अङ्गविक्षेप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गविक्षेपः, पुं, (वि + क्षिप् + भावे घञ् । अङ्गस्य विक्षेपः एकस्थानादन्यस्थाने चालनं षष्ठीतत्पुरुषः अङ्गहारोऽङ्गविक्षेप इत्यमरः ।) अङ्गहारः । अ- ङ्गचालनरूपनृत्यं । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गविक्षेप पुं।

नृत्यविशेषः

समानार्थक:अङ्गहार,अङ्गविक्षेप

1।7।16।1।2

अङ्गहारोऽङ्गविक्षेपो व्यञ्जकाभिनयौ समौ। निर्वृत्ते त्वङ्गसत्त्वाभ्यां द्वे त्रिष्वाङ्गिकसात्त्विके॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गविक्षेप¦ पु॰ वि--क्षिप--घञ् अङ्गस्य विक्षेपः चालनं यत्रब॰। अङ्गुल्यादिविन्यासभेदेन देहचालनरूपे नृत्ये। तद्भेदादि यथा।
“देहरुच्या प्रतीतो यस्तालमान-समाश्रयः। सविलासोऽङ्गविक्षेपीनृत्यमित्यभिधीयते। ताण्डवञ्च तथा लास्यं द्विविधं नृत्यमुच्यते। पेबलि-र्बहुरूपञ्च ताण्डवं द्विविधं मतम्। अङ्गविक्षेपबाहुल्यं तथाभिनयशून्यता। यत्र सा पेवलिस्तस्यादेशीति नाम लोकतः। छेदनं भेदनं यत्र बहुरूपा मुखा-बली। ताण्डवं बहुरूपन्तत् दारुणात् गलमूर्द्धतः। -छुरितं योवतञ्चेति लास्यं द्विविधमुच्यते। यत्राभिनय-भावाद्ये रसैराश्लेषचुम्बनैः। नायिकानायकौ रङ्गे नृत्य-तश्छुरितं हि तत्। मधुरं बद्धलीलाभिर्नठीभिर्यत्र नृत्यतेवशीकरणविद्याभं तल्लास्यं यौवतं मतम्। गेयादुत्तिष्ठतेवाद्यं वाद्यादुत्तिष्ठते लयः। लयतालसमारब्धं ततोनृत्यंप्रव-र्त्तते इति सङ्गीतदामोदरः। भावे घञ्। अङ्गचालने।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गविक्षेप¦ m. (-पः) Gesture, gesticulation. E. अङ्ग and विक्षेप throwing, moving.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गविक्षेप/ अङ्ग--विक्षेप m. gesticulation

अङ्गविक्षेप/ अङ्ग--विक्षेप m. movement of the limbs and arms a kind of dance.

"https://sa.wiktionary.org/w/index.php?title=अङ्गविक्षेप&oldid=484322" इत्यस्माद् प्रतिप्राप्तम्