अङ्गः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गः, पुं, स्वनामख्यातदेशः । इति हेमचन्द्रः ॥ मे- दिनीकारमते नित्यबहुवचनान्तशब्दोऽयं । देश- विशेषः । यथा, -- “वैद्यनाथं समास्भ्य भुवनेशान्तगं शिवे । तावदङ्गाभिधो देशो यात्रायां न हि दुंष्यते ॥ इति शक्तिसङ्गमतन्त्रे ७ पटलः ॥ (अयञ्च देशः सरष्वाः सङ्गमे अवस्थितः, अत्र महादेवस्य हुङ्कारेण कामस्य अङ्गत्यागात् अयं अङ्गनाम्ना ख्यातः । यथा रामायणे, -- “अनङ्ग इति विख्यातस्ततःप्रभृति राघव । स चाङ्गविषयः श्रीमान् यत्राङ्गं स मुमोच ह” ॥

अङ्गः, त्रि, (अङ्गं विद्यतेऽस्य अङ्ग + अर्श आद्यच् तथा मेदिन्यां अङ्गं गात्रे प्रतोकोपाययोः पुं भूम्नि- नीवृति । क्लीवैकत्वे त्वप्रधाने त्रिष्वङ्गवति चा- न्तिके इति मेदिनी ।) अङ्गविशिष्टः । निकटः । इति मेदिनी ॥

"https://sa.wiktionary.org/w/index.php?title=अङ्गः&oldid=110247" इत्यस्माद् प्रतिप्राप्तम्