हितम्

विकिशब्दकोशः तः

हितम् - Benefit

अनुवादम्[सम्पाद्यताम्]

  • हितं(Favour conferred) नाम उपकारः, उपकृतं, उपकारकत्वं, अनुग्रहः, प्रसादं, मङ्गलम्.
  • Advantage profit - फलं, लाभः, अर्थः.
  • For the public benefit - प्रजार्थं.

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हितम्, त्रि, (हि गतिप्रेरणे धा धारणे पुष्टौ वा + क्तः ।) पथ्यम् । गतम् । धृतम् । इति मेदिनी ॥ इष्टसाधनम् । इति मुग्धबोधटीकायां दुर्गा- दासः ॥ मङ्गलम् । यथा, -- “गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतो न यत् । सर्व्वसत्त्वहितार्थाय तत् पशोरिव चेष्टितम् ॥ अहितहितविचारशून्यबुद्धेः श्रुतिसमयैर्बहुभिर्विवर्जितस्य । उदरभरणमात्रतुष्टबुद्धेः पुरुष्लपशोः पशोश्च को विशेषः ॥” इति गारुडे ११५ अध्यायः ॥ मित्रम् । यथा, -- “हितसमरिपुसंज्ञा ये निसर्गे निरुक्ता अधिहितहितमध्यास्तेऽपि तत्कालमित्रैः ।” इति ज्योतिस्तत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=हितम्&oldid=507075" इत्यस्माद् प्रतिप्राप्तम्