रक्तम्

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

रक्तम्

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तम्, क्ली, (रज्यत अङ्गमनेनेति । रन्ज् + क्तः ।) कुङ्कुमम् । ताम्रम् । (अस्य पर्य्यायो यथा, -- “रक्तंवरिष्ठं म्लेच्छाख्यं ताम्रं शुल्वमुडुम्बरम् ॥” इति वैद्यकरत्नमालायाम् ॥) प्राचीनामलकम् । इति मेदिनी । ते, ४८ ॥ पद्मकम् । (अस्य पर्य्यायो यथा, -- संयुक्तं काञ्जिकाभं विशेषतो दुर्गन्धि च सन्नि- पातदुष्टम् । पित्तवद्रक्तेनातिकृष्णञ्च । द्विदोष- लिङ्गं संसृष्टम् ॥” “इन्द्रगोपप्रतीकाशमसंहतमविवर्णञ्च प्रकृतिस्थं जानीयात् ॥” “त्वग्दोषा ग्रन्थयः शोफाः रोगाः शोणित- जाश्च ये । रक्तमोक्षणशीलानां न भवन्ति कदाचन ॥” “देहस्य रुधिरं मूलं रुधिरेणैव धार्य्यते । तस्माद्यत्नेन संरक्ष्यं रक्तं जीव इति स्थितिः ॥ इति सुश्रुते सूत्रस्थाने चतुर्द्दशेऽध्याये ॥ * ॥ “शीतोष्णस्निग्धरुक्षद्यैरुपक्रान्ताश्च ये गदाः । सम्यक्साध्या न सिद्धन्ति रक्तजांस्तान् विभा- वयेत् ॥” अरुणाभं भवेद्बातात् फेणिलं विषदं तनु । पित्तात्पीतासितं रक्तं सौष्ण्यात्स्त्यायति वै चिरात् ॥ ईषत् पाण्डुकफाद्दुष्टं पिच्छिलं तन्तुमद्घनम् । द्विदोषलिङ्गं संसर्गात्त्रिलिङ्गं सान्निपातिकम् ॥” “नात्युष्णशीतं लघुदीपनीयं रक्तेऽपनीते हितमन्नपानम् । तदा शरीरं ह्यनवस्थितासृ- गग्निर्व्विशेषेण च रक्षितव्यः ॥ प्रसन्नवर्णेन्द्रियमिन्द्रियार्था निच्छन्तमव्याहतपक्तिवेगम् । सुखान्वितं पुष्टिबलोपपन्नं विशुद्बरक्तं पुरुषं वदन्ति ॥” इति चरके सूत्रस्थाने २४ अध्यायः ॥)

"https://sa.wiktionary.org/w/index.php?title=रक्तम्&oldid=506918" इत्यस्माद् प्रतिप्राप्तम्