हायनः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हायनः, पुं, क्ली, (जहाति त्यजति जिहीते प्राप्नोति वा भावानिति । हा त्यागे हा गतौ वा + “हश्च ब्रीहिकालयोः ।” ३ । १ । १४८ । इति ण्युट् ।) वत्सरः । इत्यमरः । १ । ४ । २० ॥ (यथा, भागवते । १ । ६ । ८ । “अहञ्च तद्ब्रह्मकुले ऊषिवांस्तदपेक्षया । दिग्देशकालाव्युत्पन्नो बालकः पञ्चहायनः ॥”)

हायनः, पुं, (जहात्युदकमिति । हा + “हश्च ब्रीहिकालयोः ।” ३ । १ । १४८ । इति ण्युट् ।) ब्रीहिभेदः । अग्निशिखा । इति मेदिनी ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हायनः [hāyanḥ] नम् [nam], नम् a. A year; त्रस्तैकहायनकुरङ्गविलोलदृष्टेः U.3. 28; Māl.4.8.

नः A kind of rice.

A flame.

"https://sa.wiktionary.org/w/index.php?title=हायनः&oldid=506373" इत्यस्माद् प्रतिप्राप्तम्