सारस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सारसम्, क्ली, (सरसि भवम् । सरस् + अण् ।) पद्मम् । इत्यमरः । १ । १० । ४० ॥ स्त्रीकट्या- भरणम् । इति केचित् ॥

सारसम्, त्रि, (सरसि भवम् । सरस् + अण् ।) सरोवरोद्भवजलादि । तज्जलगुणाः । तथा, -- “नद्याः शैलवराच्चाम्भो यत्र संस्रुत्य तिष्ठति । तत् सरोजजलं छन्नं तदद्भः सारसं स्मृतम् ॥ सारसं सलिलं बल्यं तृष्णाघ्नं मधुरं लघु । रोचनं तुवरं रूक्षं बद्धमूत्रमलं सितम् ॥” इति भावप्रकाशः ॥ (यथा च । “क्षारं घनं वातकफानुकारि त्वग्दोषकृत् तत् कटु दीपनञ्च । प्रोक्तं विपाके भ्रमशोषकारि स्यात् सारसं नो सुखकारि वारि ॥” इति हारीते प्रथमस्थाने सप्तमेऽध्याये ॥)

सारसः, पुं, चन्द्रः । इति मेदिनी ॥

सारसः, पुं, स्त्री, (सरसि भवः । अण् ।) स्वनाम- ख्यातपक्षी । तत्पर्य्यायः । पुष्कराह्वः २ । इत्यमरः । २ । ५ । २२ ॥ गोनर्द्दः ३ नाङ्कुरः ४ लक्ष्मणः ५ लक्षणः ६ सरसीकः ७ सरोत्सवः ८ इति शब्दरत्नावली ॥ रसिकः ९ कामी १० । तन्मांसगुणाः । मधुरत्वम् । अम्लत्वम् । कषाय- त्वम् । महातिसारपित्तग्रहण्यर्शोनाशित्वञ्च । इति राजनिर्घण्टः ॥ * ॥ तस्य शकुनं यथा, -- “इष्टार्थसिद्धिः सकलासु दिक्षु स्यात् सारसद्वन्द्वविलोकनेन । श्रुत्वास्य पृष्ठे निनदं न गच्छेत् सिध्यत्यभीष्टं गृह एव यस्मात् ॥ वामेन योषित्कुललाभकारी शब्दस्तथाग्रे नृपतोऽर्थलब्ध्यै । यः सारसाभ्यां युगपद्विरावः कृतोऽचिरेण क्रमतोऽपि वामः । स वेदितव्यः कथितार्थकारी क्रौञ्चद्वयस्याप्ययमेव वर्गः ॥” इति वसन्तराजशाकुने सारसवर्गः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सारस नपुं।

पद्मम्

समानार्थक:पद्म,नलिन,अरविन्द,महोत्पल,सहस्रपत्र,कमल,शतपत्र,कुशेशय,पङ्केरुह,तामरस,सारस,सरसीरुह,बिसप्रसून,राजीव,पुष्कर,अम्भोरुह,श्रीपर्ण

1।10।40।2।3

सहस्रपत्रं कमलं शतपत्रं कुशेशयम्. पङ्केरुहं तामरसं सारसं सरसीरुहम्.।

अवयव : उत्पलादिदण्डः,अब्जादीनाम्_मूलम्,पद्मकन्दः,पद्मकेसरः,पद्मादीनम्_नवपत्रः,पद्मबीजः

 : शुभ्रकमलम्, रक्तकमलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, जलीयसस्यः

सारस पुं।

सारसः

समानार्थक:पुष्कराह्व,सारस

2।5।22।1।6

क्रुङ्क्रौञ्चोऽथ बकः कह्वः पुष्कराह्वस्तु सारसः। कोकश्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः॥

पत्नी : सारसस्त्री

 : सारसस्त्री

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सारस¦ न॰ सरो नियतवसतिरस्य अण्।

१ पद्मे अमरः

२ कट्यामरणे च। सहं रसेन स्वार्थे अण्।

३ चन्द्रे[Page5285-b+ 38]

४ स्वनामख्याते पक्षिणि पुंस्त्री॰ स्त्रियां ङीष्सरस इदम् अण्।

५ सरोवरसम्बन्धिनि त्रि॰।
“नद्य-शैलवराच्चाम्भा यत्र संस्रुत्य तिष्ठति। तत्सरोज जलंछन्नं सारसं परिकीर्त्तितम्” भावप्र॰ उक्ते

६ जलभेदे
“सारसं सलिलं बल्यं तृष्णाघ्नं मधुरं लधु। रोचनंतुवरं रूक्षं वद्धमूत्रमलं हितम्” तत्रोक्तास्तद्गुणाः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सारस¦ mfn. (-सः-सी-सं) Relating or belonging to a lake or pond, &c. n. (-सं)
1. A lotus.
2. A woman's zone. mf. (-सः-सी) The Sa4ras or Indian crane, male and female, (Ardea Sibirica.) m. (-सः)
1. The moon.
2. A bird in general. E. सरस् a pond, a lake, अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सारस [sārasa], a. (-सी f.) [सरस इदम् अण्]

Belonging to a lake; विशदा विशदामत्तसारसे सारसे जले Kāv.3.14; Nalod. 2.4.

Belonging to or proceeding from a Sārasa.

सः The (Indian) crane, or swan (according to some); विभिद्यमाना विससार सारसानुदस्य तीरेषु तरङ्गसंहतिः Ki.8.31; Śi.6.75;12.44; Me.31; R.1.41.

A bird in general.

The moon.

सम् A lotus; पुरा सरसि मानसे विकचसारसालिस्खलत् Bv.1.3.

The zone or girdle of a woman. -सी A female (Indian) crane.-Comp. -अक्षम् a kind of ruby. -अक्षी a lotus-eyed woman.

सारस [sārasa], a. Crying, calling. -सारस्यम् a cry, shout.

सारस [sārasa] श [ś] नम् [nam], (श) नम् 1 A girdle or zone; सारशनं महानहिः Ki.18.32.

A military girdle; स्वर्णसारसनालम्बि-कौक्षेयक- कृतश्रियम् Śiva. B.29.19 (क्लीबे सारशनं चाथ पुंस्कठ्यां शृङ्खलं त्रिषु Ak.).

A breast-plate.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सारस mf( ई)n. (fr. सरस्)relating or belonging to or coming from a pond or lake Ka1v. VarBr2S. Sus3r.

सारस m. ( ifc. f( आ). )the Indian or Siberian crane , Ardea Sibirica Mn. MBh. etc.

सारस m. a swan= हंसS3is3. xii , 44 ( Sch. )

सारस m. a bird in general(See. राज-स्)

सारस m. the moon L.

सारस m. (in music) a kind of measure Sam2gi1t.

सारस m. N. of a son of गरुडMBh.

सारस m. of a son of यदुHariv.

सारस m. of a hunchback( B. सक) Ma1lav.

सारस n. a lotus Caurap.

सारस n. a woman's zone or girdle(= सारसन) L.

सारस/ सा mfn. crying , calling Nalo7d.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--a kind of bird born of जटायु. M. 6. ३६. [page३-589+ ३०]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

Sārasa : m.: A mythical bird, living in the world of Suparṇas 5. 99. 11, 1.

Born in the kula of Vainateya (Garuḍa), in the vaṁśa of Kaśyapa; feeding on serpents; marked with śrīvatsa, his deity is Viṣṇu; by action a Kṣatriya, not obtaining Brahminhood because indulging in destroying his kinsmen 5. 99. 2-8.

_______________________________
*4th word in right half of page p65_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

"https://sa.wiktionary.org/w/index.php?title=सारस&oldid=505552" इत्यस्माद् प्रतिप्राप्तम्