सुन्दरम्

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • सुन्दरं, सौन्दर्यं, चारुता, लावण्यं, शोभा, कान्ति।

नाम[सम्पाद्यताम्]

  • सुन्दरं नाम मनोहरः।

उदाहरणम्[सम्पाद्यताम्]

  • श्रीलंकादेशे अशोकवनं अस्ति। अत्र उद्यानवनं सुन्दरं अस्ति।
  • तमिलदेशे ऊटीनगरं अस्ति। अत्र उद्यानवनमपि सुन्दरं अस्ति।
  • तमिलदेशे वेलूरु ग्रामं अस्ति। अत्र स्वर्णकदेवालयं अतिसुन्दरं अस्ति।

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुन्दरम्, त्रि, (सुष्ठ उनत्ति आर्द्रीकरोति चित्त- मिति । सु + उन्द क्लेदने + अरः । शकन्ध्वा- दित्वात् साधुः ।) मनोहरम् । तत्पर्य्यायः ॥ रुचिरम् २ चारु ३ सुषमम् ४ साधु ५ शोभ- नम् ६ कान्तम् ७ मनोरमम् ८ रुच्यम् ९ मनोज्ञम् १० मञ्जु ११ मञ्जुलम् १२ । इत्य- मरः । ३ । १ । ५१ ॥ मनोहारि १३ सौम्यम् १४ भद्रकम् १५ रमणीयम् १६ रामणीयकम् १७ । इति तट्टीका ॥ बन्धूरम् १८ बन्धुरम् १९ पेशलम् २० पेसलम् २१ वामम् २२ रामम् २३ अभिरामम् २४ नन्दितम् २५ सुमनम् २६ ॥ इति शब्दरत्नावली ॥ वल्गु २७ हारि २८ स्वरूपम् २९ अभिरूपम् ३० दिव्यम् ३१ । इति जटाधरः ॥

"https://sa.wiktionary.org/w/index.php?title=सुन्दरम्&oldid=507051" इत्यस्माद् प्रतिप्राप्तम्