सेना

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेना, स्त्री, चतुर्व्विंशतिवृत्तार्हन्मातॄणां तृतीया माता । इति हेमचन्द्रः ॥ इनेन प्रभुणा सह वर्त्तते या । (यद्वा, सिनोति शत्रुमिति । षिञ् बन्धने + “कॄवृजॄषीति ।” उणा० ३ । १० । इति नः । स च नित् । टाप् ।) चतुरङ्गबलम् । फौज इति पारस्यभाषा । (यथा, रघुः । १ । १९ । “सेनापरिच्छदस्तस्य द्वयमेवार्थसाधनम् । शास्त्रेष्वकुण्ठिता बुद्धिर्मौर्व्वी घनुषि चातता ॥”) तत्पर्य्यायः । ध्वजिनी २ वाहिनी ३ पृतना ४ अनीकिनी ५ चमूः ६ वरूथिनी ७ बलम् ८ सैन्यम् ९ चक्रम् १० अनीकम् ११ । इत्य- मरः । २ । ८ । ७८ ॥ वाहना १२ पूतना १३ गुल्मिनी १४ वरचक्षुः १५ । इति शब्दरत्नावली ॥ केचित्तु ध्वजिन्यादि सप्तकं सेनायाम् । बलादि चतुष्कं सेनाङ्गे इत्याहुः । अतएव ध्वजिन्यादि सप्तकंसामान्येन सेनायाम् । बलादि चतुष्कन्तु सामान्ये न सेनायां सेनाङ्गे च इति मतम् ॥ इति भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेना स्त्री।

सेना

समानार्थक:बल,ध्वजिनी,वाहिनी,सेना,पृतना,अनीकिनी,चमू,वरूथिनी,बल,सैन्य,चक्र,अनीक

2।8।78।1।3

ध्वजिनी वाहिनी सेना पृतनानीकिनी चमूः। वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम्.।

अवयव : हस्तिः,यूथमुख्यहस्तिः,हस्तिवृन्दम्,निर्बलहस्त्यश्वसमूहः,अश्वः,अश्वसमूहः,रथः,रथसमूहः,वाहनम्,हस्तिपकः,सारथिः,रथारूढयोद्धा,अश्वारोहः,योद्धा,सेनारक्षकः,सहस्रभटनेता,सेनानियन्तः,सैन्याधिपतिः,धृतकवचगणः,पदातिसमूहः,आयुधजीविः,धनुर्धरः,बाणधारिः,शक्त्यायुधधारिः,यष्टिहेतिकः,पर्श्वधहेतिकः,खड्गधारिः,प्रासायुधिः,कुन्तायुधिः,फलकधारकः,ध्वजधारिः,सैन्यपृष्टानीकः,चमूजघनः

स्वामी : सैन्याधिपतिः

सम्बन्धि2 : सैन्यवासस्थानम्,सैन्यरक्षणप्रहरिकादिः,सेनायां_समवेतः

वृत्तिवान् : सेनारक्षकः,सैन्याधिपतिः

 : हस्त्यश्वरथपादातसेना, पदातिः, पदातिसमूहः, सैन्यव्यूहः, व्यूहपृष्टभागः, सैन्यपृष्टानीकः, पत्तिसेना, सेनामुखनामकसेना, गुल्मसेना, गणसेना, वाहिनीसेना, पृतनासेना, चमूसेना, अनीकिनीसेना, अक्षौहिणीसेना, प्रस्थितसैन्यः, अतिसङ्कुलसैन्याः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेना¦ स्त्री सि--न, सह इनेन प्रभुणा वा।

१ सैन्ये अमरः।

२ जिनानां

३ मातृभेदे हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेना¦ f. (-ना)
1. An army.
2. A goddess, commonly known by DE4VA-SENA4, the personified armament of the gods, the wife of KA4RTIKE4YA.
3. The mother of the third Jaina pontiff of the present era. E. षि to bind, नक् and टाप् aff.; or स with, इन a lord or leader.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेना [sēnā], [सि-न, सह इनेन प्रभुणा वा Uṇ. 3.1]

An army; सेना परिच्छदस्तस्य द्वयमेवार्थसाधनम् R.1.19.

Army personified as the wife of Kārtikeya, the god of war; cf. देवसेना.

A small army (consisting of 3 elephants, 3 chariots, 9 horse and 15 foot).

Any body of men.-Comp. -अग्रम् the van or front of an army. ˚गः the leader or general of an army.

अङ्गम् a component part of an army; (these are four: हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयम्).

a division of an army. -कल्पः an epithet of Śiva. -गोपः the keeper of an army.

चरः a soldier.

a camp-follower. -निवेशः the camp of an army; सेनानिवेशं तुमुलं चकार R.5.49. -नी m.

a leader of an army, commander, general; सेनानीनामहं स्कन्दः Bg.1.24; Ku.2.51.

N. of Kārtikeya; अथैनमद्रेस्तनया शुशोच सेनान्यमालीढमिवासुरास्त्रैः R.2.37.

पतिः a general.

N. of Śiva.

N. of Kārtikeya.

A leader of ten पत्ति divisions; see पत्ति. -पत्यम् commandership, generalship. -परिच्छद् a. surrounded by an army; (in R.1.19 सेनापरिच्छदः is sometimes taken as one word and is interpreted in this way, but it is much better to take them as separate words). -पृष्ठम् the rear of an army. -भङ्गः the breaking of an army, complete rout, disorderly flight.

मुखम् a division of an army.

particularly, a division of an army consisting of three elephants, as many chariots. nine horse, anf fifteen foot; पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः Mb.1.2.2.

a mound in front of a city gate.-योगः the equipment of an army. -रक्षः a guard, sentinel. -वासः a camp. -वाहः the leader of an army.-रुथः a soldier.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेना f. (fr. 2. सि)a missile , dart , spear RV. AV.

सेना f. N. of इन्द्र's wife (or his thunderbolt so personified) TS. AitBr. Vait.

सेना f. an army , armament , battle-array , armed force (also personified as wife of कार्त्तिकेय; ifc. also n( सेन). ) RV. etc.

सेना f. a small army (consisting of 3 elephants , 3 chariots , 9 horse , and 15 foot) L.

सेना f. any drilled troop or band or body of men Ba1lar.

सेना f. a kind of title or addition to the names of persons (also names of courtezans) Sa1h. (See. Pa1n2. 4-1 , 152 etc. )

सेना f. N. of a courtezan (abridged fr. कुबेर-सेना) HParis3.

सेना f. of the mother of शम्भव(the third अर्हत्of the present अवसर्पिणी) L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Senā denotes primarily a ‘missile,’ a sense found in the Rigveda[१] and the Atharvaveda,[२] and then a ‘host’ or ‘army,’ which is its normal meaning.[३] See Saṃgrāma.

  1. Rv. i. 66, 7;
    116, 1 (senā-jū, ‘swift as an arrow’);
    143, 5;
    186, 9;
    ii. 33, 11;
    v. 30, 9;
    vii. 3, 4;
    viii. 75, 7;
    x. 23, 1.
  2. viii. 8, 7;
    xi. 10, 4.
  3. Rv. i. 33, 6;
    vii. 25, 1;
    ix. 96, 1;
    x. 103, 1. 4. 7;
    142, 4;
    156, 2;
    Av. iii. 1, 1;
    19, 6;
    iv. 19, 2;
    v. 21, 9, etc.

    Cf. von Bradke, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 46, 456;
    Bloomfield, ibid., 48, 549, 550;
    Pischel, Vedische Studien, 1, 231, n. 2, denies that Senā ever means ‘missile,’ and compares exercitus effusus, agmen effusum.
"https://sa.wiktionary.org/w/index.php?title=सेना&oldid=505776" इत्यस्माद् प्रतिप्राप्तम्