निघण्टु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निघण्टुः, पुं, (निघण्टति शोभते इति । घण्ट- दीप्तौ + “मृगय्वादयश्च ।” उणां । १ । ३८ । इति कुप्रत्ययेन साधुः ।) नामसंग्रहः । इति हेमचन्द्रः । २ । १७२ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निघण्टु¦ पु॰ नि + घटि--उ। पर्य्यायनाम्रामेकत्रार्थकथनाय सं-ग्रहे कोषाभिधानादौ तच्च ऋग्वेदभाष्योपक्रमे उक्तं यथा
“आद्यं नैघण्ठुकं काण्डं द्वितीयं नैगमं तथा” अस्यार्थःएकार्थवाचिनां पर्य्यायशब्दानां सङ्घो यत्र प्रायेणोप-दिश्यते तत्र निघण्टुशब्दः प्रसिद्धः। तादृशेष्वमर-सिंहवैजयन्तीहलायुधादिषु दश निघण्टव इति व्यव-हारात्। एवमत्रापि पर्य्यायशब्दसङ्घोपदेशादाद्य-काण्डस्य नैघण्टुकत्वम्। तस्मिन् काण्डे त्रयोऽ-ध्यायाः। तेषु प्रथमे पृथिव्यादिलोकदिक्कालादिद्रव्य-विषयाणि नामामि, द्वितीये मनुष्यतदवयवादिद्रव्यविष-याणि, तृतीये तदुभयद्रव्यगततनुबहुत्वह्रसत्वादिधर्म-विषयाणि”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निघण्टु¦ m. (-ण्टुः) A vocabulary, a collection of words or names.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निघण्टु/ नि-घण् m. a glossary (also -क) , N. of sev. works.

निघण्टु/ नि-घण् m. (mostly pl. )N. of the Vedic glossary explained by यास्कin his निरुक्त

"https://sa.wiktionary.org/w/index.php?title=निघण्टु&oldid=500639" इत्यस्माद् प्रतिप्राप्तम्