तन्त्री

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्त्रीः, स्त्री, (तन्त्रयति मोहयति लोकानिति । तन्त्र + “अवितॄस्तृतन्त्रिभ्य ईः ।” उणां । ३ । १५८ । इति ईः ।) वीणागुणः । (यथा, रामा- यणे । २ । ३९ । २९ । “नातन्त्रीर्विद्यते वीणा नाचक्रो विद्यते रथः ॥” बीणा । यथा, तत्रैव । १ । २ । १८ । “पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वितः । शोकार्त्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा ॥”) गुडूची । देहसिरा । इति मेदिनी ॥ नदी- विशेषः । युवतीभेदः । इति शब्दरत्नाबली ॥ रज्जुः । इति हेमचन्द्रः ॥ (यथा, मनुः । ४ । ३८ । “न लङ्घयेद्वत्सतन्त्रीं न प्रधावेच्च वर्षति । न चोदके निरीक्षेत स्वं रूपमिति धारणा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्त्री¦ स्त्री तत्रि--ई।

१ वीणागुणे

२ गुडूच्यां

४ देहसिरायांमेदि॰।
“स ददर्श श्वमांसस्य कुतन्त्रीं विततां मुनिः” भा॰ शा॰

१४ अ॰।

४ नदीभेदे

५ नाड्यां

६ युवतीभेदे शब्दर॰। अस्य ङीवन्तत्वाभावेन बहुव्रीहौ स्वाङ्गे नाडीतन्त्रयोःपा॰ न कप् तदभावेऽपि न ह्रस्वः। बहुतन्त्रीर्ग्रीवाबहुतन्त्रीर्धमनी” सि॰ कौ॰। स्वाङ्ग इत्युक्तेः बहुतन्त्रीकावीणेतादो कप्।
“सप्ततन्त्री प्रथिता चैव वीणा” भा॰ व॰

१३

४ अ॰। अस्वाङ्गत्वेऽपि आर्षत्वात् न कप्।

७ रज्जौ
“न लङ्घयेत् वत्सतन्त्रीं” मनुः
“यस्य वाचा प्रजाःसर्वा गावस्तन्त्र्येव यन्त्रिताः” भाग॰

३ ।

१५ ।

८ ।

८ वीणा-याञ्च
“कण्डूयमानः सततं लोकानटति चञ्चलः। घट्ट-यानो नरेन्द्राणां तन्त्रीर्वैराणि चैव ह” हरिवं॰

५७ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्त्री f( ईस्; ई). ( ईस्See. Pa1n2. 5-4 , 159 Ka1s3. ; ईL. )= न्तीGobh. iii , 6 , 7 and BhP. iii , 15 , 8 ( v.l. for न्ती; See. also वत्सतन्त्री)

तन्त्री f( ईस्; ई). the wire or string of a lute S3a1n3khS3r. xvii La1t2y. iv , 1 , 2 Kaus3. etc. ( त्रिR. vi , 28 , 26 )

तन्त्री f( ईस्; ई). ( fig. )the strings of the heart Hariv. 3210 ( v.l. )

तन्त्री f( ईस्; ई). any tubular vessel of the body , sinew , vein Pa1n2. 5-4 , 159

तन्त्री f( ईस्; ई). the plant त्रिकाL.

तन्त्री f( ईस्; ई). a girl with peculiar qualities L.

तन्त्री f( ईस्; ई). N. of a river L.

तन्त्री f( ईस्; ई). See. कु-तन्त्री.

तन्त्री f. of त्रSee.

"https://sa.wiktionary.org/w/index.php?title=तन्त्री&oldid=499872" इत्यस्माद् प्रतिप्राप्तम्