वाच्यम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाच्यम्, त्रि, (उच्यते इति । वच् + ण्यत् । “वचो- ऽशब्दसंज्ञायाम् ।” इति न कुत्वम् ।) कुत्- सितम् । हीनम् । वचनार्हम् । इति मेदिनी । ये, ५५ ॥ (यदुक्तम् । “शत्रोरपि गुणा वाच्या दोषा वाच्या गुरो- रपि ॥”) शक्यम् । यथा, -- “न चाल्पत्वबहुत्वाभ्यां प्रयोगाणां विशिष्यते । वाच्यवाचकभावोऽयमक्षपादादिशब्दवत् ॥ विभीतकेऽप्यक्षशब्दो यद्यप्यल्पैः प्रयुज्यते । तथापि वाचकस्तस्य ज्ञायते शकटाङ्गवत् ॥” इति मलमासतत्त्वधृतभट्टवार्त्तिकवचनम् ॥ अपि च । “अर्थो वाच्यश्च लक्ष्यश्च व्यङ्ग्यश्चेति त्रिधा मतः ।” एषां स्वरूपमाह । “वाच्योऽर्थोऽभिधया बोध्यो लक्ष्यो लक्षणया मतः । व्यङ्ग्यो व्यञ्जनया ताः स्युस्तिस्रः शब्दस्य शक्तयः ॥” इति साहित्यदर्पणे २ परिच्छेदः ॥

वाच्यम्, क्ली, (वच् + ण्यत् ।) प्रतिपादनम् । दूष- णम् । इति धरणिः ॥ (यथा, -- “परवाच्येषु निपुणः सर्व्वो भवति सर्व्वदा ॥”)

"https://sa.wiktionary.org/w/index.php?title=वाच्यम्&oldid=164828" इत्यस्माद् प्रतिप्राप्तम्