अन्त्ययोः ।।१९१।।
मूलम् एवादितश् छिन्द्यात् पर-पक्षस्य नित्यशः ।
ततः सहायांस् तत्-पक्षान् सर्वांश् च तद्-अनन्तरम् ।।१९२।। [म.भा. १.५५५७?]
अन्योच्छिष्टेषु पात्रेषु भुक्त्वैतेषु महीभुजः ।
कस्मान् न लज्जाम् अवहञ् शौच-चिन्तां न वा दधुः ।।१९३।।
अन्यो धनं प्रेत-गतस्य भुङ्क्ते वयांसि चाग्निश् च शरीर-धातून् ।
द्वाभ्याम् अयं सह गच्छत्य् अमुत्र पुण्येन पापेन च वेष्ट्यमानः ।।१९४।।
चल-स्वभावा दुःसेव्या दुर्ग्राह्या भावतस् तथा ।
प्राज्ञस्य पुरुषस्येह यथा वाचस् तथा श्रियः ।।१९५।।
अन्योन्य-समुपष्टम्भाद् अन्योन्यापाश्रयेण च ।
ज्ञातयः सम्प्रवर्धन्ते सरसीवोत्पलान्य् उत ।।१९६।।
अन्यो हि नाश्नाति कृतं हि कर्म स एव कर्ता सुख-दुःख-भागी ।
यत् तेन किञ्चिद् धि कृतं हि कर्म तद् अश्नुते नास्ति कृतस्य नाशः ।।१९७।। [म.भा. ३.१३८६८]
उद्योगेन विना नैव कार्यं किम् अपि सिध्यति ।
नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ।।१९८।।
अपकारिणि विस्रम्भं यः करोति नराधमः ।
अनाथो दुर्बलो यद्वन् न चिरं स तु जीवति ।।१९९।। [ह.वं. ११६३]
लोभाद् एव नरा मूढा धन-विद्यान्विता अपि ।
अकृत्येषु वियोज्यन्ते भ्राम्यन्ते दुर्गमेष्व् अपि ।।२००।। [हि. १.३४]
अन्यो हि नाश्नाति कृतं हि कर्म स एव कर्ता सुख-दुःख-भागी ।
यत् तेन किञ्चिद् धि कृतं हि कर्म तद् अश्नुते नास्ति कृतस्य नाशः ।।२०१।। [म.भा. ३.?]
अपहत्य तमस् तीव्रं यथा भात्य् उदरे रविः ।
तथापहत्य पाप्मानं भाति गङ्गा-जलोक्षितः ।।२०२।। [विक्रम. १८१]
अपां प्रवाहो गाङ्गोऽपि समुद्रं प्राप्य तद्-रसः ।
भवत्य् अवश्यं तद् विद्वान् नाश्रयेद् अशुभात्मकम् ।।२०३।। [का.नी. ५.८]
सुखम् एव हि दुःखान्तं कदाचिद् दुःखतः सुखम् ।
तस्माद् एतद् द्वयं जह्याद् य इच्छेच् छाश्वतं सुखम् ।।२०४।। [म.भा. १२.७५५?]
अपि मन्दत्वम् आपन्नो नष्टो वापीष्ट-दर्शनात् ।
प्रायेण प्राणिनां भूयो दुःख-वेगोऽधिको भवेत् ।।२०५।। [पञ्च. २.१७४]
अपि मार्दव-भावेन गात्रं संलीय बुद्धिमान् ।
अरिं नाशयते नित्यं यथा वल्ली महा-द्रुमम् ।।२०६।। [हरि. ११६७]
सुखार्थी नागारि-प्रतिभय-शमात् प्रत्युत सुखं जहौ शेषस् तल्पीकृत-तनु निषेव्यासुर-रिपुम् ।
यतस् तेनामुष्मिन्न् अधिगतवता क्लेश-सहतां श्रमा-धायि न्यस्तं निरवधि धरा-भार-वहनम् ।।२०७।। [रा.त. ३.२१५]
अपुत्रस्य गतिर् नास्ति स्वर्गो नैव च नैव च ।
तस्मात् पुत्र-मुखं दृष्ट्वा भवेत् पश्चाद् धि तापसः ।।२०८।। [विक्रम. ८५]
अपूर्विणा न कर्तव्यं कर्म लोके विगर्हितम् ।
कृत-पूर्विणस् तु त्यजतो महान् धर्म इति श्रुतिः ।।२०९।। [म.भा.१२.२८३.५]
सुख-दुःखानि भूतानाम् अजरो जरयत्य् असौ ।
आदित्यो ह्य् अस्तम् अभ्येति पुनः पुनर् उदेति च ।।२१०।। [म.भा. १२.३१८.७]
अप्य् उन्मत्तात् प्रलपतो बालाच् च परिसर्पतः ।
सर्वतः सारम् आदद्याद् अश्मभ्य इव काञ्चनम् ।।२११।। [म.भा. ५]
अप्रसादोऽनधिष्ठानं देयांश-हरणं च यत् ।
काल-यापोऽप्रतीकारस् तद् वैराग्यस्य कारणम् ।।२१२।। [हि. ३.९०]
सुख-दुःखे समे स्यातां जन्तूनां क्लेश-हेतुके ।
मूर्ध्नि तापिन् केशानां भवेतां स्नेह-च्छेदने ।।२१३।। [दृ.श. ४७]
अप्रियैर् अपि निष्पिष्टैः किं स्यात् क्लेशासहिष्णुभिः ।
ये तद्-उन्मूलने शक्ता जिगीषा तेषु शोभते ।।२१४।। [रा.त. ३.२८३]
अभयस्य हि यो दाता स पूज्यः सततं नृपः ।
सत्रं हि वर्धते तस्य सदैवाभय-दक्षिणम् ।।२१५।। [म.भा. १२]
सुख-दुःखे हि पुरुषः पर्यायेणोपसेवते ।
न ह्य् अनन्तं सुखं कश्चित् प्राप्नोति पुरुषर्षभ ।।२१६।। [बृ.चा. ४.१३]
अभिन्न-वेलौ गम्भीराव् अम्बुराशिर् भवान् अपि ।
असाव् अञ्जन-संकाशस् त्वं तु चामीकर-द्युतिः ।।२१७।। [काव्या. २.१८३]
अभिप्रायं यो विदित्वा तु भर्तुः सर्वाणि कार्याणि करोत्य् अतन्द्रीः ।
वक्ता हितानाम् अनुरक्त आर्यः शक्तिज्ञ आत्मेव हि सोऽनुकम्प्यः ।।२१८।। [म.भा. ५.१३५८]
सुखं दुःखान्तम् आलस्यं दाक्ष्यं दुःखं सुखोदयम् ।
भूतिः श्रीर् ह्रीर् धृतिः सिद्धिर् नादक्षे निवसन्त्य् उत ।।२१९।। [म.भा. १२.२७.३०]
वाक्यं तु यो नाद्रियतेऽनुशिष्टः प्रत्याह यश् चापि नियुज्यमानः ।
प्रज्ञाभिमानी प्रतिकूल-वादी त्याज्यः स तादृक् त्वरयैव भृत्यः ।।२२०।। [?]
अभिमानवतां पुंसाम् आत्म-सारम् अजानताम् ।
अन्धानाम् इव दृश्यन्ते पतनान्ताः प्रवृत्तयः ।।२२१।।
सुखम् आपतितं सेवेद् दुःखम् आपतितं सहेत् ।
कालप्राप्तम् उपासीत सस्यानाम् इव कर्षकः ।।२२२।। [म.भा. ३.२४५.१५]
अभिमानं श्रियं हन्ति पुरुषस्याल्प-मेधसः ।
गर्भेण दुष्यते कन्या गृह-वासेन च द्विजः ।।२२३।।
अभियुक्तं बलवता दुर्लभं हीन-साधनम् ।
हृत-स्वं कामिनं चोरम् आविशन्ति प्रजागराः ।।२२४।।
सुकरं सर्वथा मैत्रं दुष्करं प्रतिपालनम् ।
अनित्यत्वाद् हि चित्तानां प्रीतिर् अल्पेन भिद्यते ।।२२५।।
अभियोक्ता बली यस्माद् अलब्ध्वा न निवर्तते ।
उपहाराद् ऋते तस्मात् सन्धिर् अन्यो न विद्यते ।।२२६।।
अभिलक्ष्यं स्थिरं पुण्यं ख्यातं सद्भिर् निषेवितम् ।
सेवेत सिद्धिम् अन्विच्छञ् श्लाघ्यं विन्ध्यम् इवेश्वरम् ।।२२७।।
यथा शरीरम् एवेदं जल-बुद्बुद-संनिभम् ।
प्रवात-दीप-चपलास् तथा कस्य कृते श्रियः ।।२२८।। [कथा.स. २२.४०]
यथा हि पुरुषः कुर्याच् छरीरे यत्नम् उत्तमम् ।
वसनाद्यैर् उपायैस् तु तथा राज्ये नराधिपः ।।२२९।। [सं.पाठोप. ५६]
अमित्रं नैव मुञ्चेत ब्रुवन्तं करुणान्य् अपि ।
दुःखं तत्र न कुर्वीत हन्यात् पूर्वापकारिणम् ।।२३०।।
अमित्राद् उन्नतिं प्राप्य नोन्नतोऽस्मीति विश्वसेत् ।
तस्मात् प्राप्योन्नतिं नश्येत् प्रावार इव कीटकः ।।२३१।।
यथा हि भरतो वर्णैर् वर्णयत्य् आत्मनस् तनुम् ।
नाना-रूपाणि कुर्वाणस् तथात्मा कर्मजास् तनूः ।।२३२।। [याज्ञ. ३.१६२]
अमित्रो न विमोक्तव्यः कृपणं बह्व् अपि ब्रुवन् ।
कृपा तस्मिन् न कर्तव्या हन्याद् एवापकारिणम् ।।२३३।।
अमित्रो मित्रतां याति मित्रं चापि प्रदुष्यति ।
सामर्थ्य-योगात् कार्याणां तद्-गत्या हि सदा गतिः ।।२३४।।
बुद्धिः प्रभावस् तेजश् च सत्त्वम् उत्थानम् एव च ।
व्यवसायश् च यस्य स्यात् तस्यावृत्ति भयं कुतः ।।२३५।। [म.भा. ५.३७.३७]
अमृतं चैव मृत्युश् च द्वयं देहे प्रतिष्ठितम् ।
मृत्युम् आपद्यते मोहात् सत्येनापद्यतेऽमृतम् ।।२३६।।
बुद्धिमन्तं कृत-प्रज्ञं शुश्रूसुम् अनसूयकम् ।
दान्तं जितेन्द्रियं चापि शोको न स्पृशते नरम् ।।२३७।। [म.भा. १२.१६८.३२]
बुद्धिमन्तं च मूढं च शूरं भीरुं जदं कविम् ।
दुर्बलं बलवन्तं च भागिनं भजते सुखम् ।।२३८।। [म.भा. १२.१६८.२२]
बुद्धि-रूप-गुणायुष्मत्-पुत्रान् विद्या-विशारदान् ।
प्राप्नुवन्ति नराः सर्वे सुकृतैः पूर्व-जन्मनि ।।२३९।। [प्रसङ्गा.
बुद्धि-श्रेष्ठानि कर्माणि बाहु-मध्यानि भारत ।
तानि जङ्घा जघन्यानि भार-प्रत्यवराणि च ।।२४०।। [म.भा. ५.३५.६५]
दिशो वासः पात्रं कर-कुहरम् एणाः प्रणयिनः समाधानं निद्रा शयनम् अवनी मूलम् अशनम् ।
कदैतत् सम्पूर्णं मम हृदय-वृत्तेर् अभिमतं भविष्यत्य् उग्रं परम-परितोषोपचितये ।।२४१।।
तपः-सीमा मुक्तिः सकल-गुण-सीमा वितरणं कला-सीमा काव्यं जनन-सुख-सीमा सुवदना ।
भियः सीमा मृत्युः सुकृत-कुल-सीमाश्रित-भृतिः क्षुधा-सीमान् नान्तः श्रुति-मुख-सीमा हरि-कथा ।।२४२।। [प्रसङ्गा. १०]
यदा विनाश-कालो वै लक्ष्यते दैव-निर्मितः ।
तदा वै विपरीतेषु मनः प्रकुरुते नरः ।।२४३।। [रा. ३.६२.२०]
व्यालाश्रयापि विकलापि सकण्टकापि वक्रापि पङ्किल-भवापि दुरासदापि ।
गन्धेन बन्धुर् असि केतकि सर्वजन्तोर् एको गुणः खलु निहन्ति समस्त-दोषान् ।।२४४।। [बृ.चा. १७.२१]
प्रेयांस् तेऽहं त्वम् अपि च मे प्रेयसीति प्रवादस् त्वं मे प्राणा अहम् अपि तवास्मीति हन्त प्रलापः ।
त्वं मे ते स्याम् अहम् अपि च यत् तच् च नो साधु राधे व्याहारे नौ नहि समुचितो युष्मद् अस्मत्-प्रयोगः ।।२४५।।
उत्थिता एव पूज्यन्ते जनाः कार्यार्थिभिर् नरैः ।
शत्रुवत् पतितं को नु वन्दते मानवं पुनः ।।२४६।।
उत्पततोऽप्य् अन्तरिक्षं गच्छतोऽपि महीतलम् ।
धावतः पृथिवीं सर्वां नादत्तम् उपतिष्ठति ।।२४७।।
उत्पन्नम् आपदं यस् तु समाधत्ते स बुद्धिमान् ।
वणिजो भार्यया जारः प्रत्यक्षे निह्नुतो यथा ।।२४८।।
उपशम-फलाद् विद्या-बीजात् फलं धनम् इच्छतां भवति विफलः प्रारम्भो यत् तद् अत्र किम् अद्भुतम् ।
नियत-विषयाः सर्वे भावा न यान्ति हि विक्रियां जनयितुम् अलं शालेर् बीजं न जातु यवाङ्कुरम् ।।२४९।।
एकः स्वादु न भुञ्जीत एकश् चार्थान् न चिन्तयेत् ।
एको न गच्छेद् अध्वानं नैकः सुप्तेषु जागृयात् ।।२५०।।
एकाकी गृह-सन्त्यक्तः पाणि-पात्रो दिगम्बरः ।
सोऽपि सम्बाध्यते लोके तृष्णया पश्य कौतुकम् ।।२५१।।
एकाकी निःस्पृहः शान्तः पाणि-पात्रो दिगम्बरः ।
कदा शम्भो भविष्यामि कर्म-निर्मूलन-क्षमः ।।२५२।।
द्वाव् इमौ न विराजेते विपरीतेन कर्मणा ।
गृहस्थश् च न्रारम्भः कार्यवांश् चैव भिक्षुकः ।।२५३।।
आहरयति न स्वस्थो विनिद्रो न प्रबुध्यते ।
वक्ति न स्वेच्छया किञ्चित् सेवकोऽपीह जीवति ।।२५४।।
आयस्य तुर्य-भागेन व्यय-कर्म प्रवर्तयन् ।
अन्यून-तैल-दीपोऽपि चिरं भद्राणि पश्यति ।।२५५।।
आयत्यां गुण-दोषज्ञस् तदात्वे क्षिप्र-निश्चयः ।
अतीते कार्य-शेषज्ञः शत्रुभिर् नाभिभूयते ।।२५६।।
आयत्यां च तदात्वे च यत् स्याद् आस्वाद-पेशलम् ।
तद् एव तस्य कुर्वीत न लोक-द्विष्टम् आचरेत् ।।२५७।।
एतत् काम-फलं लोके यद् द्वयोर् एक-चित्तता ।
अन्य-चित्त-कृते कामे शवयोर् इव सङ्गमः ।।२५८।।
एतस्माद् अमृतं सुरैः शत-मखेनोच्चैःश्रवाः सद्-गुणः कृष्णेनाद्भुत-विक्रमैक-वसतिर् लक्ष्मीः समासादिता ।
इत्य् आदि प्रचुराः पुरातन-कथाः सर्वेभ्य एव श्रुता अस्माभिस् तु न दृष्टम् अत्र जलधौ मिष्टं पयोऽपि क्वचित् ।।२५९।।
धैर्यं हि कार्यं सततं महद्भिः कृच्छ्रेऽपि कष्टेऽप्य् अतिसङ्कटेऽपि ।
कृच्छ्राण्य् अकृच्छ्रेण समुत्तरन्ति धैर्योच्छ्रिता ये प्रतिपत्ति-दक्षाः ।।२६०।।
देहि देहीति जल्पन्ति त्यागिनोऽर्थार्थिनोऽपि च ।
आलोकयन्ति यावत् स्याद् अस्ति नास्तीति न क्वचित् ।।२६१।।
एके सत्-पुरुषाः परार्थ-घटकाः स्वार्थं परित्यज्य ये सामान्यास् तु परार्थम् उद्यम-भृतः स्वार्थाविरोधेन ये ।
तेऽमी मानुष-राक्षसाः पर-हितं स्वार्थाय निघ्नन्ति ये ये तु घ्नन्ति निरर्थकं पर-हितं ते के न जामीमहे ।।२६२।।
देवस्याम्बु-मुचश् च नास्ति नियमः कोऽप्य् आनुकूल्यं प्रति व्यञ्जन् यः प्रियम् उत्कटं घटयते जन्तोः क्षणाद् अप्रियम् ।
क्षिप्रं दीर्घ-निदाघ-वासर-वियत्-सन्ताप-निर्वापणां प्रादुष्कृत्य वनस्पतेः प्रकुरुते विद्युद्-विसर्गं च सः ।।२६३।। [सूक्ति. १०५.२]
देवी श्रीर् जनकात्मजा दश-मुखस्यासीद् गृहे रक्षसो नीता चैव रसातलं भगवती वेद-त्रयी दानवैः ।
गन्धर्वस्य मदालसां च तनयां पाताल-केतु-च्छलाद् दैत्येन्द्रोऽपजहार हन्त विषमा वामा विधेर् वृत्तयः ।।२६४।।
किम् अशक्यं बुद्धिमतां किम् असाध्यं निश्चयं दृढं दधताम् ।
किम् अशक्यं प्रिय-वचसां किम् अलभ्यंम् इहोद्यम-स्थानाम् ।।२६५।।
गन्धाप्य् असौ भुवन-विदिता केतकी स्वर्ण-वर्णा पद्म-भ्रान्त्या चपल-मधुपः पुष्प-मध्ये पपात ।
अन्धीभूत्ः कुसुम-रजसा कण्टकैर् लून-पक्षः स्थातुं गन्तुं द्वयम् अपि सखे नैव शक्तो द्विरेफः ।।२६६।। [पद्म.सृ. १९]
गवार्थे ब्राह्मणार्थे च स्वाम्य्-अर्थे स्त्री-कृतेऽथवा ।
स्थानार्थे यस् त्यजेत् प्राणांस् तस्य लोकाः सनातनाः ।।२६७।।
गावो गन्धेन पश्यन्ति वेदेनैव द्विजातयः ।
चारैः पश्यन्ति राजानश् चक्षुर्भ्याम् इतरे जनाः ।।२६८।। [विक्र्. ११७]
त्यागो गुणो गुण-शताभ्यधिको मतो मे विद्यापि भूषयति तं यदि किं ब्रवीमि ।
शौर्यं च नाम यदि तत्र नमोऽस्तु तस्मै तच् च त्रयं न च यदीर्ष्यति चित्रम् एतत् ।।२६९।।
त्याज्यं सुखं विषय-सङ्गम-जन्म पुंसां दुःखोपसृष्टम् इति मूर्ख विचारणैषा ।
व्रीहीं जिहासति सिस्थित-तुण्डलाढ्यान् को नाम भोस् तुष-कणोपहितान् हितार्थी ।।२७०।।
दुर्गं त्रिकूटः परिखा समुद्रो रक्षांसि योधा धनदाच् च वित्तम् ।
शास्त्रं च यस्योशनसा प्रणीतं स रावणो दैव-वशाद् विपन्नः ।।२७१।। [गरुड.अ. ११३]
कर्मानुमेयाः सर्वत्र परोक्ष-गुण-वृत्तयः ।
तस्मात् परोक्ष-वृत्तीनां फलैः कर्म विभावयेत् ।।२७२।। [हि. ४.१०६]
किं गजेन प्रभिन्नेन राज-कर्माण्य् अकुर्वता ।
स्थूलोऽपि यदि वास्थूलः श्रेयान् कृत्य-करः पुमान् ।।२७३।।
किं चन्दनैः स-कर्पूरैस् तुहिनैः शीतैश् च किम् ।
सर्वे ते मित्र-गात्रस्य कलां नार्हन्ति षोडशीम् ।।२७४।। [शृ.ति. २.२]
नोपभोक्तुं न च त्यक्तुं शक्नोति विषयान् जरी ।
अस्थि निर्दशनः श्वेव जिह्वया लेढि केवलम् ।।२७५।। [हि. १.११३]
नो सत्येन मृगाङ्क एष वदनी-भूतो न चेन्दीवर- द्वन्द्वं लोचनतां गत न कनकैर् अप्य् अङ्ग-यष्टिः कृता ।
किन्त्व् एवं कविभिः प्रतारित-मनास् तत्त्वं विजानन्न् अपि त्वङ्-मांसास्थि-मयं वपुर् मृग-दृशां मन्दो जनः सेवते ।।२७६।। [शृ.श. ४६]
दायादा व्यय-भीरुता-परिहृतारब्धेर् भवन्त्य् उन्नता भृत्याः प्रत्युपकार-कातर-मतेः कुर्युर् न कोऽपि प्रियम् ।
राशी-भूत-धनस्य जीवित-हृतौ शश्वद् यतेरन् निजा भू-भर्तुः क्रियते द्विषेव रभसाल् लोभेन किं नाप्रियम् ।।२७७।। [रा.त. ५.१९०]
कोकिलोऽहं भवान् काकः समानः कालिमावयोः ।
अन्तरं कथयिष्यन्ति काकली-कोविदाः पुनः ।।२७८।। [सा.द. १०.५९]
क्व स दशरथः स्वर्गे भूत्वा महेन्द्र-सुहृद्-गतः क्व स जलनिधेर् वेलां बद्ध्वा नृपः सगरस् तथा ।
क्व स करतलाज् जातो वैण्यः क्व सूर्य-तनुर् मनुर् ननु बलवता कालेनैते प्रबध्य निमीलिताः ।।२७९।। [पञ्च. ३.२५३]
आदीर्घेण चलेन वक्र-गतिना तेजस्विना योगिना नीलाब्ज-द्युतिनाहिना वरम् अहं दृश्यो९ न तच् चक्षुषा ।
दष्टे सन्ति चिकित्सका दिशि दिशि प्रायेण धर्मार्थिनो मुग्धाक्षीक्षण-वीक्षितस्य नहि मे वैद्यो न चाप्य् औषधम् ।।२८०।। [शृ.श. ५५]
आदौ चित्ते ततः काये सतां संजायते जरा ।
असतां च पुनः काये नैव चित्ते कदाचन ।।२८१।। [पञ्च. १.१७७]
अत्युक्तिं रहसि गतं विचित्र-मत्येन भाषमाणं च ।
उचित-प्रणयम् अपि नृपं सहसार्या नोपसर्पन्ति ।।२८२।।
दुर्जन-सङ्गतिर् अनर्थ-परम्पराया हेतुः सताम् अधिगतं वचनीयम् अत्र ।
लङ्केश्वरे हरति दाशरथेः कलत्रं प्राप्नोति बन्धम् अघ दक्षिण-सिन्धु-राजः ।।२८३।। [विक्रम १९७]
जलौकयोपनीयन्ते प्रमदा मन्द-बुद्धिभिः ।
मृगीदृशां जलाकानां विचारान् महद् अन्तरम् ।।२८४।। [काशीखण्ड ६.८५]
जलौका केवलं रक्तम् आददाना तपस्विनाम् ।
प्रमदा सर्वम् आदत्ते चित्तं वित्तं बलं सुखम् ।।२८५।। [काशीखण्ड ६.८६]
कुलं वृत्तं च शौर्यं च सम् एतन् न गण्यते ।
दुर्वृत्तेऽप्य् अकुलीनेऽपि जनो दातरि रज्यते ।।२८६।। [कामं. नी. ५.६०]
दाता लघुर् अपि सेव्यो भवति न कृपणो महान् अपि समृद्ध्या ।
कूपोऽन्तः-स्वादु-जलः प्रीत्यै लोकस्य न समुद्रः ।।२८७।। [पञ्च ६.८५]
निःश्वासोद्गीर्ण-हुतभुग्-धूम-धूम्रीकृताननैः ।
वरम् आशी-विषैः सङ्गं कुर्यान् न त्व् एव दुर्जनैः ।।२८८।। [का.नी. ३.१८]
किं रुद्धः प्रियया कयाचिद् अथवा सख्या तयोद्वेजितः किं वा कारण-गौरवं किम् अपि यन् नाद्यागतो वल्लभः ।
इत्य् आलोच्य मृगीदृशा करतले संस्थाप्य वक्त्राम्बुजं दीर्घे निःश्वसितं चिरं च रुदितं क्षिप्ताश् च पुष्प-स्रजः ।।२८९।। [शृङ्गार-तिलकः १.७५]
कालिदास-कविता नवं वयो माहिषं दधि स-शर्करं पयः ।
एण-मांसम् अबला च कोमला सम्भवन्तु मम जन्म-जन्मनि ।।२९०।। [पद्य.सं. १५]
उपायो न जयो यादृग् रिपोस् तादृङ् न हेतिभिः ।
उपाय-ज्ञोऽल्प-कायोऽपि न शूरैः परिभूयते ।।२९१।। [?]
आगतं विग्रहं विद्वान् उपायैः प्रशमं नयेत् ।
विजयस्य ह्य् अनित्यत्वाद् रभसेन न सम्पतेत् ।।२९२।। [का.नी. १०.३१]
नैतद् विचित्रं मनुजार्भ-मायिनः परावराणां परमस्य वेधसः ।
अघोऽपि यत्-स्पर्शन-धौत-पातकः प्रापात्म-साम्यं त्व् असतां सुदुर्लभम् ।।२९३।। [भा.पु. १०.१२.३८]
ये बाल-भावान् न पठन्ति विद्यां ये यौवनस्ह्ता ह्य् अधनात्म-दाराः ।
ते शोचनीया इह जीव-लोके मनुष्य-रूपेण मृगाश् चरन्ति ।।२९४।। [विक्रम १२३]
दमेन हीनं न पुनन्ति वेदा यद्यप्य् अधीताः सह षड्भिर् अङ्गैः ।
साङ्ख्यं च योगश् च कुलं च जन्म तीर्थाभिषेकश् च निरर्थकानि ।।२९५।। [पद्म.सृष्टि. १९]
कालो दैवं कर्म जीवः स्वभावो द्रव्यं क्षेत्रं प्राण आत्मा विकारः ।
तत्-संघातो बीज-रोह-प्रवाहस् त्वन्-मायैषा तन्-निषेधं प्रपद्ये ।।२९६।।
शत्रोर् अपत्यानि प्रियंवदानि नोपेक्षितव्यानि बुधैर् मनुष्यैः ।
तान्य् एव कालेषु विपत्-कराणि विषस्य पात्राण्य् अपि दारुणानि ।।२९७।। [बृ.नीति. ११०]
ऋतेन जीवेद् अनृतेन जीवेन् मितेन जीवेत् प्रमितेन जीवेत् ।
सत्यानृताभ्याम् अथवापि जीवेत् श्व-वृत्तिम् एकां परिवर्जयेत् तु ।।२९८।। [?]
अक्रोधनः क्रोधनेभ्यो विशिष्टस् तथा तितिक्षुर् अतितिक्षोर् विशिष्टः ।
अमानुषेभ्यो मानुषाश् च प्रधाना विद्वांस् तथैवाविदुषः प्रधानः ।।२९९।। [म.भा. १.८२.६]
नास्तीदृशं संवननं त्रिषु लोकेषु किञ्चन ।
यथा मैत्री च लोकेषु दानं च मधुरा च वाक् ।।३००।। [मत्स्य.अ. ३६]
न तथा तप्यते विद्धः पुमान् बाणैस् तु मर्म-गैः ।
यथा तुदन्ति मर्म-स्था ह्य् असतां परुषेषवः ।।३०१।। [भा.पु. ११.२३.३]
शूरत्व-युक्ता मृदु-मन्द-वाक्या जितेन्द्रियाः सत्य-पराक्रमाश् च ।
प्राग् एव पश्चाद् विपरीत-रूपा ये ते तु भृत्या न हिता भवन्ति ।।३०२।। [?]
यस्यात्म-बुद्धिः कुणपे त्रि-धातुके स्व-धीः कलत्रादिषु भौम इज्य-धीः ।
यत्-तीर्थ-बुद्धिः सलिले न कर्हिचिज् जनेष्व् अभिज्ञेषु स एव गो-खरः ।।३०३।। [भा.पु. १०.८४.१३]
कं योजयेन् मनुजोऽर्थं लभेत निपातयन् नष्ट-दशं हि गर्ते ।
एवं नराणां विषय-स्पृहा च निपातयन् निरये त्व् अन्ध-कूपे ।।३०४।। [?]
तान् वीक्ष्य कृष्णः सकलाभय-प्रदो ह्य् अनन्य-नाथान् स्व-कराद् अवच्युतान् ।
दीनांश् च मृत्योर् जठराग्नि-घासान् घृणार्दितो दिष्ट-कृतेन विस्मितः ।।३०५।। [भा.पु. १०.१२.२७]
लोकः स्वयं श्रेयसि नष्ट-दृष्टिर् योऽर्थान् समीहेत निकाम-कामः ।
अन्योन्य-वैरः सुख-लेश-हेतोर् अनन्त-दुःखं च न वेद मूढः ।।३०६।। [भा.पु. ५.५.१६]
सत्यां क्षितौ किं कशिपोः प्रयासैर् बाहौ स्वसिद्धे ह्य् उपबर्हणैः किम् ।
सत्य् अञ्जलौ किं पुरुधान्न-पात्र्या दिग्-वल्कलादौ सति किं दुकूलैः ।।३०७।। [भा.पु. २.२.४]
भूतैर् आक्र्मयमाणोऽपि धीरो दैव-वशानुगैः ।
तद्-विद्वान् न चलेन् मार्गाद् अन्वशिक्षं क्षितेर् व्रतम् ।।३०८।। [भा.पु. ११.७.३७]
प्राण-वृत्त्यैव सन्तुष्येन् मुनिर् नैवेन्द्रिय-प्रियैः ।
ज्ञानं यथा न नश्येत नावकीर्येत वाङ्-मनः ।।३०९।। [भा.पु. ११.७.३९]
गुणैर् गुणान् उपादत्ते यथा-कालं विमुञ्चति ।
न तेषु युज्यते योगी गोभिर् गा इव गो-पतिःच् ।।३१०।। [भा.पु. ११.७.५०]
नैषां मतिस् तावद् उरुक्रमाङ्घ्रिं स्पृशत्य् अनर्थापगमो यद्-अर्थः ।
महीयसां पाद-रजो-ऽभिषेकं निष्किञ्चनानां न वृणीत यावत् ।।३११।। [भा.पु. ७.५.३२]
नवनीतोपमा वाणी करुणा-कोमलं मनः ।
धर्म-बीज-प्रसूतानाम् एतत् प्रत्यक्ष-लक्षणम् ।।३१२।। [सूक्ति १३०.२]
कोकिलानां स्वरो रूपं नारी-रूपं पतिव्रता ।
विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ।।३१३।।
किं जीवितेन धन-मान-विवर्जितेन मित्रेण किं भवति भीति-सशङ्कितेन ।
सिंह-व्रतं चरत गच्छत मा विषादं काकोऽपि जीवति चिरं च बलिं च भुङ्क्ते ।।३१४।।
तन् मङ्गलं यत्र मनः प्रसन्नं तज् जीवनं यन् न परस्य सेवा ।
तद् गर्जितं यत् स्वजनेन भुक्तं तद् वर्जितं यत् समरे रिपूणाम् ।।३१५।। [?]
वेदादि-शास्त्रम् अखिलं प्रपठन्तु लोकाः कुर्वन्तु नाम क्षिति-पाल-सेवाम् ।
उग्रं तपः प्रतिदिवं प्रतिसाधयन्तु न श्रीस् तथापि च भजत्य् अतिभाग्य-हीनम् ।।३१६।। [प.पु. ७.५.१५६]
त्यक्त्वालसान् दैव-परान् मनुष्यान् उत्थान-युक्तान् पुरुषाद् धि लक्ष्मीः ।
अन्विष्य यत्नाद् वृणुयान् नृपेन्द्र त्स्मात् सदोत्थानवता हि भाव्यम् ।।३१७।। [?]
नित्यं छेदस् तृणानां धरणि-विलिल्खनं पादयोश् चाप-मार्ष्टिर् दन्तानाम् अल्प-शौचं मलिन-वसनता रूक्षता मूर्धजानाम् ।
द्वैसन्ध्ये चापि निद्रा विवसन-शयनं ग्रास-हासातिरेकः स्वाङ्गे पीठे च वाद्यं हरति धनपतेः केशवस्यापि लक्ष्मीम् ।।३१८।। [अष्टरत्न ३]
कुचैलिनं दन्तम् अलोप-धारिणं बह्व्-आशिनं निष्ठुर-भाषिणं च ।
सूर्योदये चास्तम् इते शयानं विमुञ्चति श्रीर् यदि चक्रपाणिः ।।३१९।। [बृ.चा. १५.४]
तद्-वीर्याद् अधिकं यस् तु पुनर् अन्यत् स्व-शक्तितः ।
निष्पादयति तं प्राज्ञाः प्रवदन्ति नरोत्तमम् ।।३२०।। [?]
भिक्षाशी जन-मध्य-सङ्ग-रहितः स्वायत्त-चेष्टः सदा दानादान-विरक्त-मार्ग-निरतः कश्चित् तपस्वी स्थितः ।
रथ्याकीर्ण-विशीर्ण-जीर्ण-वसनैर् आस्यूत-कन्थाधरो निर्मानो निरहङ्कृतिः शम-सुधा-भोगैक-बद्ध-स्पृहः ।।३२१।। [?]
रोहते सायकैर् विद्धं छिन्नं रोहति चासिना ।
वचो दुरुक्तं बीभत्सं न प्ररोहति वाक्-क्षतम् ।।३२२।। [पञ्च. ३.१११]
शय्या शैल-शिला-गृहं गिरि-गुहा वस्त्रं तरुणां त्वचः सारङ्गाः सुहृदो ननु क्षिति-रुहां वृत्तिः फलैः कोमलैः ।
येसां निर्झरम् अम्बु-पानम् उचितं रत्यै तु विद्याङ्गना मन्ये ते परमेश्वराः शिरसि यरि बद्धो न सेवाञ्जलिः ।।३२३।। [वै.श. ८७]
स्वामिनि गुणान्तरज्ञे गुणवति भृत्येऽनुवर्तिनि कलये ।
सुहृदि निरन्तर-चित्ते निवेद्य दुःखं सुखी भवति ।।३२४।। [पञ्च. १.२२०]
ताम्बूलं कटु-तिक्त-मिश्र-मधुरं क्षारं कषायान्वितं वात-घ्नं कफ-नाशनं कृमि-हरं दौर्गन्ध्य-दोषापहम् ।
वक्त्रस्याभरणं मलापहरणं कामाग्नि-सन्दीपनं ताम्बूलस्य सखे त्रयोदश गुणाः स्वर्गेऽप्य् अमी दुर्लभाः ।।३२५।। [शा.प. १४१६]
यः पित्रा समुपात्तानि धन-वीर्य-यशांसि वै ।
न्यूनतां नयति प्राज्ञस् तम् आहुः पुरुषाधमम् ।।३२६।। [मार्क.पु. २१.९५]
भोगा भङ्गुर-वृत्तयो बहुविधास् तैर् एव चायं भवस् तत् कस्येह कृते परिभ्रमत रे लोकाः कृतं चेष्टितैः ।
आशा-पाश-शतापशान्ति-विशदं चेतः-समाधीयतां कामोत्पत्ति-वशात् स्वधामनि यदि श्रद्धेयम् अस्मद्-वचः ।।३२७।। [वै.श. ३९]
लज्जां गुणौघ-जननीं जननीम् इव स्वाम् अत्यन्त-शुद्ध-हृदयाम् अनुवर्तमानाः ।
तेजस्विनः सुखम् असून् अपि सन्त्यजन्ति सत्य-व्रत-व्यसनिनो न पुनः प्रतिज्ञाम् ।।३२८।। [भर्तृ.सं ३१८]
शीघ्र-कृत्येषु कार्येषु विलम्बयति यो नरः ।
तत् कृत्यं देवतास् तस्य कोपाद् विघ्नन्त्य् असंशयम् ।।३२९।। [पञ्च. ३.२१८]
आत्म-भाग्य-क्षत-द्रव्यः स्त्री-द्रव्येणानुकम्पितः ।
अर्थतः पुरुषो नारी या नारी सार्थतः पुमान् ।।३३०।। [?]
दक्षता भद्रता दार्ढ्यं क्षान्तिः क्लेश-सहिष्णुता ।
सन्तोषः शीलम् उत्साहो मण्डयन्त्य् अनुजीविनम् ।।३३१।।
यद् उपात्तं यशः पित्रा धनं वीर्यम् अथापि वा ।
तन् न हापयते यस् तु स नरो मध्यमः स्मृतः ।।३३२।।
प्रियम् एवाभिधातव्यं नित्यं सत्सु द्विषत्सु च ।
शिखीव केका-मधुरः प्रिय-वाक् कस्य न प्रियः ।।३३३।।
राज्ञो विपद् बन्धु-वियोग-दुःखं देश-च्युतिर् दुर्गम-मार्ग-खेदः ।
आस्वाद्यतेऽस्याः कटु निष्फलायाः फलं मयैतच् चिर-जीवितायाः ।।३३४।। [दश-रूपक]
वीत-व्यसनम् अश्रान्तं महोत्साहं महा-मतिम् ।
प्रविशन्ति सदा लक्ष्म्यः सरित्पतिम् इवापगाः ।।३३५।।
स्थानम् उत्सृज्य गच्छन्ति सिंहाः सत्-पुरुषा गजाः ।
तत्रैव निधनं यान्ति काकाः कापुरुषा मृगाः ।।३३६।।
के वा न सन्ति तामरसावतंसा हंसावली-वलयिनो जल-संनिवेशाः ।
किं चातकः फलम् अपेक्ष्य सवज्र-पातां पौरन्दरीम् उपगतो नव-वारिधाराम् ।।३३७।।
मानम् उद्वहतः पुंसो वरम् आपत्-पदे पदे ।
मान-हीनं सुरैह् सार्धं विमानम् अपि सन्त्यजेत् ।।३३८।। [भर्तृ.सं. ६४८]
पुनर् दाराः पुनर् वित्तं पुनर् क्षेत्रं पुनः पुनः ।
पुनः शुभाशुभं कर्म शरीरं न पुनः पुनः ।।३३९।। [बृ.चा. १४.३]
१०
रथः शरीरं पुरुषस्य राजन्न् आत्मा नियन्तेन्द्रियान्य् अस्य चाश्वाः ।
तैर् अप्रमत्तः कुशली सद्-अश्वैर् दान्तैः सुखं याति रथीव धीरः ।।३४०।। [म.भा. ५.३४.५७]
विधात्रा रचिता रेखा ललाटेऽक्षर-मालिका ।
न तां मार्जयितुं शक्तः स्व-बुद्ध्याप्य् अतिपण्डितः ।।३४१।। [पञ्च. २.१८०]
सत्यं जना वच्मि न पक्षपाताल् लोकेषु सर्वेषु च११ तथ्यम् एतत् ।
नान्यन् मनो-हारि नितम्बिनीभ्यो दुःखस्य हेतुर् न च कश्चिद् अन्यः ।।३४२।। [शृ.श. ४०]
एकं भूमि-पतिः करोति सचिवं राज्ये प्रमाणं यदा तं मोहाच् छ्रयते मदः स च मदाद् दास्येन निर्विद्यते ।
निर्विण्णस्य पदं करोति हृदये तस्य स्वतन्त्र-स्पृहा- स्वातन्त्र्य-स्पृहया ततः स नृपतेः प्र