परिवेश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवेशः, पुं, (परितो विशतीति । परि + विश् + घञ् ।) वेष्टनम् । परिधिः । इनि मेदिनी । शे । ३७ ॥ “वातेन मण्डलीभूताः सूर्य्याचन्द्रमसोः कराः । मालाभा व्योम्नि तनुते परिवेशः प्रकीर्त्तितः ॥” इति भरतधृतसाहसाङ्कः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवेश(ष)¦ पु॰ परि + विश--(ष--)घञ्।

१ परिधौ

२ वेष्टनेसूर्य्यचन्द्रमण्डलयोर्वेष्टनाकारे

३ उपसूर्य्यकमण्डले तल्ल-क्षणादिकेवृ॰ सं॰ उक्तं यथा
“सम्मूर्च्छिता रवीन्द्वोः किरणाः पवनेन मण्डलीभूताः। नानावर्णाकृतयस्तन्वभ्रे व्योम्नि परिवेषाः। ते रक्त-नीलपाण्डुरकापोताभ्राभशबलहरिशुक्लाः। इन्द्रय-मवरुणनिरृतिश्वसनधनेशपितामहाग्निकृताः। धनदःकरोति मेचकमन्योऽन्यगुणाश्रयेण चाप्यन्यः। प्रवि-लीयते मुहुर्मुहुरल्पफलः सोऽपि वायुकृतः। चाष-शिखिरजततैलक्षीरजलाभः स्वकालतम्भूतः। अविक-लवृत्तः स्निग्धः परिवेषः शिवसुभिक्षकरः। सकल-गगनानुचारी नैकाभः क्षतजसन्निभो रूक्षः। अस-कलशकटशरासनशृङ्गाटकवत् स्थितः पापः। शिखि-गलसमेऽतिवर्षं बहुवर्णे नृपबधो, भयं धूम्रे। हरि-चापनिभे युद्धान्यशोककसुमप्रभे चापि। वर्णेलैकेन यदाबहुलः स्निग्धः शुराभ्रकाकीर्णः। खर्तौ सद्योवर्षंकरीति पीतश्च दीप्तार्कः। दीप्तविहङ्गमृगरुतः कलुषःसन्ध्यात्रयोत्थितोऽतिमहान्। भयकृत्तडिदुल्काद्यैर्हतोनृपं हन्ति शस्त्रेण। प्रतिदिनमर्कहिमांश्वोरहर्निशरक्तयोर्नरेन्द्रबधः। परिविष्टयोरभीक्ष्मं लग्नास्तनभः,स्थयोस्तद्वत्। सेनापतेर्भयकरो द्विमण्डलो नातिशस्त्र-कोपकरः। त्रिप्रभृति शस्तकोपं युवराजभयं नगररोधम्। वृष्टिस्त्र्यहेण मासेन विग्रहो वा ग्रहेन्दुभ-निरोधे। होराजन्माधिपयोर्जन्मर्क्षे वाशुभो राज्ञः। परिवेषमण्डलगतो रवितनयः क्षुद्रधान्यनाशकरः। जनयति च वातवृष्टिं स्थावरक्वषिकृन्निहन्ता च। भौमेकुमारबलपतिसैन्यानां विद्रवोऽग्निशस्त्रभयम्। जीवेपरिवेषगते पुरोहितामात्यनृपपीडा। मन्त्रिस्थावर-लेखकपरिवृद्धिश्चन्द्रजे सुवृष्टिश्च। शुक्रे यायिक्षत्रिय-राज्ञां पीडाऽप्रियं चान्नम्। क्षुदनलमृत्युनराधिप-शस्त्रेम्यी जायते भयं केतौ। परिविष्टे गर्भभयंराहौ व्याधिर्नृपभयं च। युद्धानि विजानीयात् परि-वेषाभ्यन्वरे द्वयोर्ग्र हेयोः। दिवसकृतः शशिनो वा[Page4256-b+ 38] क्षुदवृष्टिभयं त्रिषु प्रोक्तम्। याति षतुर्षुनरेन्द्रःसामात्यपुरोहितो वशं मृत्योः। प्रलयमिव विद्गि जगतःपञ्चादिषु मण्डलस्थेषु। ताराग्रहस्य कुर्य्यात् पृथगेवसमुत्थितो नरेन्द्रबधम्। न{??}त्राणामथ वा यदि केतोर्नो-दयो भवति। विप्रक्षत्रियबिट्छूद्रहा भवेत् प्रतिपदादिषुक्रमशः। श्रेणीपुरकोशानां पजम्यादिष्वशुभकारी। युवराजस्याष्टम्यां परत{??}इषु पार्थिवस्य दोषकरः। पुर-रोधो द्वादश्यां सैन्यक्षोभस्त्रयोदश्याम्। नरपतिपत्नी-पोडां परिवेषोऽभ्युत्थितश्चतुर्दश्याम्। कुर्य्यात् तु पञ्च-दश्यां पीडां मनुजाधिपम्यैव। नागरकाणामभ्यन्तर-स्थिता यायिनां च बाह्यस्था। परियेषमध्यरेखा वि-ज्ञेयाक्रन्दसाराणाम्। रक्तः श्यामो रूक्षश्च भवतियेषां पराजयस्तेषाम्। स्निग्धः श्वेतो द्युतिमान् येषांभागो जयस्तेषाम्। ”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवेश¦ m. (-शः)
1. Surrounding, encompassing.
2. The circumference of a circle.
3. The disk of the sun or moon, a halo round the sun or moon.
4. Waiting at or serving up meals. E. परि round, विश् or विष् to encompass, aff. घञ्; hence also परिवेष |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवेश/ परि-वेश See. वेषunder परि-विष्.

"https://sa.wiktionary.org/w/index.php?title=परिवेश&oldid=279179" इत्यस्माद् प्रतिप्राप्तम्