अनन्ता

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

धरा - आकारन्तः स्त्रीलङ्गम् ।

अर्थः - भूमिः अमरः - [१]

  1. क्ष्मा
  2. रत्नगर्भा
  3. रसा
  4. वसुधा,
  5. गोत्रा,
  6. इला,
  7. भूतधात्री,
  8. सागराम्बरा,
  9. स्थिरा
  10. वसुन्धरा
  11. विपुला
  12. क्षमा,
  13. अचला
  14. विश्वम्भरा,
  15. ज्या
  16. सर्वंसहा
  17. उर्वी,
  18. क्षोणी,
  19. पृथ्वी,
  20. क्षितिः
  21. मही
  22. धात्री,
  23. कुम्भिनी,
  24. भूमिः,
  25. मेदिनी,
  26. गह्वरी
  27. धरणी,
  28. काश्यपी,
  29. वसुमती,
  30. धरित्री
  31. जगती
  32. पृथिवी
  33. अवनिः
  34. कुः
  35. गौः

अनुवादाः[सम्पाद्यताम्]

दुर्वा इत्यर्थे[सम्पाद्यताम्]

दुर्वा

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्ता, स्त्री, (नास्ति अन्तो यस्याः सा ।) पार्व्वती । पृथिवी । अग्निशिखावृक्षः । श्यामालता । दूर्व्वा । पिप्प्यली । दुरालभा । हरीतकी । आमलकी । गुडुची । इति मेदिनी ॥ यवासः । श्वेतदूर्व्वा । नीलदूर्व्वा । अग्निमन्थवृक्षः । इति राजनिर्घण्टः ॥ अनन्तमूलं । तत्पर्य्यायः । गोपवल्ली २ काराला ३ सुगन्धा ४ भद्रवल्लिका ५ भद्रा ६ नागजिह्वा ७ । इति रत्नमाला ॥ गोपी ८ श्यामा ९ शारिवा १० उत्पलशारिवा ११ । इत्यमरः ॥ गोप्यादि- पञ्चश्यामलतायां नागजिह्वायां इति केचित् । गोप्यादित्रयं श्यामलतायां अनन्तोत्पलशारिवेति द्वयं अनन्तमूले इति केचित् । इति तट्टीकायां भरतः ॥ तस्या गुणाः । मलबन्धकारित्वं । रक्त- पित्तनाशित्वं । शीतलत्वञ्च । इति राजबल्लभः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्ता स्त्री।

भूमिः

समानार्थक:भू,भूमि,अचला,अनन्ता,रसा,विश्वम्भरा,स्थिरा,धरा,धरित्री,धरणि,क्षोणि,ज्या,काश्यपी,क्षिति,सर्वंसहा,वसुमती,वसुधा,उर्वी,वसुन्धरा,गोत्रा,कु,पृथिवी,पृथ्वी,क्ष्मा,अवनि,मेदिनी,मही,विपुला,गह्वरी,धात्री,गो,इला,कुम्भिनी,क्षमा,भूतधात्री,रत्नगर्भा,जगती,सागराम्बरा,इडा,भूत,इरा,रोदस्,रोदसी

2।1।2।1।4

भूर्भूमिरचलानन्ता रसा विश्वम्भरा स्थिरा। धरा धरित्री धरणिः क्षोणिर्ज्या काश्यपी क्षितिः॥

अवयव : भूरन्ध्रम्,मृद्

 : अतिनिम्नप्रदेशः, कुमुदयुक्तदेशः, सर्वसस्याढ्यभूमिः, निर्जलदेशः, हलाद्यकृष्टभूमिः, शरावत्याः_अवधेः_प्राग्दक्षिणदेशः, शरावत्याः_अवधेः_पश्चिमोत्तरदेशः, भारतस्य_पश्चिमसीमाप्रदेशः, भारतभूमेः_मध्यदेशः, विन्ध्यहिमाद्रिमध्यदेशः, नडाधिकदेशः, कुमुदबहुलदेशः, बहुवेदसदेशः, बालतृणबहुलदेशः, सपङ्कदेशः, जलाधिकदेशः, अश्मप्रायमृदधिकदेशः, वालुकाबहुलदेशः, सिकतायुक्तदेशः, नद्यम्बुभिः_सम्पन्नदेशः, वृष्ट्यम्बुभिः_सम्पन्नदेशः, स्वधर्मपरराजयुक्तदेशः, सामान्यराजयुक्तदेशः, नद्यादिसमीपभूमिः, पाषाणादिनिबद्धा_भूः, गृहरचनापरिच्छिन्नदेशः, गृहरचनावच्छिन्नवास्तुभूमिः, ग्रामादिसमीपदेशः, पर्वतः, मेखलाख्यपर्वतमध्यभागः, पर्वतसमभूभागः, अद्रेरधस्थोर्ध्वासन्नभूमिः, यागार्थं_संस्कृतभूमिः, स्वभूमिः, पर्वतादयः, विजनः, अश्वेन_दिनैकाक्रमणदेशः, भयङ्करयुद्धभूमिः, प्रेतभूमिः, यज्ञे_स्तावकद्विजावस्थानभूमिः, ऊषरदेशः, देशः, जन्मभूमिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

अनन्ता स्त्री।

धन्वयासः

समानार्थक:यास,यवास,दुःस्पर्श,धन्वयास,कुनाशक,रोदनी,कच्छु,अनन्ता,समुद्रान्ता,दुरालभा

2।4।92।1।3

रोदनी कच्छुरानन्ता समुद्रान्ता दुरालभा। पृश्निपर्णी पृथक्पर्णी चित्रपर्ण्यङ्घ्रिवल्लिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

अनन्ता स्त्री।

शारिवा

समानार्थक:गोपी,श्यामा,शारिवा,अनन्ता,उत्पलशारिवा

2।4।112।1।4

गोपी श्यामा शारिवा स्यादनन्तोत्पलशारिवा। योग्यमृद्धिः सिद्धिलक्ष्म्यौ वृद्धेरप्याह्वया इमे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

अनन्ता स्त्री।

अग्निशिखा

समानार्थक:विशल्या,अग्निशिखा,अनन्ता,फलिनी,शक्रपुष्पिका

2।4।136।2।3

शाकाख्यं पत्रपुष्पादि तण्डुलीयोऽल्पमारिषः। विशल्याग्निशिखानन्ता फलिनी शक्रपुष्पिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

अनन्ता स्त्री।

दूर्वा

समानार्थक:दूर्वा,शतपर्विका,सहस्रवीर्या,भार्गवी,रुहा,अनन्ता

2।4।158।2।4

वास्तुकं शाकभेदाः स्युर्दूर्वा तु शतपर्विका। सहस्रवीर्याभार्गव्यौ रुहानन्ताथ सा सिता॥

 : शुक्लदूर्वा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्ता¦ स्त्री नास्ति अन्तोऽस्याः ब॰। विशल्यायामोषधौ(अनन्तमूल) इति ख्याते मूलभेदे, पावत्याम्, पृथिव्याम्,दुरालभायां, दूर्वायां, हरितक्यां, आमलक्याम्, गुडूच्याम्,अग्निमन्थवृक्षे, अग्निशिखावृक्षे, श्यामलतायाम्, पिपपल्यां,नीलदूर्वायाम्, श्वेतदूर्वायां, शारिवोषधौ च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्ता/ अन्-अन्ता f. the earth

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the wife of स्वायम्भुव Manu. M. 4. ३३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ANANTĀ : Wife of Janamejaya, son of King Pūru.


_______________________________
*6th word in left half of page 35 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अनन्ता&oldid=485570" इत्यस्माद् प्रतिप्राप्तम्