धूसरः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूसरः, पुं, (धुनातीति । धू + “कृधूमदिभ्यः कित् ।” उणां ३ । ७३ । इति सरन् । स च कित् ।) ईषत्पाण्डुवर्णः । तद्वति, त्रि । इत्यमरः । १ । ५ । १३ ॥ (यथा, रघौ । ११ । ६० । “श्येनपक्षिपरिधूसरालकाः सान्ध्यमेघरुधिरार्द्रवाससः ॥”) उष्टः । गर्द्दभः । कपोतः । इति राजनिर्घण्टः ॥ तेलकारः । इति हेमचन्द्रः । ६ । २९ ॥ * ॥ धूसरवस्तूनि यथा । धूलिः १ लूता २ करभः ३ गृहगोधिका ४ कपोतः ५ धूषिकः ६ रङ्गम् ७ काककण्ठः ८ खरादिः ९ । इति कविकल्प- लता ॥

"https://sa.wiktionary.org/w/index.php?title=धूसरः&oldid=142885" इत्यस्माद् प्रतिप्राप्तम्