भृङ्गराज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृङ्गराजः, पुं, (भृङ्गैव राजते इति । भृङ्ग + राज् + अच् । द्रव्यद्वारेण भृङ्गवत् केशकृर्ष्णीकरणा- त्तथात्वम् ।) क्षुपविशेषः । केसुरिया इति वङ्ग- भाषा । भेगरिया इति हिन्दीभाषा । तत्- पर्य्यायः । केशराजः २ भृङ्गः ३ पत्तङ्गः ४ मार्करः ५ । इति रत्नमाला ॥ भृङ्गाह्वः ६ केश- रञ्जनः ७ पितृप्रियः ८ अङ्गारकः ९ केश्यः १० कुन्तलवर्द्धनः ११ । अस्य गुणाः । तिक्तत्वम् । उष्णत्वम् । चक्षुष्यत्वम् । केशरञ्जनत्वम् । कफा- मशोफश्वित्रनाशित्वम् । तत्र नीलो रसायनः । इति राजनिर्घण्टः ॥ अपि च । “भृङ्गराजो भङ्गरजः मार्करो भृङ्ग एव च । भृङ्गारकः केशराजो भृङ्गारः केशरञ्जनः ॥ भृङ्गराजः कटुस्तिक्तो रूक्षोष्णः कफवातनुत् । केश्यस्त्वच्यः कृमिश्वासकासशोथामयापहृत् ॥ दन्त्यो रसायनो बल्यः कुष्ठनेत्रशिरोऽर्त्ति- जित् ॥” इति भावप्रकाशः ॥ पक्षिविशेषः । (यथा, महाभारते । ३ । १०८ । ७ । शकुनैश्च विचित्राङ्गैः कूजद्भिर्विविधा गिरः । भृङ्गराजैस्तथा हंसैर्दात्यूहैर्जलकुक्कुटैः ॥”) भ्रमरः । इति मेदिनी । जे, ३४ ॥ यज्ञभेदः । इति धरणिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृङ्गराज पुं।

भृङ्गराजः

समानार्थक:मार्कव,भृङ्गराज

2।4।151।2।2

विष्वक्सेनप्रिया गृष्टिर्वाराही बदरेत्यपि। मार्कवो भृङ्गराजः स्यात्काकमाची तु वायसी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृङ्गराज¦ पु॰ भृङ्गान् रजयति रन्ज--णिच्--अण् नि॰

६ त॰। (केशुरिया)।

१ क्षुपभेदे।
“भृङ्गराजः लटु-स्तिक्तो रूक्षोष्णः कफवातनुत्। केश्यस्त्वच्यः कृमिश्वास-कासशोथामयापहृत्। दन्त्यो रसायनी बल्यः कष्ठनेत्र-{??}रोर्त्तिजित्” भावप्र॰

२ पक्षिभेदे

६ त॰ टच्।

३ भ्रमर-श्वेष्ठे मेदि॰

४ यक्षभेदे च धरणिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृङ्गराज¦ m. (-जः)
1. A spreading shrub, (Eclipta or Verbesina pros- trata, or perhaps more properly, Verbesina scandens.)
2. A sort of bird, apparently the variety of shrike termed Malabar, (Lanius malabaricus.)
3. The humble bee.
4. A particular sacrifice. E. भृङ्ग a bee, and राज् to shine, aff. अच्; or with रजस् dust, भृङ्गरजस् and with राजन् shining, ruling, भृङ्घराजन् m. (-जा।)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृङ्गराज/ भृङ्ग--राज m. " bee-king " , a species of large bee , the humble bee L.

भृङ्गराज/ भृङ्ग--राज m. the fork-tailed shrike MBh. R. Sus3r. etc.

भृङ्गराज/ भृङ्ग--राज m. Eclipta Prostrata Sus3r. S3a1rn3gS.

भृङ्गराज/ भृङ्ग--राज m. Wedelia Calendulacea L.

भृङ्गराज/ भृङ्ग--राज m. N. of a tutelary deity Var. Hcat.

भृङ्गराज/ भृङ्ग--राज m. a kind of oblation or sacrifice L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a bird; फलकम्:F1: वा. ३६. 2.फलकम्:/F a god to be worshipped before building houses and palaces. फलकम्:F2: M. २१९. १९; २५३. २५; २६८. १४.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=भृङ्गराज&oldid=434390" इत्यस्माद् प्रतिप्राप्तम्