वीथी

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीथी, स्त्री, (वीथि + वा ङीष् ।) पङ्क्तिः । गृहा- ङ्गम् । (यथा, हरिवंशे । ८३ । १८ । “तावप्युभौ सुवचनौ जग्मतुर्म्माल्यकारणात् । वीथीं माल्यापणानां वै गन्धाघ्रातौ द्विपाविव ॥”) नाट्यरूपकः । वर्त्म । इति मेदिनी । थे, ११ ॥ (यथा, महाभारते । ५ । ५१ । ३२ । “वीथीं कुर्व्वन् महाबाहुर्द्रावयन् मम वाहि- नीम् । नृत्यन्निव गदापाणिर्युगान्तं दर्शयिष्यति ॥” * ॥) अथ वीथी । “वीथ्यामेको भवेदङ्कः कश्चिदेकोऽत्र कल्प्यते । आकाशभाषितैरुक्तैश्चित्रां प्रत्युक्तिमाश्रितः ॥ सूचयेद्भूरि शृङ्गारं किञ्चिदन्यान् रसानपि । मुखनिर्व्वहणे सन्धी अर्थप्रकृतयोऽखिलाः ॥ कश्चिदित्युत्तमो मध्यमोऽधमो वा शृङ्गारबहुल- त्वाच्चास्याः कैशिकीवृत्तिबहुलत्वम् ॥ * ॥ अस्यास्त्रयोदशाङ्गानि निर्द्दिशन्ति मनीषिणः । उद्घात्यकावलगिते प्रपञ्चस्त्रिगतं छलम् ॥ वाक्केल्यधिवले गण्डमवस्यन्दितनालिके । असत्प्रलापव्याहारमृदवानि च तानि तु ॥ * ॥ तत्रोद्घात्यकावलगिते प्रस्तावनाप्रस्तावे सोदा- हरणं लक्षिते ॥ * ॥ मिथोवाक्यसमुद्भूतं प्रपञ्चो हास्यकृन्मतः ॥ यथा, विक्रमोर्व्वश्याम् । वडभीस्थविदूषकचेट्यो- रन्योन्यवचनम् । * । त्रिगतं स्यादनेकार्थयोजनं श्रुतिसाम्यतः ॥ यथा । तत्रैव राजा । सर्व्वक्षितिभृतां नाथ दृष्टा सर्व्वाङ्गसुन्दरी । रामा रम्ये वनान्तेऽस्मिन् मया विरहिता त्वया ॥ नेपथ्ये तत्रैव प्रतिशब्दः राजा कथं दृष्टेत्याह । अत्र प्रश्नवाक्यमेवोत्तरवाक्यत्वेन योजितम् । नटादित्रितयविषयमेवेदमिति कश्चित् ॥ * ॥ प्रियाभैरप्रियैर्व्वाक्यैर्विलोभ्य च्छलनात् छलम् । यथा, वेण्यां भीमार्ज्जुनौ । कर्त्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽभिमानी राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रम् । कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः क्वास्ते दुर्य्योधनोऽसौ कथयतु न रुषा द्रष्टुम- भ्यागतौ स्वः ॥ अन्ये त्वाहुश्छलं किञ्चित् कार्य्यमुद्दिश्य कस्य- चित् । जारद्गवी चेति वैषुवते मध्यमार्गे वीथित्रयम् । अजवीथी मृगवीथी वैश्वानरी चेति दक्षिण- मार्गे वीथीत्रयम् । तदुक्तं तत्रैव । “अश्विनी कृत्तिका याम्या नागवीथीति शब्दिता । रोहिण्यार्द्रा मृगशिरो गजवीथ्यभिधीयते ॥ पुष्याश्लेषे तथादित्या वीथी चैरावती स्मृता । एतास्तु वीथयस्तिस्र उत्तरो मार्ग उच्यते ॥ तथा द्वे चापि फल्गुण्यौ मघा चैवार्षभी मता । हस्ता चित्रा तथा स्वाती गोवीथीति तु शब्दिता ॥ ज्येष्ठा विशाखानुराधा वीथी जारद्गवी मता । एतास्तु वीथयस्तिस्रो मध्यमो मार्ग उच्यते ॥ मूलाषाढोत्तराषाढा अजवीथीति शब्दिता । श्रवणञ्च धनिष्ठा च मार्गी शतभिषस्तथा ॥ वैश्वानरी भाद्रपदे रेवती चैव कीर्त्तिता । एतास्तु वीथयस्तिस्रो दक्षिणो मार्ग उच्यते ॥” याम्या भरणी । आदित्या अदितिदेवताका पुनर्व्वसुः । मार्गी मृगवीथी । एवं स्थिते अगस्त्यादुत्तरमजवीथ्यास्तु दक्षिणम् । किन्तु अगस्त्यनिरूढवर्त्तिनो वैश्वानरपथाद्वहिर्वैश्वा- नरवीथीं विहाय मृगवीथीमात्रं पितृयान- मित्यर्थः । इति तट्टीकायां श्रीधरस्वामी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीथी स्त्री।

मार्गः

समानार्थक:अयन,वर्त्मन्,मार्ग,अध्वन्,पथिन्,पदवी,सृति,सरणि,पद्धति,पद्या,वर्तनी,एकपदी,व्रज,वीथी,विवध,वीवध,सहस्

3।3।87।2।2

समर्थस्त्रिषु शक्तिस्थे सम्बद्धार्थे हितेऽपि च। दशमीस्थौ क्षीणरागवृद्धौ वीथी पदव्यपि॥

 : प्रवृद्धजलस्य_निर्गममार्गः, कृत्रिमजलनिःसरणमार्गः, शोभनमार्गः, दुर्मार्गः, मार्गाभावः, चतुष्पथम्, छायाजलादिवर्जितदूरस्थोऽध्वा, चोराद्युपद्रवैर्दुर्गममार्गः, कोशयुगपरिमितमार्गः, चतुश्शतहस्तपरिमितमार्गः, राजमार्गः, पुरमार्गः, राजधानी, ग्राममध्यमार्गः, सौधाद्यारोहणमार्गः, काष्टादिकृतावरोहणमार्गः, गृहनिर्गमनप्रवेशमार्गः, वणिक्पथः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीथी in comp. for वीथि.

"https://sa.wiktionary.org/w/index.php?title=वीथी&oldid=504550" इत्यस्माद् प्रतिप्राप्तम्