अकर्त्तव्यम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकर्त्तव्यम्, त्रि, (न + कृञ् + तव्य । न कर्त्तव्यं । नञ्- समासः ।) अकरणीयं । अकरणार्ह्यं । अकार्य्यं । यथा, -- “अविरोधी भवाब्धौ च सर्व्वमङ्गलमङ्गलं । विरोधी नाशवीजञ्च सर्व्वोपद्रवकारणं ॥ अकर्त्तब्यो विरोधश्च दारुणैः क्षत्त्रियैः सह” । इति ब्रह्मवैवर्त्ते गणपतिखण्डे २८ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=अकर्त्तव्यम्&oldid=109736" इत्यस्माद् प्रतिप्राप्तम्