सहधर्मिणी

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

विवाहॆन बन्धॆन गृहस्थाश्रमाय स्वीकृता नारी। सामान्यॆन "सहधर्मम् चरत" इति स्वीकरण वाक्यम्। सहधर्मम् करॊति एषा इति पदार्थः।

इतरलिम्गम्[सम्पाद्यताम्]

भर्ता

अनुवादाः[सम्पाद्यताम्]

  1. самка в животной паре
  2. диалект женщина

इत्तालियन्-moglie फ़्रन्च्-Femme, épouse.

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहधर्मिणी स्त्री।

पत्नी

समानार्थक:सधर्मिणी,पत्नी,पाणिगृहीती,द्वितीया,सहधर्मिणी,भार्या,जाया,दार,वधू,तल्प,कलत्र,क्षेत्र,परिग्रह,गृह

2।6।5।2।4

कृताभिषेका महिषी भोगिन्योऽन्या नृपस्त्रियः। पत्नी पाणिगृहीती च द्वितीया सहधर्मिणी॥

पति : पतिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहधर्मिणी¦ स्त्री सह समानो वा धर्मोऽस्त्यस्या इनि।

१ पत्न्याम् अमरः
“सहधर्मं चरेयाताम्” इति मनूक्तेःसहधर्मचारित्वात्
“शरीरार्द्धं स्मृता जाया पुण्या-पुण्यफले समा” दायभा॰ उक्तेश्च तस्याः पतिकृतधर्मफल-भागित्वाच्च तथात्वम्।

"https://sa.wiktionary.org/w/index.php?title=सहधर्मिणी&oldid=507036" इत्यस्माद् प्रतिप्राप्तम्