अकथह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकथह¦ न॰ अ, क, थ, ह, इत्यादिवर्णसंघक्रमेण वर्णसमुदायो-ऽस्त्यस्मिन् अच्। तन्त्रोक्तमन्त्रग्रहणार्थं तत्तन्मन्त्राणां शुभा-शुभविचारोपयोगिनि चक्रभेदे तत्स्वरूपं यथा रुद्रयामले।
“वक्ष्येऽकथहचक्राख्यं सर्व्वचक्रोत्तमोत्तमम्। यस्य विचार-मात्रेण कामरूपी भवेन्नरः॥ तत्प्रकारं वीरनाथ। क्रमशः क्रमशः शृणु। चतुरस्रे लिखेत् वर्ण्णन् चतुः-कोष्ठसमन्विते॥ चतुःकोष्ठ--चतुकोष्ठचतुर्गृहसमन्वितम्। मन्दिरं षोडशं प्रोक्तं सर्व्वकर्म्मार्थसिद्धिदम्॥ चतु-रस्रं लिखेत् कोष्ठं चतुष्कोष्ठसमन्वितम्। पुनश्चतुष्कं तत्रापिलिखेद्धीमान् क्रमेण तु॥ सर्व्वेषु गृहमध्येषु प्रादक्षिण्यक्रमेण तु। अकारादिक्षकारान्तान् लिखित्वा गणयेत्-ततः॥ चन्द्रमग्निं रुद्रवर्णं नवमं युगलन्तथा॥ वेदमङ्कंदश रसं वसुं षोडशमेव च। चतुर्दशं भास्करं च सप्त पञ्च-दशेति च॥ वह्नीन्दु कोष्ठगं वर्णपञ्चाशैकं मयोदितम्। एतदङ्कस्थितान् वर्णान् गणयेत् तदनन्तरम्॥ नामाद्यक्षर-मारभ्य यावत् मन्त्रादिमाक्षरम्। चतुर्भिः कोष्ठैरेकैकमितिकोष्ठचतुष्टयम्॥ पुनः कोष्ठगकोष्ठेषु सव्यतो नामकादितः। सिद्धः साध्यः सुसिद्धोऽरिः क्रमशो गणयेत् वशी॥ सिद्धःसिध्यति कालेन साध्यस्तु जपहोमतः। सुसिद्धो ग्रहणाज्-ज्ञानी शत्रुर्हन्ति चिरायुषम्। सिद्धस्तु बान्धवः प्रोक्तःसाध्यः सेवक उच्यते। सुसिद्धः पोषकः प्रोक्तः शत्मुर्घातकउच्यते। सिद्धकोष्ठस्थिता वर्णा बान्धवाः सर्वकामदाः। जपेन बन्धुः सिद्धः स्यात् सेवकोऽधिकसेवनात्॥ पुष्णातिपोषकोऽभीष्टं घातको नाशयेत् ध्रुवम्। सिद्धो यथोक्तकालेनद्विगुणात् सिद्धसाध्यकः॥ तत्सुसिद्धोऽर्द्धजप्येन सिद्धारि-र्हन्ति बान्धवान्। साध्यसिद्धो द्विगुणतः साध्यसाध्योनिरर्थकः॥ तत्सुसिद्धो द्विघ्नजपात् साध्यारिर्हन्तिगोत्रजान्। सुसिद्धसिद्धोऽर्द्धजपात् तत् साध्यो द्विगुणाधि-कात्। तत्सुसिद्धो ग्रहादेव सुसिद्धारिः सगोत्रहा॥ अरिसिद्धः सुतान् हन्यात् अरिसाध्यस्तु कन्यकाः। तत्-सुसिद्धस्तु पत्नीघ्नस्तदरिर्हन्ति साधकमिति”॥ एतच्च सर्ब्ब-मन्त्रेषु सिद्धादिचक्रत्वेन व्यवह्रियते।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकथह n. a kind of diagram.

"https://sa.wiktionary.org/w/index.php?title=अकथह&oldid=483652" इत्यस्माद् प्रतिप्राप्तम्