मधूक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधूकम्, क्ली, (महतीति । मह् + “ऊलूका- दयश्च ।” उणा० ४ । ४१ । इति ऊकः निपा- तितश्च ।) यष्टिमधु । इति रार्जनिर्घण्टः ॥ (गुणादयोऽस्य यष्टिमधुशब्दे विज्ञेयाः ॥)

मधूकः, पुं, (मह्यते मन्यते वेति । मह् + मन् वा + “उलूकादयश्च ।” उणा ० ४ । ४१ । इति ऊकप्रत्ययो निपातितश्च ।) वृक्षविशेषः । महुल इति मौल इति महुया इति च भाषा ॥ तत्पर्य्यायः । गुडपुष्पः २ मधुद्रुमः ३ वान- प्रस्थः ४ मधुष्ठीलः ५ । इत्यमरः । २ । ४ । २८ ॥ मधुकः ६ मधुः ७ मधुपुष्पः ८ । इति शब्द- रत्नावली ॥ मधुस्रवः ९ । इति जटाधरः ॥ मधुवृक्षः १० रोधपुष्पः ११ माधवः १२ । (यथा, महाभारते । १५ । २५ । ११ । “चित्राङ्गदा चैव नरेन्द्रकन्या यैषा सवर्णाग्र्यमधूकपुष्पैः ॥”) अस्य गुणाः । मधुरत्वम् । शीतत्वम् । पित्त- दाहश्रमापहत्वम् । वातलत्वम् । जन्तुदोषघ्न- त्वम् । वीर्य्यपुष्टिविवर्द्धनत्वञ्च । अस्य पुष्पगुणाः । मधुरत्वम् । हृद्यत्वम् । हिमत्वम् । पित्त- विदाहकारित्वञ्च । अस्य फलगुणाः । वाता- मयपित्तनाशित्वम् । ज्ञेयं मधूकद्वयमेवमेतत् । इति राजनिर्घण्टः ॥ अपि च । “मधूकपुष्पं मधुरं शीतलं गुरु बृंहणम् । बलशुक्रकरं प्रोक्तं वातपित्तविनाशनम् ॥ फलं शीतं गुरु स्वादु शुक्रलं वातपित्तनुत् । अहृद्यं हन्ति तृष्णास्रदाहश्वासक्षत- क्षयान् ॥” इति भावप्रकाशः ॥ अपरञ्च । “मधूकपुष्पञ्चाहृद्यं तर्पणं बृंहणं परम् । मधूकस्य फलं पक्वं वातपित्तप्रणाशनम् ॥” तन्मज्जगुणास्तत्फलगुणवत् । यथा, -- “यस्य यस्य फलस्यैव वीर्य्यं भवति यादृशम् । तस्य तस्यैव वीर्य्येण मज्जानमभिनिर्द्दिशेत् ॥” तस्य त्वग्गुणाः । “मधूकं रक्तपित्तघ्नं व्रणशोधनरोपणम् ॥” इति राजवल्लभः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधूक पुं।

मधूकः

समानार्थक:मधूक,गुडपुष्प,मधुद्रुम,वानप्रस्थ,मधुष्ठील

2।4।27।2।2

वञ्जुलश्चित्रकृच्चाथ द्वौ पीतनकपीतनौ। आम्रातके मधूके तु गुडपुष्पमधुद्रुमौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधूक¦ न॰ मह--ऊक हस्य धः।

१ यष्टिमधौ अमरः। (मौल)

२ वृक्षे पु॰ राजनि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधूकः [madhūkḥ], 1 A bee.

N. of a tree; अङ्गैर्मुग्धमधूकपुष्परुचिभि- र्लावण्यसारैरयम् Mv.2.21.

कम् A flower of the Madhūka tree; दूर्वावता पाण्डुमधूकदाम्ना Ku.7.14; स्निग्धो मधूकच्छविर्गण्डः Gīt.1; R.6.25.

Liquorice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधूक m. (fr. मधु)a bee S3a1n3khGr2.

मधूक m. Bassia Latifolia (from the blossoms and seeds of which arrac is distilled and oil extracted) ib. MBh. Ka1v. etc.

मधूक n. the blossoms or fruit of -BBassia -LLatifolia L.

मधूक n. liquorice L.

मधूक n. bees-wax L.

"https://sa.wiktionary.org/w/index.php?title=मधूक&oldid=321353" इत्यस्माद् प्रतिप्राप्तम्